Enter your Email Address to subscribe to our newsletters

— इन्दौरे आयोजिते भारतीयपत्रकारिता-महोत्सवे मध्यप्रदेशविधानसभाध्यक्षः तोमरः सम्मिलितः
इन्दौरम्, ४ अक्टोबरमासः (हि.स.)। यं वंशं भवन्तः ‘जेन-जी’ इति कथयन्ति, तं वंशम् अहं ‘तरुणभारतम्’ इति कथयामि। सम्पूर्णे विश्वे तरुणभारतः यानि चमत्कारिकाणि कार्याणि करोति, तानि अस्माकं सर्वेषां कृते आश्चर्यजनकानि सन्ति। नूतनवंशस्य अस्माकं च मध्ये चिन्तनस्य भेदः भवितुं शक्नोति, किन्तु नूतनवंश: सदैव विपरीतदिशायां चिन्तयिष्यति इत्यत्र किमपि कारणं नास्ति। वर्तमानसमयः वंशस्य परिवर्तनस्य समय: अस्ति। अस्माभिः सर्वैः स्वचिन्तनं व्यापकं करणीयम्, नूतनाः आयामाः स्वीकरणीयाः तथा च भविष्यस्य दायित्वं वहत: वंशस्य स्वागतं करणीयम्।
एते विचाराः मध्यप्रदेशविधानसभाध्यक्षेन नरेन्द्रसिंह-तोमरेण रविवासरे इन्दौरनगरे स्टेट् प्रेस् क्लब मध्यप्रदेशद्वारा ‘किं जेन-जी भारतस्य उद्धारका: भविष्यन्ति?’ इति विषये आयोजिते भारतीयपत्रकारिता-महोत्सवे मुख्यातिथिरूपेण व्यक्ताः। सः अवदत् यत् अस्माकं संस्कृतिः परिवर्तनं प्रकृतेः नियमरूपेण स्वीकरोति। यथा यथा समयः अग्रे गच्छति, तथा तथा नूतनवंशस्य आगमनं भवति। नूतनवंशस्य पुरातनवंशश्च चिन्तने यः भेदः दृश्यते, सः स्वाभाविकः अस्ति।
सः अवदत् यत् परिवर्तनस्य प्रक्रिया स्वाभाविकी अस्ति। अस्माभिः सर्वैरपि अस्याः प्रक्रियायाः अन्तर्गतं स्वयमेव सज्जीकर्तव्यम्। केचन जनाः दिशाभ्रान्तिं जनयितुं प्रयत्नं कर्तुं शक्नुवन्ति, किन्तु अहं दृढतया वक्तुं शक्नोमि यत् अस्माकं तरुणाः सम्पूर्णे विश्वे गौरवाय योग्यं कार्यं कुर्वन्ति।
तोमरः अवदत् यत् भारतस्य युवानः तरुणाश्च सम्पूर्णविश्वस्य अर्थव्यवस्थायां योगदानं दत्त्वा भारतस्य नाम उज्ज्वलं कुर्वन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना येन प्रकारेण विश्वे भारतीयान् जागरयितुं प्रयत्नः कृतः, सः महत्त्वपूर्णः अस्ति। विदेशेषु मोदी-महोदयस्य कार्यक्रमेषु सम्मिलितानां तरुणानां योगदानं तथा अन्येषु देशेषु तैः क्रियमाणानि कार्याणि दृष्ट्वा अस्माभिः सर्वैः प्रसन्नतया भवितव्यम्। नूतनवंशं प्रति अस्माकं विश्वासः अधिकं दृढः भवितव्यः।
सः अवदत् यत् अस्माकं देशः विश्वस्य एकः विशालः लोकतान्त्रिकदेशः अस्ति। लघुषु देशेषु लोकतन्त्रं समृद्धं कर्तुं सुकरं भवति, किन्तु १४० कोटिजनसंख्यायुक्ते देशे लोकतन्त्रं समृद्धं कर्तुं, सुदृढं कर्तुं च अग्रे नेतुं कठिनं कार्यम् अस्ति। अस्माकं सौभाग्यम् अस्ति यत् स्वतन्त्रतासङ्ग्रामे अस्माकं पूर्वजैः स्वप्राणानां बलिदानं दत्त्वा रक्तसिक्तस्वतन्त्रता भारतवासिभ्यः प्रदत्ता। तस्याः मूल्यं सर्वे अवगच्छन्ति। सार्वजनिकजीवने भवन्तु, कार्यपालिकायां भवन्तु, न्यायपालिकायां वा पत्रकारिताक्षेत्रे भवन्तु—सर्वे स्वस्वदायित्वं सम्यक् निर्वहन्ति चेत् एव लोकतन्त्रं स्थिरं तिष्ठति।
सः अवदत् यत् अद्य भारतस्य लोकतन्त्रं सुदृढं भवति, तत्र प्रेस-माध्यमानामपि महत्त्वपूर्णं योगदानम् अस्ति। पत्र-कारितायाः दृष्ट्यापि इन्दौरनगरं समृद्धम् अस्ति। नूतनवंश: अपि स्वदायित्वं सम्यक् निर्वहेत् इत्यस्य विषये सेन्ट्रल प्रेस क्लब् अपि ध्यानं दत्त्वा कार्यं करोति। कार्यक्रमे देशस्य विभिन्नेभ्यः प्रेस-क्लब इत्येतेभ्यः प्रतिनिधयः, पत्रकाराः विद्यार्थिनश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan