Enter your Email Address to subscribe to our newsletters

नवदिल्ली/कोलकाता, ३१ अक्टोबरमासः (हि.स.)। भारतीयप्रतिभूतिविनिमय-मण्डलस्य अध्यक्षः तुहिनकान्तपाण्डेयः शनिवासरे अवदत् यत् विपणिनियामकः टाटासमूहस्य मातृकम्पन्याः स्तरे प्रबन्ध-नस्य निरीक्षणव्यवस्थायाश्च सम्बद्धान् घटनाक्रमान् अवलोकयति।
तुहिनकान्तपाण्डेयः कोलकातानगरे ‘भारतवाणिज्यसभायाः’ १२५ तमस्य वार्षिकोत्सवसमारोहे निवेशकाणां मञ्चस्य च शुभारम्भावसरे आयोजिते ‘भारतस्य विश्वस्तरीयपूँजीविपण्यस्य निर्माणम्’ इति कार्यक्रमे सम्बोधनं कुर्वन् एतद् उक्तवान्। पूँजीविपण्यनियामकस्य सेबी-सङ्घटनस्य अध्यक्षः स्वसम्बोधने अवदत् यत् टाटासमूहस्य सूचीकृतनिर्माण्य: तासां प्रवर्तकाश्च सेबी-संस्थायाः प्रकटीकरण-सम्बद्धानां अनुपालननियमानां च परिधौ भवन्ति।
सेबी-अध्यक्षस्य एषा टिप्पणी टाटासमूहस्य मातृकम्पन्याः टाटासन्स इत्यस्याः प्रबन्धनस्य निरीक्षणव्यवस्थायाश्च सम्ब-द्धेषु विषयेषु मतभेदानां मध्ये आगता। एतेषु एन. चन्द्रशेखरस्य अध्यक्षरूपेण पुनर्नियुक्तिः तथा निर्माणीं शेयरविपण्ये सूचीकर्तुं प्रस्तावः अपि अन्तर्भवतः। तेन पूँजीसङ्ग्रहप्रक्रियाः सरलाः कर्तुं विशेषं बलं प्रदत्तम्।
तुहिनपाण्डेयः भारतवाणिज्यसभायाः निवे-शकमञ्चस्य शुभारम्भावसरे आयोजित-कार्यक्रमात् बहिः पत्रकारैः सह वार्तालापं कुर्वन् अवदत्, “मातृनिर्माण्या: स्तरे कतिपयाः विषयाः सन्ति, या वस्तुतः सूचीकृता निर्माणी नास्ति। समूहस्य अन्याः सर्वाः सूचीकृतनिर्माण्य: एलओडीआर (सूचीकृततादायित्वानि प्रकटीकरण-सम्बद्धाश्च आवश्यकताः) नियमानाम् अनुपालनं कुर्वन्ति।”
सः अवदत् यत् एतासु सूचीकृतनिर्माणिषु तासां प्रवर्तकेषु च सेबी-संस्थायाः सर्वे नियमाः प्रवर्तन्ते। सेबी टाटासमूहस्य घटनाक्रमान् निरीक्षते किम् इति पृष्टे सः अवदत् यत् सर्वेषां घटनाक्रमानां निरन्तरम् अवलोकनं करणीयम्।
उल्लेखनीयम् अस्ति यत् टाटासमूहस्य २०२४-२५ वित्तवर्षस्य प्रतिवेदनानुसारं समूहे २६ सूचीकृतनिर्माण्य: सन्ति। एतेषां निर्माणीनां संयुक्तं विपणिपूँजीकरणं २०२५ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्क-पर्यन्तं ३२८ अर्बुद-अमेरिकी-डॉलर-परिमितम् आसीत्।
Hindusthan Samachar / Divya Ranjan