Enter your Email Address to subscribe to our newsletters


रामबागस्थानकात् वाराणसीं प्रति मेमूरेलयानस्य शुभारम्भः, उपमुख्य-मन्त्रिणा हरितध्वजं प्रदर्श्य प्रस्थानं कारितम्
प्रयागराजस्य रेलसुविधानां विस्ताराय रेलमन्त्रिणे १३ प्रस्तावाः प्रेषिताः
प्रयागराजः, ३१ अक्टोबरमासः (हि.स.)। सरदारवल्लभभाईपटेलेन राष्ट्रं एकतासूत्रे आबद्धम् आसीत्। अद्य प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे आधुनिकरेल-सम्पर्कव्यवस्था देशस्य सर्वान् कोनान् परस्परं संयोज्य ‘एकभारतं, श्रेष्ठभारतं’ इति सङ्कल्पं सुदृढं करोति। प्रयागराजस्य रामबागस्थानकात् वाराणसीं प्रति आरब्धया मेमूरेलयानसेवया छात्राणां, अधिवक्तॄणां, व्यापारिणां सामान्य-नागरिकाणां च महती सुविधा भविष्यति। अनेन यात्रिणां समयस्य धनस्य च अवशेष: भविष्यति। एतद् उक्तवान् उपमुख्यमन्त्री केशवप्रसादमौर्यः शनिवासरे रामबाग-रेलस्थानके आयोजिते कार्यक्रमे।
भारतीयरेलस्य आधुनिकीकरणस्य उत्तम-रेलसम्पर्कस्य च उद्देश्येन प्रयागराजस्य रामबागस्थानकात् वाराणसीं प्रति मेमूरेलयानस्य शुभारम्भः केन्द्रीय-रेलमन्त्री अश्विनीवैष्णवेन मुख्यमन्त्रिणा योगीआदित्यनाथेन च दृश्य-श्रव्यसम्पर्कमाध्यमेन कृतः। अस्मिन्नवसरे उपमुख्यमन्त्री केशवप्रसादमौर्यः तथा मन्त्रिमण्डलमन्त्री नन्दगोपालगुप्ता ‘नन्दी’ च रामबागरेलस्थानके रेलयानाय हरितध्वजं प्रदर्श्य प्रस्थानं कारितवन्तौ।
उपमुख्यमन्त्री सरदारवल्लभभाईपटेलस्य जयन्त्यवसरे तस्मै श्रद्धाञ्जलिं समर्प्य अवदत् यत् सरदारपटेलेन एकभारतस्य आधारः सुदृढः कृतः। प्रधानमन्त्री नरेन्द्रमोदी आधुनिकसम्पर्कव्यवस्थया तस्य एकतायाः सङ्कल्पाय नवीनं बलं प्रददाति। प्रयागराजः केवलं तिसृणां पवित्रनदीनां सङ्गमः न, अपितु श्रद्धायाः, शिक्षायाः, न्यायस्य संस्कृतेश्च महत् सङ्गमस्थलम् अपि अस्ति। केन्द्रराज्ययोः संयुक्तनेतृत्ववती सर्वकारः अत्रत्यां ऐतिहासिकधरोहरं आधुनिकविकासेन सह संयोजयति।
सः अवदत् यत् काशीतः सङ्गमं प्रति, सङ्गमात् च राजधानीं प्रति रेलसम्पर्कः नूतनां गतिं प्राप्नोति। बनारस-प्रयागराजरामबागयोः मध्ये मेमूरेल-यानसेवा क्षेत्रस्य जनानां कृते महत्त्वपूर्णा सौगात् अस्ति। राजातालाब, माधोसिंह:, ज्ञानपुररोड, हण्डियाखास तथा झूँसी इत्यादीनि स्थानकानि संयोजयन्त्या अस्याः रेलयानसेवायाः लाभः नित्ययात्रिभ्यः भविष्यति। प्रातः बनारसतः प्रयागराजम् आगत्य सायंकाले पुनः स्वगृहं प्रत्यागमनम् अधुना अधिकं सुविधाजनकं भविष्यति।
उपमुख्यमन्त्री अवदत् यत् अमृतभारत-स्थानकयोजनायाः अन्तर्गतं उत्तरप्रदेशस्य १५७ रेलस्थानकानि प्रायः ७,७४६ कोटिरूप्यकाणां व्ययेन आधुनिकानि क्रियन्ते। अधुना रेलस्थानकानि केवलं यात्रायाः विश्रामस्थानानि न, अपितु आधुनिक-सुविधानां, व्यापारस्य, रोजगारस्य च नवीनानि केन्द्राणि भवन्ति। प्रदेशे १.२० लक्षकोटिरूप्यकाणाम् अधिकमूल्यानां रेलपरियोजनासु कार्यं प्रचलति। नवीनरेलमार्गाः, आधुनिक-स्थानकानि, नवीनरेलयानसेवाश्च प्रयाग-राजसहितस्य सम्पूर्णप्रदेशस्य रेलसम्पर्कं सुदृढं कुर्वन्ति।
