प्रभुश्रीरामस्य जीवनात् सङ्घर्षस्य मर्यादायाश्च प्रेरणा प्राप्यते : वित्तमन्त्री ओ.पी.चौधरी
रायगढः, ३१ अक्टोबरमासः (हि.स.)। रामललादर्शनयोजनायाः मुख्यमन्त्रितीर्थ-दर्शनयोजनायाश्च अन्तर्गतं तीर्थयात्रां कृतवतां जनपदस्य प्रायः सहस्रं वरिष्ठनागरिकाणां सम्मानः अद्य सन्तपूज्यश्रीप्रियदर्शीराम-सभागारे, पञ्जरीप्लाण्ट इत्यत्र आयोजिते विशेषसमारोहे
रामलला दर्शन करने वालों का सम्मान


रायगढः, ३१ अक्टोबरमासः (हि.स.)। रामललादर्शनयोजनायाः मुख्यमन्त्रितीर्थ-दर्शनयोजनायाश्च अन्तर्गतं तीर्थयात्रां कृतवतां जनपदस्य प्रायः सहस्रं वरिष्ठनागरिकाणां सम्मानः अद्य सन्तपूज्यश्रीप्रियदर्शीराम-सभागारे, पञ्जरीप्लाण्ट इत्यत्र आयोजिते विशेषसमारोहे कृतः। अस्मिन् अवसरे वित्तमन्त्री तथा रायगढविधायकः ओ.पी.चौधरी सर्वेभ्यः वरिष्ठनागरिकेभ्यः श्रीरामचरितमानसस्य पुस्तिकां, व्यासपीठं, शालवस्त्रं च प्रदाय सम्मानितवान्।

कार्यक्रमस्य शुभारम्भः प्रातः १० वादने सुन्दरकाण्डपाठेन सामूहिकहनुम-च्चालीसापाठेन च अभवत्। वित्तमन्त्रिणा भगवान् श्रीरामस्य छायाचित्रस्य पुरतः दीपं प्रज्वाल्य विधिवत् पूजनम् अर्चनं च कृतम् तथा रामायणस्य आरत्याम् अपि भागः गृहीतः। कार्यक्रमे लोकसभासदस्यः राधेश्यामराठिया, राज्यसभासदस्यः देवेन्द्रप्रतापसिंहः, नगरनिगमस्य महापौरः जीवर्धनचौहानः, जनपदपञ्चायतस्य अध्यक्षा श्रीमती शिखारवीन्द्रगबेलः, नगरनिगमस्य सभापतिः डिग्रीलालसाहूः, जनपद-पञ्चायतस्य उपाध्यक्षः दीपकसिदारः इत्यादयः जनप्रतिनिधयः, गणमान्य-नागरिकाः बहुसङ्ख्यकाः वरिष्ठ-नागरिकाश्च उपस्थिताः आसन्।

वित्तमन्त्री ओ.पी.चौधरी स्वसम्बोधने अवदत् यत् रायगढजनपदस्य विभिन्नक्षेत्रेभ्यः बहुसङ्ख्यकाः वरिष्ठ-नागरिकाः अस्मिन् कार्यक्रमे सम्मिलिताः अभवन्। एतत् सौभाग्यस्य विषयः अस्ति यत् राज्यसर्वकारेण वरिष्ठनागरिकेभ्यः तीर्थयात्रायाः अवसरः प्रदीयते। तेन उक्तं यत् माता कौशल्या छत्तीसगढस्य पुत्री आसीत् तथा भगवत: श्रीरामस्य छत्तीसगढेन सह गहनः सांस्कृतिकः भावनात्मकश्च सम्बन्धः अस्ति। प्रभुश्रीरामः छत्तीसगढस्य भाञ्जा रामः अस्ति। अत एव प्रदेशे भाञ्जाय प्रति विशेषश्रद्धा तथा तस्य चरणस्पर्शस्य परम्परा प्रचलिता अस्ति। तेन उक्तं यत् प्रभुश्रीरामस्य जीवनं केवलं धार्मिकश्रद्धायाः विषयः न, अपितु सम्पूर्णस्य समाजस्य मानवतायाश्च कृते आदर्शस्वरूपम् अस्ति। मर्यादायाः, त्यागस्य, कर्तव्यस्य, सङ्घर्षस्य सेवायाश्च प्रेरणा तस्य जीवनात् प्राप्यते।

वित्तमन्त्री श्रीचौधरी अवदत् यत् २०२३ तमे वर्षे अस्माकं सर्वकारस्य गठनानन्तरं मुख्यमन्त्रिणः विष्णुदेवसायस्य नेतृत्वे मुख्यमन्त्रितीर्थदर्शनयोजना पुनः प्रारब्धा। एतया सह प्रथमवित्तविवरणे श्रीरामलला-दर्शनयोजना अपि प्रारब्धा, येन छत्तीसगढस्य श्रद्धालवः अयोध्याधामं प्राप्य प्रभुश्रीरामस्य दर्शनं कर्तुं शक्नुयुः। सर्वकारस्य प्रयासः अस्ति यत् अधिकाधिकेभ्यः वरिष्ठनागरिकेभ्यः तीर्थयात्रायाः अवसरः प्राप्येत तथा यात्राकाले तेभ्यः आवश्यकाः सुविधाः अपि उपलब्धाः भवेयुः। वित्तमन्त्री अवदत् यत् अयोध्याधाम्नि प्रभुश्रीरामस्य दर्शनसमये तेन सम्पूर्णे छत्तीसगढप्रदेशे न्यूनाति-न्यूनम् एकलक्षं श्रीरामचरितमानस-पुस्तिकाः व्यासपीठानि च श्रद्धालुभ्यः वितरितुं सङ्कल्पः कृतः आसीत्।

लोकसभासदस्यः राधेश्यामराठिया अवदत् यत् अद्यतनः दिवसः सर्वेषां कृते गौरवस्य प्रसन्नतायाश्च अवसरः अस्ति। छत्तीसगढस्य भगवान् श्रीरामेण सह विशेषः सम्बन्धः अस्ति। एषा माता कौशल्यायाः जन्मभूमिः तथा भगवत: श्रीरामस्य मातुलगृहम् अस्ति। अयोध्याधाम्नि प्रभुश्रीरामस्य भव्यस्य मन्दिरस्य निर्माणानन्तरं श्रद्धालुभ्यः दर्शनस्य अवसरः प्राप्यते।

राज्यसभासदस्यः देवेन्द्रप्रतापसिंहः अवदत् यत् मुख्यमन्त्रितीर्थदर्शनयोजना श्रीराम-ललादर्शनयोजना च श्रद्धालून् तीर्थस्थलेषु प्रापयितुं महत्त्वपूर्णं माध्यमं सिद्धे स्तः। तेन भारतीयसंस्कृतेः, मन्दिराणां धार्मिक-धरोहरस्य च संरक्षणस्य आवश्यकतायाः विषये बलं दत्तम्। अयोध्यायां भगवत: श्रीरामस्य भव्ये मन्दिरे दर्शनं श्रद्धालूनां कृते विशिष्टः आध्यात्मिकः अनुभवः अस्ति। तेन वित्तमन्त्रिणः ओ.पी.चौधरीमहोदयस्य एकलक्षं श्रीरामचरितमानसपुस्तिकाः व्यासपीठानि च वितरितुं कृतस्य सङ्कल्पस्य प्रशंसा कृता। जनपद-पञ्चायतस्य अध्यक्षा श्रीमती शिखारवीन्द्रगबेलः अवदत् यत् सर्वकारेण वरिष्ठनागरिकेभ्यः तीर्थधाम्नः यात्रायाः अवसरः प्रदत्तः। एतदर्थं तया सर्वकारं प्रति कृतज्ञता ज्ञापिता तथा श्रद्धालुभ्यः शुभकामनाः प्रदत्ताः।

कार्यक्रमे तीर्थयात्रां कृत्वा प्रत्यागतवन्तः वरिष्ठनागरिकाः स्वानुभवान् प्रकटितवन्तः।

कार्यक्रमस्य अन्ते नगरनिगमस्य महापौरः श्रीजीवर्धनचौहानः धन्यवादज्ञापनं कृतवान्। अस्मिन् अवसरे सुन्दरकाण्डपाठं कृतवतः दलस्य सदस्याः अपि सम्मानिताः। जनपदपञ्चायतस्य मुख्यकार्यपालना-धिकारी श्रीअभिजीतबबनपठारे तथा तस्य दलस्य सदस्याः अपि स्मृतिचिह्नानि श्रीरामचरितमानसस्य पुस्तिकां च प्रदाय सम्मानिताः।

Hindusthan Samachar / Divya Ranjan