Enter your Email Address to subscribe to our newsletters

- मुख्यमन्त्रिणा योगिना आदित्यनाथेन सह बनारसरेलस्थानकात् रेलयानानि हरितध्वजं प्रदर्श्य प्रस्थापयिष्यतः।
वाराणसी, ३१ अक्टोबरमासः (हि.स.)। वाराणसी-नवदिल्ली वन्देभारतशयनयानरेलयानसहितानां तिसृणां महत्त्वपूर्णानां रेलसेवानाम् उद्घाटनाय केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः शनिवासरे पूर्वाह्णे वाराणसीं प्राप्तवान्। बाबतपुरस्थिते लालबहादुरशास्त्रि-अन्ताराष्ट्रियविमानपत्तने भारतीयजनतापार्टी (भाजपा) इत्यस्य जनप्रतिनिधिभिः कार्यकर्तृभिश्च तस्य स्वागतं कृतम्। रेलमन्त्री विमानपत्तने दलस्य कार्यकर्तृभिः सह वार्तालापं कृतवान्, ततः नगरं प्रति प्रस्थितवान्।
विमानपत्तने रेलमन्त्रिणः स्वागतं कुर्वत्सु पिण्डरा-विधानसभाक्षेत्रस्य विधायकः अवधेशसिंहः, कैण्ट-विधानसभाक्षेत्रस्य विधायकः सौरभश्रीवास्तवः, महापौरः अशोकतिवारी, भाजपानेता पवनसिंहः तथा विमानपत्तनस्य प्रोटोकॉलप्रभारी शैलेशपाण्डेयः सहिताः दलस्य अन्ये पदाधिकारिणः कार्यकर्तारश्च सम्मिलिताः आसन्।
शनिवासरे अपराह्णे वाराणस्याः समीपवर्तिनां जनपदानां च रेलयात्रिभ्यः एकस्मिन्नेव काले तिसृणां महत्त्वपूर्णानां रेलसुविधानां सौगातं प्रदातुं आयोजनम् अस्ति। बनारसरेलस्थानकात् वाराणसी-नवदिल्ली वन्देभारतशयनयानरेलयानस्य, वाराणसीसिटी-राजातालाबरेलमार्गखण्डे चतसृणां युग्मानां मेमूरेलयानानां तथा बनारस-प्रयागराजरामबागयोः मध्ये नवीनरेलसेवायाश्च शुभारम्भः क्रियते।
अस्मिन्नवसरे मुख्यमन्त्री योगी आदित्यनाथः केन्द्रीयरेलमन्त्री अश्विनीवैष्णवश्च बनारसरेलस्थानके आयोजिते समारोहकार्यक्रमे रेलयानेभ्यः हरितध्वजं प्रदर्श्य तानि प्रस्थापयिष्यतः। कार्यक्रमे प्रदेशस्य प्रमुखाः जनप्रतिनिधयः रेलविभागस्य वरिष्ठाधिकारिणश्च उपस्थिताः भविष्यन्ति।
अपरत्र प्रयागराजरामबागरेलस्थानके आयोजिते कार्यक्रमे उपमुख्यमन्त्री केशवप्रसादमौर्यः औद्योगिकविकासमन्त्री नन्दगोपालगुप्ता नन्दी च दृश्यश्रव्यसम्मेलनमाध्यमेन सहभागितां करिष्यतः।
एतासां रेलसेवानाम् आरम्भेण वाराणस्याः समीपवर्तिक्षेत्राणां च रेलसम्पर्कः सुदृढः भविष्यति इति अपेक्षा अस्ति। विशेषतः वाराणसी-नवदिल्ली वन्देभारतशयनयानरेलयानेन दीर्घदूरीयाः रात्रिकालीनयात्राः अधिकाः सुविधाजनकाः भविष्यन्ति। वाराणसीसिटी-राजातालाबयोः मध्ये मेमूरेलयानानां सञ्चालनात् दैनिकयात्रिणः लाभान्विताः भविष्यन्ति। बनारस-प्रयागराजरामबागयोः मध्ये नवीनरेलसेवायाः प्रारम्भेण उभयोः प्रमुखयोः धार्मिकयोः सांस्कृतिकयोः च नगरयोः मध्ये रेलयात्रायाः अन्यः विकल्पः उपलब्धः भविष्यति।
Hindusthan Samachar / Dheeraj Maithani