Enter your Email Address to subscribe to our newsletters

आईएमएस्य पहलया दशग्रामाणां ग्रामीणानां लाभः प्राप्तः
फर्रुखाबादम्, ०४ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबादजनपदे बाढपीडितग्रामीणानां स्वास्थ्यसेवां प्रदातुं इण्डियन मेडिकल एसोसिएशन (आईएमए) तथा इण्डियन रेडक्रॉस सोसाइटी इत्येतयोः संयुक्ततत्त्वावधानेन रविवासरे राजेपुरस्य बहादुरपुरप्राथमिकविद्यालये चतुर्थं बाढराहतचिकित्साशिविरम् आयोजितम्। शिविरे दश बाढपीडितग्रामाणां ३५५ रोगिणां स्वास्थ्यपरीक्षणं कृत्वा तेभ्यः निःशुल्कौषधानि प्रदत्तानि। अस्मिन् अवसरे ११२ बालकेभ्यः वस्त्राणि अपि वितरितानि।
रेडक्रॉसस्य सभापतेः शीष मेहरोत्रस्य संयोजने आयोजिते शिविरे कांधर, कुँवरपुरा, खुंटिया, सिया, सरह, बांकेपुरवा, महमदगञ्ज, टेरा अकबरपुर, सवासी तथा धीरजपुर इत्येतेभ्यः ग्रामेभ्यः ग्रामीणाः आगतवन्तः।
आईएमएस्य अध्यक्षायाः डॉ. कविताशर्मायाः नेतृत्वे चिकित्सकदलैः रोगिणां स्वास्थ्यपरीक्षणं कृत्वा तेभ्यः आवश्यकचिकित्सकीयपरामर्शः प्रदत्तः। स्वास्थ्यपरीक्षणेन सह बाढपीडितपरिवाराणां आवश्यकतां दृष्ट्वा बालकेभ्यः वस्त्राणि अपि वितरितानि।
शिविरे डॉ. कविताशर्मा, डॉ. अरविन्दगुप्तः, अवनीश अग्निहोत्री इत्यादयः चिकित्सकाः तथा रेडक्रॉसस्य स्वयंसेवकाः सेवां प्रदत्तवन्तः। बाढकाले स्वास्थ्यसुविधाः उपलब्धीकर्तुं आईएमए तथा रेडक्रॉसद्वारा कृतेन प्रयासेन ग्रामीणैः प्रशंसा कृता।
Hindusthan Samachar / Dheeraj Maithani