Enter your Email Address to subscribe to our newsletters


रामगढम्, ४ अक्टोबरमासः (हि.स.)। नगरे जिमखाना-क्लब इत्यत्र झारखण्डस्य प्रसिद्धव्यवसायिषु अन्यतमस्य स्वर्गीयस्य रामचन्द्र-रुङ्गटस्य स्मृतौ श्रीमद्भागवत-कथायाः आयोजनं क्रियते। कार्यक्रमस्य प्रथमदिने झारखण्डस्य राज्यपालः सन्तोष-गङ्गवारः कथायाम् उपस्थितः अभवत्। अत्र सः वृन्दावनतः आगतेन कथावाचकेन आचार्येण मृदुल-कृष्ण-गोस्वामिना महाराजेन सह मिलित्वा तस्य आशीर्वादं प्राप्तवान्। अस्मिन्नवसरे सः श्रीमद्भागवत-कथामपि अशृणोत्।
कार्यक्रमे सम्मिलितः राज्यपालः सन्तोष-गङ्गवारः अवदत् यत् सद्भावेन एव अस्माकं समाजः श्रेष्ठः भवति तस्य विकासश्च भवति। जिमखाना-क्लब इत्यत्र आयोजितः अयं कार्यक्रमः अत्यन्तं प्रशंसनीयः अस्ति। अयं समाजाय नूतनां दिशां प्रदास्यति। सः बहूनि वर्षाणि सक्रिय-राजनीतौ कार्यरतः आसीत् तथा पञ्चवारं सांसदः अपि अभवत्। सः प्रायः सर्वैः कथावाचकैः साधुसन्तैश्च सह मिलितवान् अस्ति। स्वसमाजस्य हिताय तेनापि अनेकानि सकारात्मककार्याणि कृतानि सन्ति। अद्य अत्र श्रीमद्भागवत-कथाकार्यक्रमे सम्मिलितः सन् सः अपि सुखदाम् अनुभूतिम् अनुभवति इति अवदत्।
कथायाः शुभारम्भात् पूर्वं रविवासरे प्रणीत-टावरस्थितात् मन्दिरात् भव्य-मङ्गलकलश-शोभायात्रा निष्कासिता। रामगढ-मारवाडी-युवा-मञ्चस्य रामगढ-चेतना-समित्याः च संचालनया आयोजितायां शोभायात्रायां रुङ्गटा-कुटुम्बस्य सदस्यैः सह नगरस्य गणमान्य-नागरिकाः श्रद्धालवश्च सम्मिलिताः। मन्दिरे विधिवत् पूजार्चनां कृत्वा शोभायात्रा प्रारब्धा।
शोभायात्रायां स्वर्गीयस्य रामचन्द्र-रुङ्गटस्य पत्नी माया-रुङ्गटा, पुत्राः अभिषेक-रुङ्गटः, आलोक-रुङ्गटः आशीष-रुङ्गटश्च सहितमन्ये जनाः सम्मिलिताः।
सप्तदिवसीये आयोजने श्रीधाम-वृन्दावनस्य सुप्रसिद्धः कथाव्यासः भागवत-मर्मज्ञश्च आचार्यः मृदुल-कृष्ण-गोस्वामी-महाराजः श्रद्धालून् श्रीमद्भा-गवत-कथायाः रसास्वादनं कारयति। आचार्यः मृदुल-कृष्ण-गोस्वामी-महाराजः ठाकुरस्य श्रीबाँकेबिहारी-महाराजस्य दासत्वे, भोगे सेवायां च अधिकारिरूपेण स्वकीयां विशिष्टं परिचयं धारयति।
आयोजनसमित्याः सदस्याः अवदन् यत् श्रीमद्भागवत-कथा केवलं धार्मिकः कार्यक्रमः न, अपि तु भारतीयसंस्कृत्या, सनातनपरम्परया मानवीयमूल्यैश्च सह सम्बद्धतायाः महत्त्वपूर्णं माध्यमम् अस्ति। सप्तदिनपर्यन्तं कथास्थले भक्तिमयस्य आध्यात्मिकस्य च वातावरणस्य मध्ये श्रद्धालवः कथां श्रुत्वा स्वजीवनं सकारात्मकदिशि नेतुं प्रेरणां प्राप्स्यन्ति।
आयोजनसमितेः पक्षतः माया-रुङ्गटया राञ्ची-रामगढाभ्यां सह सम्पूर्ण-झारखण्डस्य श्रद्धालुभ्यः अस्मिन् पावने आयोजने अधिकाधिकसंख्यया सम्मिलितुं आग्रहः कृतः। समितिसदस्यैः स्पष्टं कृतं यत् कथायां सम्मिलितुं कस्यापि प्रकारस्य प्रवेशपत्रस्य आवश्यकता नास्ति। श्रद्धालून् सपरिवारं स्वेष्टमित्रैश्च सह कथास्थलं गत्वा श्रीमद्भागवत-कथां श्रोतुं आह्वानं कृतम्।
Hindusthan Samachar / Divya Ranjan