Enter your Email Address to subscribe to our newsletters

आयोगस्य परीक्षायां ५६३५ अभ्यर्थिनः पञ्जीकृताः, सीसीटीवी-माध्यमेन निरीक्षणम्
झाँसी, ४ अक्टोबरमासः (हि.स.)। प्रयागराजस्थितस्य उत्तरप्रदेश-लोकसेवा-आयोगस्य स्वास्थ्यशिक्षाधिकारी-स्क्रीनिङ्ग-परीक्षा-२०२५ रविवासरे जनपदस्य १४ केन्द्रेषु एकस्मिन् सत्रे शान्तिपूर्णरूपेण सम्पन्ना। प्रातः ९:३० वादनतः ११:३० वादनपर्यन्तं सञ्चालितायां परीक्षायां ५६३५ परीक्षार्थिनः सम्मिलितुं पञ्जीकृताः आसन्। तेषु २५७२ परीक्षार्थिनः उपस्थिताः अभवन्, ३०६३ च अनुपस्थिताः आसन्।
परीक्षायाः शुचितां निर्वोढुं केन्द्रेषु क्षेत्राधिकारिणः स्थिर-दण्डाधिकारिणश्च नियुक्ताः आसन्। मुख्यद्वारे परीक्षार्थिनां निरीक्षणं कृत्वा एव प्रवेशः प्रदत्तः। चलदूरवाण्या घट्या सह कस्यापि विद्युतीय-उपकरणस्य केन्द्रे प्रवेशे प्रतिबन्धः आसीत्। महिला-परीक्षार्थिनां निरीक्षणाय पृथक् कक्षस्य व्यवस्था कृता आसीत्। सर्वेषु केन्द्रेषु सीसीटीवी-कैमरा-साधनानि सक्रियाणि आसन्।
अपरजनपदाधिकारी-प्रशासनं शिवप्रताप-शुक्लः नगरस्य आरक्षक-अधीक्षिका प्रीति-सिंहश्च बुन्देलखण्ड-विश्वविद्यालयेन सह अनेकेषां केन्द्राणाम् निरीक्षणं कृत्वा व्यवस्थाः अवलोकितवन्तौ। ताभ्यां शिथिलता दृश्यते चेत् कार्यवाही भविष्यतीति संचेतना प्रदत्ता। सामाजिक-माध्यमेषु दुष्प्रचारप्रसारकाणां विषये अपि निरीक्षणं स्थापयितुं निर्देशाः प्रदत्ताः।
बहिः प्रदेशेभ्यः आगतानां परीक्षार्थिनां सुविधायै नगरदण्डाधिकारी योगेश्वर-सिंहः रेलस्थानकस्य सहायता-कक्षस्य निरीक्षणं कृत्वा परीक्षार्थिभिः सह संवादं कृतवान्।
निरीक्षणसमये टीपीओ दिनेश-सिंह-राजपूतः, पीआरडी-कमाण्डेण्ट् शिवराम-सिंहः, जनपद-प्रोबेशन-अधिकारी सुरेन्द्र-कुमार-पटेलः, आरक्षककर्मचारिणः, केन्द्र-व्यवस्थापकाः तथा च बहवः अभिभावकाः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan