Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 अक्टूबरमासः (हि.स.)।
भारत-कनाडादेशयोः मध्ये प्रस्तावितस्य व्यापक-आर्थिक-सहकारितासहमतेः (सीईपीए) पञ्चमचरणस्य वार्ता अक्टोबरमासस्य पञ्चमे दिनाङ्के ओटावानगरे प्रारभ्यते। उभयोः देशयोः लक्ष्यं वर्तते यत् अस्य वर्षस्य अन्तपर्यन्तं वार्तां पूर्णां कुर्याताम्। पञ्चदिनपर्यन्तं चलिष्यन्ती एषा वार्ता नवमे अक्टोबरदिने समाप्ता भवितुं शक्नोति। अस्याः वार्तायाः चतुर्थः चरणः सेप्टेम्बरमासस्य अष्टादशे दिनाङ्के नवदिल्लीनगरे सम्पन्नः अभवत्।
सूत्राणि अवदन् यत् उभे देशे अस्य वर्षस्य अन्तपर्यन्तं वार्तां पूर्णां कर्तुं लक्ष्यं स्वीकृत्य वार्ताप्रक्रियायां गतिं वर्धयतः। एषा वार्ता महत्त्वपूर्णा अस्ति, यतः कनाडादेशस्य प्रधानमन्त्री मार्क कार्नी गतिमासे अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी अस्य वर्षस्य डिसेम्बरमासस्य समीपे कनाडादेशस्य यात्रां कर्तुं शक्नोति।
भारत-कनाडादेशयोः वार्तायाः अधिकं वेगं वर्धयितुं कनाडादेशस्य वाणिज्यमन्त्री मनिन्दर सिद्धू अस्मिन् मासस्य अन्ते त्रिशत्सदस्यीयेन व्यापारप्रतिनिधिमण्डलेन सह नवदिल्लीनगरम् आगमिष्यति। सिद्धू तथा वाणिज्योद्योगमन्त्री पीयूषगोयलः गतिमासे मुम्बईनगरे मिलित्वा वार्तायाः प्रगतिं समीक्षितवन्तौ।
किं नाम प्रस्ताविता व्यापिका आर्थिकसहकारितासहमतिः
भारत-कनाडादेशयोः प्रस्तावितः व्यापकः आर्थिकसहकारितायाः (सीईपीए) एकप्रकारस्य मुक्तव्यापारसम्झौतः अस्ति। अस्य अन्तर्गतं उभे देशे परस्परं व्यापारविषयकासु अधिकतमासु वस्तुषु सीमाशुल्कं पर्याप्तरूपेण न्यूनीकर्तुं वा पूर्णतया समाप्तुं वा प्रयत्नेते। तदतिरिक्तं कुशलव्यावसायिकानां आवागमनसम्बद्धाः नियमाः सरलीकर्तुं तथा निवेशम् आकर्षयितुं उपायाः अपि अस्मिन् समाविष्टाः भवन्ति।
मार्चमासे २०२२ तमे वर्षे उभयोः देशयोः अन्तरिमसहमतेः कृते वार्ता पुनरारब्धा। २०२३ तमे वर्षे उभयोः देशयोः सम्बन्धेषु तनावस्य वृद्धेः अनन्तरं कनाडादेशेन वार्ता पुनः स्थगिता। नवम्बरमासे २०२५ तमे वर्षे उभयोः देशयोः प्रस्तावितस्य मुक्तव्यापारसहमतेः औपचारिकवार्तां पुनरारब्धुं निर्णयः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani