Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्री रेलमन्त्री च वन्देभारत-शयनयानरेलयानस्य सुविधाः अपश्यताम्, विद्यालयच्छात्रैः सह संवादं कृतवन्तौ, मुख्यमन्त्री योगी चॉकलेहं वितरितवान्
वाराणसी, ३१ अक्टोबरमास: (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः तथा केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः शनिवासरे सायंकाले वाराणसी-नवदिल्ली-वन्देभारत-शयनयानरेलयानस्य, बनारस-प्रयागराज-रामबाग-रेलयानस्य तथा वाराणसीसिटी-राजातालाब-रेलयानस्य च हरितध्वजं प्रदर्श्य शुभारम्भम् अकुरुताम्। उभौ नेतारौ रेलयानस्य अन्तः प्रविश्य तत्रत्याः सुविधाः अपश्यताम्। तौ विद्यालयच्छात्रैः रेलयानचालकैः च सह संवादम् अकुरुताम्। एकः छात्रः रेलयानविषये निर्मितां स्वकीयां सुन्दरां चित्रकलाम् अपि उभाभ्यां नेतृभ्यां समर्पितवान्। मुख्यमन्त्री बालकेभ्यः चॉकलेहमपि वितरितवान्।
मुख्यमन्त्री योगी आदित्यनाथः दीपावल्याः छठपर्वणः च पूर्वं काशीवासिभ्यः त्रयाणां रेलयानानां सुविधा प्राप्तेः अभिनन्दनम् अकरोत्। पूर्वकालस्य घटनाः स्मारयन् मुख्यमन्त्री अवदत् यत् पूर्वं ‘आश्वासनस्य उपरि आश्वासनम्’ प्राप्यते स्म, अधुना सामान्यजनाः ‘उपहारस्य उपरि उपहारम्’ प्राप्नुवन्ति।
प्रधानमन्त्रीमोदिनः दूरदर्शिनः नेतृत्वे नूतनभारतस्य दर्शनम्
मुख्यमन्त्री योगी अवदत् यत् प्रधानमन्त्रीनरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वे नूतनभारतस्य दर्शनं भवति। अद्य अखण्डभारतस्य शिल्पिनः लौहपुरुषस्य वल्लभभाईपटेलस्य १५१-तमा जयन्ती अस्ति। भारतस्य ५६३ देशीयराज्यानि भारतीयगणराज्यस्य भागरूपेण संयोज्य पटेलः अखण्डभारतस्य निर्माणे महत्त्वपूर्णां भूमिकाम् अवहत्। तथैव भारतीयरेलः उत्तरतः दक्षिणं, पूर्वतः पश्चिमं च सम्पूर्णं भारतं ऐक्यसूत्रेण संयोज्य स्वातन्त्र्य-सङ्ग्रामसेनानिनां राष्ट्रनायकानां च स्वप्नानि साकारयति।
अश्विनीवैष्णवेन भारतीयरेलाय आधुनिकं स्वरूपं प्रदत्तम्
मुख्यमन्त्री योगी अवदत् यत् अश्विनीवैष्णवेन निर्धनानां, वृद्धानां सामान्यभारतीयानां च यात्रासाधनभूतायै रेलसेवायै आधुनिकं स्वरूपं प्रदत्तम्। वयं परिवर्तमानं भारतं तथा परिवर्तमानां रेलसेवां पश्यामः। कदाचित् उत्तरप्रदेशे अर्धभागे बृहद्पथमानकस्य, अर्धभागे च लघुपथमानकस्य रेलमार्गाः आसन्। वयं संसदः विषये उत्थापयामः स्म, किन्तु तिथेः उपरि तिथिः इव आश्वासनस्य उपरि आश्वासनं प्राप्यते स्म। अद्य उत्तरप्रदेशस्य सर्वे रेलमार्गाः बृहद्पथमानकयुक्ताः सन्ति तथा च विद्युतीकरणेन सम्बद्धाः सन्ति।
अधुना अष्टभिः नवभिः घण्टाभिः काशीतः दिल्लीं प्राप्स्यन्ति
