राष्ट्रस्य एकता-अखण्डता-सुरक्षायाः च संरक्षणं प्रत्येकं नागरिकस्य कर्तव्यम् : नरेशपालसिंहः
उत्तरमध्यरेलवे-मुख्यालये सरदार-वल्लभ-भाईपटेलस्य १५१ तम्याः जयन्त्याः अवसरे राष्ट्रियैकतादिवसः आचरितः, महाप्रबन्धकेन शपथः कारितः प्रयागराजः, ३१ अक्टोबरमासः (हि.स.)। राष्ट्रस्य एकता-अखण्डता-सुरक्षायाः च संरक्षणं प्रत्येकं नागरिकस्य कर्तव्यम् अस्ति।
उत्तर मध्य रेलवे द्वारा जारी फोटो


उत्तर मध्य रेलवे द्वारा जारी फोटो


उत्तर मध्य रेलवे द्वारा जारी फोटो


उत्तरमध्यरेलवे-मुख्यालये सरदार-वल्लभ-भाईपटेलस्य १५१ तम्याः जयन्त्याः अवसरे राष्ट्रियैकतादिवसः आचरितः, महाप्रबन्धकेन शपथः कारितः

प्रयागराजः, ३१ अक्टोबरमासः (हि.स.)। राष्ट्रस्य एकता-अखण्डता-सुरक्षायाः च संरक्षणं प्रत्येकं नागरिकस्य कर्तव्यम् अस्ति। देशवासिभ्यः परस्परैकतायाः भ्रातृत्वस्य च सन्देशं प्रसारयन्तः आन्तरिकसुरक्षायाः सुनिश्चितीकरणे स्वयोगदानं दातव्यम्। सरदारवल्लभ-भाईपटेलस्य दूरदर्शितया तस्य प्रयासैश्च देशस्य एकतायाः सुदृढः आधारः स्थापितः।

एतं सङ्कल्पं उत्तरमध्यरेलवे-महाप्रबन्धकः नरेशपालसिंहः शनिवासरे रेलवेमुख्यालये आयोजिते राष्ट्रियैकता-दिवससमारोहे कारितवान्।

सरदारवल्लभभाईपटेलस्य १५१ तम्याः जयन्त्यवसरे रेलवेमण्डलस्य निर्देशानुसारं प्रयागराजस्थिते उत्तरमध्यरेलवे-मुख्यालये राष्ट्रियैकतादिवसः उत्साहेन आचरितः।

अस्मिन् अवसरे शनिवासरे सामूहिकः शपथग्रहणसमारोहः आयोजितः। महा-प्रबन्धकः नरेशपालसिंहः अधिकारिभ्यः रेलकर्मचारिभ्यश्च राष्ट्रस्य एकता-अखण्डता-सुरक्षाणां संरक्षणस्य शपथं कारितवान्। शपथग्रहणसमये सर्वैः अधिकारिभिः कर्मचारिभिश्च देशस्य एकताभावनां सुदृढां कर्तुं, देशवासिनां मध्ये एकतायाः सन्देशं प्रसारयितुं तथा आन्तरिकसुरक्षायाः सुनिश्चितीकरणे योगदानं दातुं सङ्कल्पः कृतः।

एकताधावने रेलकर्मचारिणः भागं गृहीतवन्तः

शपथग्रहणसमारोहानन्तरं महाप्रबन्धकेन नरेशपालसिंहेन एकताधावनस्य शुभारम्भः हरितध्वजं प्रदर्श्य कृतः। अस्मिन् धावने रेलसुरक्षाबलस्य सैनिकाः, उत्तर-मध्यरेल-क्रीडासङ्घस्य सदस्याः तथा मुख्यालयस्य विभिन्नविभागानां अधि-कारिणः कर्म-चारिणश्च उत्साहेन भागं गृहीतवन्तः। धावनस्य माध्यमेन राष्ट्रियैकतायाः, अखण्डतायाः परस्परसौहार्दस्य च सन्देशः प्रसारितः।

कार्यक्रमे उत्तरमध्यरेलवे-मुख्य-विभागाध्यक्षाः, वरिष्ठाधिकारिणः तथा मुख्यालयस्य कर्मचारिणः उपस्थिताः आसन्। सर्वैः सरदारवल्लभभाईपटेलस्य आदर्शान् अनुसृत्य राष्ट्रस्य एकतां सुदृढां कर्तुं सङ्कल्पः कृतः।

Hindusthan Samachar / Divya Ranjan