Enter your Email Address to subscribe to our newsletters

लखनऊ, ३१ अक्टोबरमासः (हि.स.)। ग्रामीणमहिलानाम् आर्थिकस्वावलम्बनं साधयितुं तथा साहूकारजनेषु तासां निर्भरत्वस्य विवशतां समाप्तुं योगीसर्वकारेण कृतेषु प्रयासेषु महत्त्वपूर्णाः परिणामाः दृश्यन्ते। उत्तरप्रदेशराज्य-ग्रामीणजीविकोपार्जनमिशन इत्यस्य प्रारम्भात् अद्यावधि सार्धनव लक्षाधिकेभ्यः स्वसहायतासमूहेभ्यः ११ सहस्रं ३७८ कोटिरूप्यकाणां ऋणं स्वीकृतम्। एतेन ग्रामीणमहिलाः आर्थिकरूपेण स्वाव-लम्बिन्यः अभवन्। अभियानस्य प्रारम्भात् अद्यावधि ११.८५ लक्षं स्वसहायतासमूहाः गठिताः, येषु १.३८ कोटिपरिवाराः सम्बद्धाः कृताः।
मिशननिदेशकस्य अरुणकुमारस्य अनु-सारम्, अस्याः व्यवस्थायाः कारणेन साहूकारेषु महिलानां निर्भरत्वे उल्लेखनीया न्यूनता अभवत्। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे ग्रामीणमहिलाः स्वसहायतासमूहैः सह सम्बद्धाः क्रियन्ते। ताभ्यः अवशेषस्य, ऋणस्य, कौशलविकासस्य, विपण्याः च अवसराः प्रदीयन्ते। एतेन महिलाः कृषिकार्येषु, पशुपालने, दुग्धोत्पादने, खाद्यप्रसंस्करणे, सेवाक्षेत्रे च आयस्य नूतनान् स्रोतांसि विकसितुं समर्थाः भवन्ति। समूहानां सामूहिकबचतया संस्थागतवित्तस्य सहयोगेन च तासां स्वरोज़गारस्य मार्गः सुगमः भवति।
अल्पपूँजीयुक्तानाम् अपि महिलानाम् उद्यमितायाः अवसराः उद्घाटिताः : अरुणकुमारः
राज्यग्रामीणजीविकोपार्जनमिशन इत्यस्य मिशननिदेशकः अरुणकुमारः अवदत् यत् अस्याः व्यवस्थायाः माध्यमेन तासां ग्रामीणमहिलानाम् अपि उद्यमितायाः अवसराः उद्घाटिताः, यासां समीपे न पर्याप्ता पूँजी आसीत्, न च विपण्यां प्रत्यक्षं प्रवेशस्य सुविधा। कृषिसम्बद्धकार्येभ्यः आरभ्य पशुपालनं, दुग्धोत्पादनं, खाद्य-प्रसंस्करणं, स्थानीयोत्पादनिर्माणं, सेवाक्षेत्रं च यावत् महिलाः आयस्य नूतनान् स्रोतांसि विकसितुं प्रवृत्ताः सन्ति। एतेन परिवारे अतिरिक्तम् आयम् अर्जयन्त्यः सदस्याः इति भूमिकायाः अग्रे गत्वा ताः आर्थिकनिर्णयेषु सहभागिन्यः भवन्ति।
तेन उक्तं यत् स्वसहायतासमूहानां महिलाभ्यः उद्यमितायाः अवसरान् प्रदातुं विशेषं बलं दीयते। उत्पादनस्य सहैव पुटीकरणं, ब्राण्डनिर्माणं, विपण्या सह सम्पर्कवर्धनं च तासां लघुउद्यमानां विस्ताराय अवसरं प्रददाति।
अल्पावशेषेण आरब्धः प्रवासः, संस्थागत-ऋणपर्यन्तं प्राप्त: परिचय:
ग्रामीणजीविकोपार्जनमिशन इत्यस्य अन्तर्गतं महिलाः समूहान् निर्माय नियमितरूपेण बचतं कुर्वन्ति। समूहेषु आन्तरिकऋणस्य, तस्य समये प्रत्यर्पणस्य च व्यवस्था आर्थिकावश्यकतानां पूर्तिं करोति, वित्तीयानुशासनं च विकसितुं साहाय्यं करोति। अग्रे एषा प्रक्रिया ताः धनागारसेवाभिः अन्यैः संस्थागतवित्त-स्रोतैश्च सह सम्बद्धुम् आधारं निर्माति।
जीविकोपार्जनकार्याणां कृते पूँजी इत्यस्या: उपलब्धतया महिलानां व्यवसायारम्भे अथवा तस्य विस्ताराय सहायता भवति। आर्थिकावश्यकतानां पूर्तये साहूकाराणाम् आश्रयं ग्रहीतुं या विवशता आसीत्, तस्याः समाप्तौ स्वसहायतासमूहानाम् एषा व्यवस्था महत्त्वपूर्णं माध्यमं सिद्धा अभवत्। योगीसर्वकारस्य सहयोगेन महिलाः स्थानीयावश्यकतानाम् उपलब्ध-संसाधनानां च अनुरूपं व्यवसायान् विकसितुं समर्थाः भवन्ति। मसालानिर्माणं, पापडनिर्माणं, अचारनिर्माणं, श्री-अन्नोत्पादनं, खाद्यप्रसंस्करणं, पशुपालनम् अन्यानि च कार्याणि ग्रामीणक्षेत्रेषु आयस्य अवसरान् वर्धयन्ति। कौशलविकासः विपण्यया सह सम्पर्कश्च एतेषां प्रयासानाम् अग्रे विकासे सहायकौ भवतः।
Hindusthan Samachar / Divya Ranjan