प्रयागराजस्य रेलसुविधानां कृते रेलमन्त्रिणे १३ प्रस्तावाः प्रेषिताः
उपमुख्यमन्त्री केशवप्रसादमौर्यः प्रयागराजे तदनन्तरं समीपवर्तिक्षेत्रेषु च रेलयातायातं अधिकं सुगमं कर्तुं केन्द्रीयरेलमन्त्रिणे अश्विनीवैष्णवे पत्रं लिखित्वा १३ महत्त्वपूर्णान् प्रस्तावान् अनुरोधांश्च प्रेषितवान्। एतेषु प्रयागराज-मुम्बई-दुरन्तो-एक्सप्रेसरेलयानस्य प्रतिदिनं सञ्चालनम्, प्रयागराज-अहमदाबाद-सुपरफास्ट-एक्सप्रेसरेलयानस्य सप्ताहे त्रिवारं सञ्चालनम्, प्रयागराजतः पुणे-मिरजमार्गेण गोवां प्रति प्रत्यक्षरेलयानस्य प्रारम्भः तथा प्रयागराज-दादरी-विशेषरेलयानस्य नियमितसञ्चालनम् इत्यादयः आग्रहाः सम्मिलिताः सन्ति।
तेन प्रयागराजजङ्क्शने सियालदह-राजधानी-एक्सप्रेस तथा अगरतला-राजधानी-एक्सप्रेस इत्येतयोः सहितं सम्प्रति विरामसुविधारहितानां २४ रेलयानानां विरामः सुनिश्चितः करणीयः इति अपि अनुरोधितम्। पटना-वास्कोडिगामा-एक्सप्रेसरेलयानस्य सप्ताहे त्रिवारं सञ्चालनं तस्मिन् च आरक्षितस्थानानां सङ्ख्यां वर्धयितुम्, वाराणसी-नवदिल्ली-वन्देभारत-एक्सप्रेसरेलयानस्य अलीगढे विरामं दातुम्, विभूतिएक्सप्रेसरेलयानस्य सञ्चालनं रामबागस्थानकस्य स्थाने सूबेदारगञ्जस्थानकात् कर्तुं तथा तस्य रेलयानस्य डिब्बानां सङ्ख्यां २४ कर्तुं च प्रस्तावः दत्तः।
एतदतिरिक्तं दयालपुरस्थानके सरयू-एक्सप्रेसरेलयानस्य विरामं दातुं तथा वाराणसीतः राँचीं देवघरं च गच्छतोः उभयोः वन्देभारतरेलयानयोः प्रयागराजरामबाग-स्थानकपर्यन्तं विस्तारं कर्तुं च आग्रहः कृतः।
दीर्घकालीनपरिवहनावश्यकतान् दृष्ट्वा नैनी-प्रयागराजयोः मध्ये स्थितं रेलसेतुम् द्विस्तरीयं कृत्वा तेन सह मार्गस्य निर्माणं कर्तुम्, प्रयागराजस्य सर्वाणि रेलस्थानकानि उत्तरमध्यरेलवे इत्यस्य अन्तर्गतं आनेतुं तथा झूँसी, करछना, बमरौली इत्येतेषां स्थानकानां नाम्नः पूर्वं ‘प्रयागराज’ इति पदं योजयितुं च प्रस्तावः दत्तः। तथैव सूबेदारगञ्जरेलस्थानकस्य नाम परिवर्त्य ‘प्रयागराजकैन्ट’ इति कर्तुम् अनुरोधः कृतः।
उपमुख्यमन्त्री अवदत् यत् प्रयागराजः धार्मिकदृष्ट्या, सांस्कृतिकदृष्ट्या, शैक्षिक-दृष्ट्या आर्थिकदृष्ट्या च महत्त्वपूर्णं केन्द्रम् अस्ति। रेलसुविधानां विस्तारात् यात्रिभ्यः उत्तमायातायातसुविधा प्राप्स्यते तथा क्षेत्रस्य विकासाय नूतना गतिः भविष्यति। सरदारपटेलस्य एकतायाः सङ्कल्पः, प्रधानमन्त्री नरेन्द्रमोदिनः विकसित-भारतस्य परिकल्पना तथा संयुक्त-सर्वकारस्य विकासकार्याणि आधुनिक-उत्तरप्रदेशस्य प्रगतेः आधाराः सन्ति।
कार्यक्रमे नगरोत्तरीयविधानसभाक्षेत्रस्य विधायकः हर्षवर्धनवाजपेयी, मन्त्रिमण्डल-मन्त्री नन्दगोपालगुप्ता ‘नन्दी’, जनपदपञ्चायताध्यक्षः डॉ. वी.के.सिंहः, अन्ये जनप्रतिनिधयः, पूर्वोत्तररेलवे इत्यस्य अपरमण्डलरेलप्रबन्धकः अजयसिंहः तथा रेलविभागस्य सम्बन्धिताः अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan