वर्षाणि नगरे व्यतीतानि, ग्रामं प्रत्यागत्य वृत्तेः स्थापना कृता
पौड़ी गढ़वालः, 04 अक्टूबरमासः (हि.स.)। पर्वतप्रदेशात् रोजगारस्य अन्वेषणे नगरेषु पलायनस्य कथाः सामान्याः सन्ति, किन्तु कोटविकासखण्डस्य काण्डईग्रामनिवासी संजीवबछेती इत्यनेन तस्य विपरीतम् मार्गं स्वीकृत्य स्वग्रामे एव रोजगारस्य व्यवस्था कृता। दिल्ली ए
पौड़ी में मां जी मसाले के उत्पाद तैयार करती महिलाए


पौड़ी गढ़वालः, 04 अक्टूबरमासः (हि.स.)।

पर्वतप्रदेशात् रोजगारस्य अन्वेषणे नगरेषु पलायनस्य कथाः सामान्याः सन्ति, किन्तु कोटविकासखण्डस्य काण्डईग्रामनिवासी संजीवबछेती इत्यनेन तस्य विपरीतम् मार्गं स्वीकृत्य स्वग्रामे एव रोजगारस्य व्यवस्था कृता। दिल्ली एनसीआरनगरे षड्विंशतिवर्षाणि व्यतीत्य सः कोरोनाकाले २०२० तमे वर्षे ग्रामं प्रत्यागतवान्। नगरं प्रति पुनः गन्तुं स्थाने अत्रैव रोजगारस्य स्थापना कर्तुं सः निर्णयं कृतवान्। हरिद्रायाः, मरिचस्य धनियस्य च उत्पादनेन प्रारब्धः तस्य व्यवसायः अद्य ‘मांजी मसाले’ इति नाम्ना परिचयं प्राप्तवान्।

प्रधानमन्त्रिरोजगारयोजनायाः लाभं प्राप्य संजीवेन ग्रामे मसालायाः उत्पादनकेन्द्रं स्थापितम्। प्रारम्भे सीमितैः उत्पादैः आरब्धः व्यवसायः शनैः शनैः वर्धितः। सम्प्रति उत्पादनकेन्द्रे हरिद्रा, मरिच, धनिया, हरितायां बृहत्यां च इलायची, तेजपत्रम् इत्येतेषां सह मण्डुवा, झङ्गोरा तथा विभिन्नानां पर्वतीयदालीनाम् उत्पादाः अपि सज्जीक्रियन्ते। समीपस्थेभ्यः ग्रामेभ्यः कच्चसामग्रीं सङ्गृह्य तस्याः शोधनं, पेषणं, वेष्टनं च उत्पादनकेन्द्रे एव क्रियते।

संजीवेन व्यवसायः केवलं स्वपरिवारपर्यन्तं सीमितः न कृतः। उत्पादनकेन्द्रे चतस्रः महिलाः उत्पादनकार्ये विपणनकार्ये च सम्बद्धाः सन्ति, यदा तु उत्पादानां वितरणे अन्येषु कार्येषु च त्रयः जनाः सहयोगं कुर्वन्ति। पत्नी ज्येष्ठपुत्रश्च व्यवसाये सक्रियभूमिकां निर्वहतः। एवं प्रायः अष्टौ जनाः प्रत्यक्षरूपेण अस्मिन् स्वावलम्बनाधारिते व्यवसाये सम्बद्धाः सन्ति।

उत्पादनकेन्द्रे कार्यं कुर्वत्यौ कविता देवी दीप्ति देवी च विगतेषु प्रायः चतुर्षु वर्षेषु अस्मिन् कार्ये सम्बद्धे स्तः। गृहस्य उत्तरदायित्वानि निर्वह्य उभे अपि ग्रामस्य समीपे स्थिते उत्पादनकेन्द्रे कार्यं कुरुतः। तयोः कथनमस्ति यत् गृहस्य समीपे एव रोजगारस्य प्राप्त्या पारिवारिकदायित्वानि निर्वहन्त्यौ आर्थिकसहकारं कर्तुं शक्यते।

संजीवस्य ज्येष्ठपुत्रः अक्षत बछेती दिल्ली एनसीआरनगरे द्वादशकक्षापर्यन्तं शिक्षां प्राप्तवान्। शिक्षां पूर्णां कृत्वा नगरे रोजगारस्य अन्वेषणं कर्तुं स्थाने ग्रामे एव निवसन् पितुः व्यवसाये सहयोगं कर्तुं सः निर्णयं कृतवान्। अक्षतः कथयति यत् मातापित्रोः सह ग्रामे निवस्य कार्यं कर्तुं तस्मै आनन्दः भवति। युवभिः रोजगारस्य अन्वेषणेन सह स्वग्रामे विद्यमानासु स्वावलम्बनस्य सम्भावनास्वपि विचारः करणीयः।

मुख्यविकासाधिकारी अशोकजोशी अवदत् यत् संजीवबछेती प्रधानमन्त्रिरोजगारयोजनायाः अन्तर्गतं मसालोत्पादनकेन्द्रस्य स्थापनार्थं ऋणं गृहीतवान् तथा तेन पञ्चत्रिंशत्प्रतिशतं अनुदानस्य लाभः प्राप्तः। सम्प्रति उत्पादनकेन्द्रं सम्यग्रूपेण सञ्चाल्यते तथा उत्पादानां मागः पौडीजनपदस्य अतिरिक्तं टिहरी, देहरादून इत्यादिषु अन्येष्वपि क्षेत्रेषु अस्ति। प्रशासनस्य पक्षतः तस्मै आवश्यकं सहकारं प्रदीयते।

Hindusthan Samachar / Dheeraj Maithani