सरदारपटेलस्य विरासतायाः एकतानगरस्य विकासगाथायाश्च वर्णनं करिष्यति स्वदेशसिंहस्य ‘यूनिटी’ इति पुस्तकम्।
नवदिल्ली, 31 अक्टूबरमासः (हि.स.)। गुजरातस्य एकतानगरे विश्वस्य सर्वोच्चा प्रतिमा ‘स्टैच्यू ऑफ यूनिटी’ केवलं स्मारकं नास्ति, अपितु राष्ट्रियैकतायाः, आधुनिकाभियान्त्रिक्याः विकासदृष्टेश्च प्रतीकम् अस्ति। अस्याः प्रतिमायाः आधारशिलास्थापनात् आरभ्य विश
डॉ. स्वदेश सिंह की पुस्तक ‘यूनिटी’


डॉ स्वदेश सिंह, भाजपा के राष्ट्रीय सचिव


नवदिल्ली, 31 अक्टूबरमासः (हि.स.)।

गुजरातस्य एकतानगरे विश्वस्य सर्वोच्चा प्रतिमा ‘स्टैच्यू ऑफ यूनिटी’ केवलं स्मारकं नास्ति, अपितु राष्ट्रियैकतायाः, आधुनिकाभियान्त्रिक्याः विकासदृष्टेश्च प्रतीकम् अस्ति। अस्याः प्रतिमायाः आधारशिलास्थापनात् आरभ्य विशालप्रतिमायाः निर्माणपर्यन्तस्य ऐतिहासिकयात्रायाः तत्सम्बद्धानां परिवर्तनानां च समावेशेन भारतीयजनतापार्टी इत्यस्य राष्ट्रियसचिवस्य डॉ. स्वदेशसिंहस्य ‘यूनिटी’ इति पुस्तके सरदारवल्लभभाईपटेलस्य विरासतायाः एकतानगरस्य विकासपर्यन्तस्य कथा प्रस्तुतास्ति।

पुस्तके भारतस्य राजनीतिकैकीकरणे सरदारपटेलस्य निर्णायकभूमिका राष्ट्रियैकतां प्रति तस्य विचाराश्च केन्द्रे स्थापिताः सन्ति। तेन सह प्रधानमन्त्री नरेन्द्रमोदिनः परिकल्पनायाः अन्तर्गतं ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्य निर्माणस्य सम्पूर्णप्रक्रियायाः अपि वर्णनं कृतम् अस्ति। अस्मिन् प्रतिमानिर्माणसम्बद्धाः वास्तुकला, अभियान्त्रिकी, नियोजनम्, पर्यावरणसम्बद्धाः पक्षाः, प्राविधिकाः चुनौतीश्च समाविष्टाः सन्ति।

पुस्तकस्य लेखकः डॉ. स्वदेशसिंहः अवदत् यत् अस्मिन् पुस्तके प्रतिमानिर्माणस्य यात्रायाः कथायाः वर्णनमात्रं न कृतम्, अपितु गुजरातस्य केवडियानामकस्य लघुकस्बातः एकतानगररूपेण विकसितस्य तस्य स्थानस्य यात्रायाः अपि विस्तृतं वर्णनं कृतम् अस्ति। अस्मिन् सङ्ग्रहालयानां, उद्यानानां, नदीतटविकासस्य, प्राकृतिकाकर्षणानां, पर्यटनसुविधानां मनोरञ्जनकेन्द्राणां च विकासस्य उल्लेखः अस्ति। सहैव साहसिकपर्यटनस्य, तीर्थाटनस्य, स्वास्थ्यपर्यटनस्य नूतनानां रोजगारावसराणां च विस्तारः अपि रेखाङ्कितः अस्ति।

तेन उक्तं यत् ‘यूनिटी’ इति पुस्तकस्य माध्यमेन एतत् प्रतिपादितम् अस्ति यत् कथं सरदारपटेलस्य ऐतिहासिकविरासतां आधुनिकभारतस्य विकाससम्बद्धाभिलाषाभिः सह संयोजयितुं प्रयासः कृतः। ‘स्टैच्यू ऑफ यूनिटी’ इत्येतत् स्मारकेण सह पर्यटनस्य, आधारभूतसंरचनायाः, रोजगारस्य क्षेत्रीयविकासस्य च केन्द्ररूपेण प्रस्तुतम् अस्ति। शीघ्रमेव इदं पुस्तकं विपण्याम् उपलब्धं भविष्यति।

उल्लेखनीयं यत् डॉ. स्वदेशसिंहः देहलीविश्वविद्यालये राजनीतिविज्ञानस्य सहायकप्राध्यापकः अपि अस्ति। तेन जवाहरलालनेहरूविश्वविद्यालयात् स्नातकोत्तरपदवीं, एम.फिल् तथा विद्यावारिधिपदवीं प्राप्ता। एतदतिरिक्तं तेन भारतीयजनसञ्चारसंस्थानात्, नवदेहलीतः पत्रकारितायां स्नातकोत्तरडिप्लोमा अपि कृतम्। विंशतिवर्षेभ्यः अधिकस्य अनुभवयुक्तेन डॉ. सिंह महोदयेन भारतस्य जी-२० अध्यक्षतायाः समये सिविल-२० इत्यस्मिन् शेर्पारूपेण दायित्वम् अपि निर्व्यूढम्। भारतीय राजनीतिः, सामाजिकन्यायः, सञ्चारमाध्यमाध्ययनं कौशलविकासश्च तस्य प्रमुखाणि अनुसन्धानक्षेत्राणि सन्ति।

-----------

Hindusthan Samachar / Dheeraj Maithani