Enter your Email Address to subscribe to our newsletters

जयपुरम्, ४ अक्टोबरमासः (हि.स.)। मुख्यमन्त्री भजनलाल-शर्मा सोमवासरे प्रदेशस्य नगरीयनिकायानां नवनिर्वाचितैः महापौरैः, उपमहापौरैः, सभापतिभिः, उपसभापतिभिः, अध्यक्षैः उपाध्यक्षैश्च सह दृश्यश्रव्य-माध्यमेन संवादं करिष्यति। अस्मिन् अवसरे मुख्यमन्त्री निकायानां प्रथमशतदिनानां कार्ययोजनया सह नगरीयविकासः, स्वच्छता, जलम्, विद्युत् इत्यादीनां जनसुविधानां विकासः इत्येतान् विषयान् नवनिर्वाचितैः प्रमुखैः उपप्रमुखैश्च सह चर्चयिष्यति।
मुख्यमन्त्रिणा रविवासरे मुख्यमन्त्रिनिवासे अधिकारिभिः सह सभां कृत्वा कार्यक्रमस्य सिद्धतां प्रति आवश्यकाः निर्देशाः प्रदत्ताः। मुख्यमन्त्री अवदत् यत् विकसितनगरैः एव विकसितराजस्थानस्य सङ्कल्पः साकारं भविष्यति। राज्यसर्वकारः नगराणि सुन्दराणि, स्वच्छानि, सुव्यवस्थितानि नागरिकाणां च कृते सुविधाजनकानि कर्तुं योजनाबद्धरूपेण कार्यं कुर्वती अस्ति। समग्रमार्गचित्रेण सह शतदिवसीयकार्य-योजनायाः माध्यमेन नगरीयनिकायानां कायाकल्पः क्रियते इति सः अवदत्।
सः अवदत् यत् नवनिर्वाचितजनप्रतिनिधिषु जनानाम् अपेक्षाः पूरयितुं महत्त्वपूर्णं दायित्वम् अस्ति। नगरेषु स्वच्छता, मार्गाः, पेयजलम्, प्रकाशव्यवस्था, यातायात-व्यवस्था, उद्यानानि इत्यादीनां मूलभूत-सुविधानां विकासाय तथा केन्द्र-राज्यसर्वकारयोः योजनानां लाभं सामान्यजनान् प्रति प्रापयितुं विस्तृतं मार्गचित्रं सज्जीक्रियते। मुख्यमन्त्री अवदत् यत् नवनिर्वाचितान् पार्षदान् अन्यान् जनप्रतिनिधींश्च सह नीत्वा राज्य-सर्वकारस्य स्थानीय-निकायानां च समन्वितप्रयत्नैः स्थानीयावश्यकतानाम् अनुरूपं नगरेषु विकासाय नूतनां गतिं प्रदास्यते।
सभायां मुख्यसचिवः वी. श्रीनिवासः दृश्यश्रव्य-माध्यमेन सम्बद्धः। अतिरिक्त-मुख्यसचिवः अखिल-अरोडा, अतिरिक्त-मुख्यसचिवः नगरीयविकास-आवासन-विभागस्य आलोक-गुप्तेन सह सम्बन्धितविभागानाम् अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan