राष्ट्रियैकतादिवसस्य अवसरे मुख्यमन्त्री हिमन्तविश्वशर्मणा सरदारवल्लभभाईपटेलाय श्रद्धाञ्जलिः समर्पिता। असौ असमराज्यं भारतस्य अभिन्नाङ्गरूपेण स्थापयितुं सरदारपटेलस्य योगदानं स्मृतवान्।
गुवाहाटी, 31 अक्टूबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तविश्वशर्मा शनिवासरे लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य जयन्त्यवसरे तं स्मृत्वा श्रद्धाञ्जलिम् अर्पितवान्। सरदारपटेलस्य जयन्ती ‘राष्ट्रियैकतादिवसः’ इति रूपेण आचर्यते। मुख्यमन्त्री
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 31 अक्टूबरमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तविश्वशर्मा शनिवासरे लौहपुरुषस्य सरदारवल्लभभाईपटेलस्य जयन्त्यवसरे तं स्मृत्वा श्रद्धाञ्जलिम् अर्पितवान्। सरदारपटेलस्य जयन्ती ‘राष्ट्रियैकतादिवसः’ इति रूपेण आचर्यते।

मुख्यमन्त्री सामाजिकमाध्यमे स्वसन्देशे अवदत् यत् सरदारवल्लभभाईपटेलस्य दृढेच्छाशक्तिः, कुशलं नेतृत्वं सुशासनं च अखण्डभारतस्य यात्रां समृद्धां कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म।

तेन उक्तं यत् राजनैतिकरूपेण विभक्तस्य देशस्य विभिन्नभागान् एकीकृत्य ‘एकभारतं श्रेष्ठभारतं’ इत्यस्य निर्माणे सरदारपटेलस्य योगदानम् ऐतिहासिकम् अस्ति।

मुख्यमन्त्री अवदत् यत् राष्ट्रियैकतायाः अखण्डतायाश्च विषये सरदारपटेलस्य आदर्शाः तस्य योगदानं च अद्यापि देशवासिनां कृते प्रेरणायाः प्रमुखः स्रोतः सन्ति।

----------

Hindusthan Samachar / Dheeraj Maithani