मुख्यमन्त्री अवदत् यत् पूर्वं रेलयानेन काशीतः दिल्लीं गन्तुं १३-१४ घण्टाः आवश्यकाः भवन्ति स्म। किन्तु अत्याधुनिकसुविधायुक्तेन अनेन वन्देभारत-शयनयानरेलयानेन केवलम् अष्टभिः नवभिः घण्टाभिः दिल्लीं प्राप्तुं शक्यते। अनेन श्रमस्य समयस्य च बचतिः भविष्यति। मुख्यमन्त्री उक्तवान् यत् २०१९ तमस्य वर्षस्य फरवरीमासस्य १५ दिनाङ्के प्रधानमन्त्रीमोदी दिल्ली-वाराणसी इत्यनयोः मध्ये देशस्य प्रथमस्य वन्देभारतरेलयानस्य शुभारम्भम् अकरोत्। तदा अस्माभिः आसन्दयुक्ते रेलयानेन यात्रा करणीया आसीत्, किन्तु अद्य शयनयानरेलयानस्य शुभारम्भः भवति।
आध्यात्मिकराजधान्याः राष्ट्रियराजधानीं प्रति यात्रा सुखदा भविष्यति
मुख्यमन्त्री अवदत् यत् भारतस्य आध्यात्मिकराजधान्याः काश्याः राष्ट्रियराजधानीं दिल्लीं प्रति वन्देभारत-शयनयानस्य यात्रा सुखदा मङ्गलमयी च भविष्यति। काश्यां सार्वजनिकपरिवहने रेलसेवा महत्त्वपूर्णां भूमिकां निर्वहति। काश्याः राजातालाबपर्यन्तं मेमूरेलयानस्य सञ्चालनं स्थानीयनागरिकेभ्यः उत्तमां सुविधां प्रदास्यति। कृषकाः, युवानः, अधिवक्तारः, व्यापारिणः च सहिताः सर्वे नागरिकाः केवलैः ९५ रूप्यकैः मासपर्यन्तं यात्रां कर्तुं शक्नुवन्ति।
काशी-प्रयागराजौ भारतस्य आध्यात्मिक-सांस्कृतिकनगर्यौ स्तः। अनयोः नगरयोः मध्ये यात्रायै मेमूसेवायाः शुभारम्भः क्रियते। अस्यां सेवायाम् एकमासस्य यात्रा केवलैः २२० रूप्यकैः भविष्यति। यावता राशिना कश्चित् जनः एकस्मिन् दिने चायपानादिषु स्वस्मिन् च व्ययं करोति, तावता राशिना अत्र मासपर्यन्तं यात्रासुविधा प्राप्यते। एषः द्वयोः आध्यात्मिकनगरयोः संयोजनाय, लक्षशः श्रद्धालूनां वादकारिणां सहस्रशः अधिवक्तॄणां छात्राणां च कृते अभिनवः प्रयासः अस्ति। भारतीयरेलरानं नूतनमूलसंरचनया सह तीव्रगत्या अग्रे वर्धिता अस्ति।
नूतनमूलसंरचनया सह भारतीयरेल-यानस्य प्रगतिः
मुख्यमन्त्री अवदत् यत् पूर्वम् अनियन्त्रितसमपारस्थानानि महती समस्या आसीत्। रेलयानैः मालवाहकरेलयानैः च सह वाहनानां प्रायः सङ्घर्षः भवति स्म, येन शतशः जनानां प्राणहानिः भवति स्म। पशवः अपि दुर्घटनायां पतन्ति स्म। किन्तु अधुना एतादृशेषु सर्वेषु समपारस्थानेषु अधोमार्गाः अथवा रेलोपरिसेतवः निर्मिताः सन्ति। एतत् जनतां प्रति संवेदनशीलतायाः उदाहरणम् अस्ति। अधुना यात्रासमये अपि अवशेष: भवति।
पूर्वीयसमर्पितमालवाहकपरिसरेण उत्तर-प्रदेशे सहस्रकिलोमीटर्-दूरता आच्छाद्यते
मुख्यमन्त्री अवदत् यत् पूर्वीयसमर्पित-मालवाहकपरिसरेण सहस्रकिलोमीटर्-परिमिता दूरता उत्तरप्रदेशे आच्छाद्यते। अनेन मालवाहकरेलयानानां कृते पृथक् रेलमार्गः उपलब्धः कृतः। पूर्वं कोलकातातः काशीं मालवाहकरेलयानेन प्राप्तुं बहवः दिवसाः व्यतीताः भवन्ति स्म। तदा वस्तूनि अपक्ववस्तूनि च नष्टानि भवन्ति स्म। अधुना पृथक् रेलमार्गस्य कारणेन वस्तूनि सुरक्षिततया समये च प्राप्यन्ते। रेलयानानां मालवाहकरेलयानानां च गतिः वर्धिता, दूरता च न्यूनीभूता।
