Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ३१ अक्टोबरमासः (हि.स.)। भारतीयक्रिकेटदलस्य पूर्वः सर्वतो-मुखक्रीडकः रवीन्द्रजडेजा न्यूजीलैण्ड-देशस्य विरुद्धम् अग्रिमाया: एकदिवसीय-शृङ्खलायाः कृते दले सम्मिलितः नास्ति, तथापि २०२७ तमस्य विश्वचषकस्य योजनासु तस्य भूमिका पूर्णतया समाप्ता नास्ति। भारतीयदलस्य पूर्वः बल्लेबाजी-प्रशिक्षकः अभिषेकनायरः मन्यते यत् जडेजा अद्यापि भारतीयदलस्य कृते एकप्रकारेण ‘बीमापत्रम्’ अस्ति। यदि विश्वचषकात् पूर्वम् अक्षरपटेलः आहतः भवति, तर्हि जडेजायाः दलं प्रति पुनरागमनं सम्भवम् अस्ति।
जियोहॉटस्टारस्य ‘आउट ऑर नॉट आउट’ इति कार्यक्रमे जियोस्टारस्य विशेषज्ञौ अभिषेकनायरः तथा चेतेश्वरपुजारा च भारतीयैकदिवसीयदले जडेजायाः भविष्यं, कुलदीपयादवाय नियमितावसराणाम् अप्राप्तिः तथा बृहद्प्रतियोगितानां विजेतुं दले पञ्च विशेषज्ञकन्दूकक्षेपकाणाम् आवश्यकतायाः विषये चर्चां कृतवन्तौ।
जडेजायाः पुनरागमनस्य सम्भावनां विषये नायरः अवदत्, “सम्भवतः जडेजायाः दले पुनरागमनं न भवेत्, किन्तु यदि कश्चित् क्रीडकः आहतः भवति, तर्हि सर्वप्रथमं तस्यैव नाम मनसि आगमिष्यति। अक्षरपटेलात् परम् अधुना अन्यः कोऽपि विकल्पः नास्ति। सम्प्रति अक्षरः अस्याः भूमिकायाः कृते अग्रणी अस्ति तथा तस्मात् परं जडेजा भवतः बीमापत्रम् अस्ति। यदि विश्वचषकात् पूर्वम् अक्षरपटेलेन सह किमपि भवति, तर्हि रवीन्द्रजडेजा दले सम्मिलितः भविष्यति।”
अपरतः चेतेश्वरपुजारायाः मतम् अस्ति यत् न्यूजीलैण्डदेशस्य विरुद्धायाः एक-दिवसीयशृङ्खलायाः कृते जडेजायाः चयनं न करणम् अस्मिन् प्रारूपे तस्य भविष्यस्य विषये सङ्केतं भवितुम् अर्हति। तेन उक्तं यत् अक्षरपटेलाय एकदिवसीय-क्रिकेटक्रीडायां प्रमुखसर्वतोमुखक्रीडकस्य रूपेण अधिकाः अवसराः दीयन्ते। सम्भवतः दलप्रबन्धनेन जडेजायै कस्मिन् अपि प्रकारेण कस्मात् कारणात् वा कस्मात् प्रारूपात् वा निवृत्तिं न, अपितु टेस्ट् क्रिकेटक्रीडायां ध्यानं केन्द्रितुं कथितम् अस्ति तथा च श्वेतकन्दुकप्रारूपस्य योजनासु तस्य समावेशः न क्रियते। जडेजा पूर्वमेव टी-२० अन्ताराष्ट्रियक्रिकेटत: संन्यासं स्वीकृतवान् अस्ति। अतः एकदिवसीयदले तस्य पुनरागमनं कठिनं भवितुम् अर्हति।
कुलदीपः बल्लेबाजीक्षमतायाः कारणेन नियमितावसरान् न प्राप्नोति
एकदिवसीयदले कुलदीपयादवाय नियमितस्थानं न प्राप्तेः विषये पुजारायाः कथनम् आसीत् यत् अस्मिन् प्रारूपे विशेषतः विदेशेषु क्रीडनसमये दलस्य बल्लेबाजीपङ्क्तौ पर्याप्ता गभीरता आवश्यकी भवति। दलस्य संयोजने सप्तमे स्थाने सर्वतोमुखक्रीडकः तथा अष्टमे स्थाने किञ्चित् बल्लेबाजीं कर्तुं समर्थः गोलन्दाजः आवश्यकः भवति। कुलदीपः उत्कृष्टः कन्दूकक्षेपक: अस्ति, किन्तु तस्य बल्लेबाजी तादृशी नास्ति। अतः भारतीयदलं अष्टमे स्थाने बल्लेबाजीं कर्तुं समर्थं क्रीडकं प्राथमिकतां ददाति।
एकदिवसीयक्रिकेटक्रीडायां कन्दूक-क्षेपका: बृहद्प्रतियोगिताः विजापयन्ति : नायरः
नायरः अवदत् यत् टी-२० क्रिकेट-क्रीडायाम् आक्रामकक्रीडायाः कारणेन बल्लेबाजीपङ्क्तौ गभीरता आवश्यकी भवति, किन्तु एकदिवसीय-क्रिकेट-क्रीडायां दलस्य परिस्थित्यानुसारं स्वयम् अनुकूलयितुं पर्याप्तः समयः भवति। तस्य मते, यदि दलं विकेट् प्राप्तुं न शक्नोति, तर्हि दीर्घा बल्लेबाजीपङ्क्तिः अपि प्रतियोगितायाः विजयं प्राप्तुं कदाचित् साहाय्यं न करिष्यति। सप्तमे अथवा अष्टमे स्थाने स्थितस्य बल्लेबाजस्य सामर्थ्येन अत्यल्पानि दलानि विजेतृपदं प्राप्नुवन्ति, किन्तु पञ्चमः कन्दूकक्षेपक: बहुवारं दलं विजेतारं कर्तुं शक्नोति।
तेन पूर्वस्य एकदिवसीयविश्वचषकस्य अन्तिमस्पर्धायाः उदाहरणं दत्त्वा उक्तं यत् ऑस्ट्रेलियादलस्य नियमितान्तरालेषु विकेट् प्राप्तुं क्षमता निर्णायिका सिद्धा अभवत्। ऑस्ट्रेलियापक्षस्य कन्दूकक्षेपकै: भारतं न्यूनधावनाङ्केषु सीमितं कृतम्, ततः दलं विजेतृपदं प्राप्तवान्। नायरस्य मते, एकदिवसीयक्रिकेटे बृहद्प्रतियोगिताः कन्दूकक्षेपका: एव विजापयन्ति।
Hindusthan Samachar / Divya Ranjan