दिल्ली-वाराणसीयोः मध्ये बुलेट-रेलयानस्य सञ्चालनाय कार्ययोजना सज्जा
मुख्यमन्त्री अवदत् यत् दिल्ली-वाराणसीयोः मध्ये बुलेटरेलयानस्य सञ्चालनाय कार्ययोजना सज्जीकृता अस्ति। अनेन केवलैः सार्धत्रिभिः घण्टाभिः दिल्ली-वाराणसीयोः मध्ये यात्रा कर्तुं शक्यते। एषा यात्रा विमानयात्रायाः अपेक्षया सरला, सुगमा, सस्ती च भविष्यति। काश्यां अधुना अत्याधुनिकं रेलस्थानकम् अस्ति। रेलस्थानके काश्याः स्वरूपं स्पष्टतया दृश्यते। उत्तरप्रदेशे १५७ रेलस्थानकानि आधुनिकीकृतानि सन्ति। तानि दृष्ट्वा विमानस्थानकस्य विशिष्टकक्षे स्थिताः इव अनुभूयते।
मुख्यमन्त्री आरोपितवान् यत् पूर्वं स्वच्छतायाः अवहेलनां कुर्वद्भिः जनैः रेलस्थानकानां मलिनं स्वरूपं निर्मितम् आसीत्। विकासं न रोचयन्तः जनाः विकासाय प्राथमिकतां न दत्तवन्तः। अधुना स्वच्छभारत-अभियानस्य प्रभावः सर्वत्र दृश्यते। पूर्वं रेलमार्गेषु मलिनता दुर्गन्धश्च भवतः स्म। अद्य रेलस्थानकेषु रेलयानकोष्ठेषु च आधुनिकानि शौचालयानि सन्ति तथा च रेलमार्गाः स्वच्छाः सन्ति। सर्वत्र स्वच्छतायाः ध्यानं दीयते। मुख्यमन्त्री स्पष्टं कृतवान् यत् अस्माकं सर्वकारस्य समीपे एतादृशानि कार्याणि कर्तुं स्वच्छा निष्ठा, स्पष्टा नीतिः, दृढसङ्कल्पः तथा च अग्रे वर्धितुं दूरदृष्टिः अस्ति।
मुख्यमन्त्रिणा काश्याः विकासस्य विवरणं प्रस्तुतम्
मुख्यमन्त्री काश्याः विकासकार्यानाम् अपि उल्लेखं कृतवान्। सः अवदत् यत् अत्र आधुनिकसुविधाः, रेलयानानां नवीन-सम्पर्कव्यवस्था, सेवाः, मार्गाः, विमानस्थानकस्य विस्तारः च क्रियमाणाः सन्ति। काशीविश्वनाथधाम्नः तीर्थस्थानानां च विकासाय प्रयासाः क्रियन्ते। पूर्वं काश्याः परिचयः घाटैः भवति स्म, अधुना ते अपि अत्याधुनिकस्वरूपेण दृश्यन्ते।
मुख्यमन्त्री अवदत् यत् अक्टोबरमासस्य २५ दिनाङ्के प्रधानमन्त्रीमोदी काशीं प्राप्तवान् आसीत्। काश्याः समीपस्थक्षेत्राणां च २५ लक्षाधिकैः जनैः नमोघाटे आयोजिते विमानप्रदर्शने नूतनभारतस्य चित्ररूपेण भारतीय-सशस्त्रसेनानां आत्मनिर्भरत्वस्य लक्ष्यं दृष्टम्। मुख्यमन्त्री उक्तवान् यत् कार्यं कर्तुं इच्छाशक्तिः भवेत् चेत् प्रत्येकं कार्यं सरलम् भवितुम् अर्हति। प्रधानमन्त्रिणा दृढसङ्कल्पेन सह यत् अग्रे वर्धितुं निर्णयः कृतः, तस्य सकारात्मकाः परिणामाः सर्वेषु क्षेत्रेषु दृश्यन्ते।
अस्मिन् अवसरे प्रयागराजात् उप-मुख्यमन्त्री केशवप्रसादमौर्यः आभासीय-माध्यमेन कार्यक्रमे सम्मिलितः अभवत्।
Hindusthan Samachar / Divya Ranjan