‘मम सफलतायां संशयं कुर्वन्तः जनाः मिथ्याः सिद्धाः इति दर्शयितुम् आसीत्’, कीर्त्या सङ्घर्षस्य कथा कथिता।
नवदिल्ली, 04 अक्टूबरमासः (हि.स.)। एशियाईक्रीडा २०२६ तमे वर्षे स्वर्णपदकं विजेतृभारतीयमहिलारिकर्वदले समाविष्टा कीर्तिशर्मा स्वस्य सफलतायाः विषये अवदत् यत् तस्याः आलोचनां कुर्वतां जनानां कथनं मिथ्या सिद्धं कर्तव्यमिति सा निश्चयं कृतवती आसीत् तथा तदर
कीर्ति शर्मा


नवदिल्ली, 04 अक्टूबरमासः (हि.स.)। एशियाईक्रीडा २०२६ तमे वर्षे स्वर्णपदकं विजेतृभारतीयमहिलारिकर्वदले समाविष्टा कीर्तिशर्मा स्वस्य सफलतायाः विषये अवदत् यत् तस्याः आलोचनां कुर्वतां जनानां कथनं मिथ्या सिद्धं कर्तव्यमिति सा निश्चयं कृतवती आसीत् तथा तदर्थं यत्किमपि करणीयं भवेत् तत् करिष्यामीति सा संकल्पितवती आसीत्।

कीर्तिशर्मा, अङ्किताभगत् तथा कुमकुममोहदः इत्येताभिः निर्मितया भारतीयमहिलारिकर्वदलेन एशियाईक्रीडा २०२६ तमे वर्षे इतिहासः रचितः। ताभिः अन्तिमचरणे शक्तिशालिनं दक्षिणकोरियादलं पराजित्य स्वर्णपदकं स्वकीयं कृतम्।

हरियाणाराज्यस्य रितौलीग्रामस्य कृषकपरिवारे जाता कीर्तिः बाल्यकालादेव स्वास्थ्यसम्बन्धिभिः समस्याभिः पीडिता आसीत्। ग्रामीणरूढिवादीवातावरणे क्रीडाक्षेत्रे जीवनवृत्तिं निर्मातुं तया विषये नानाविधानि वचनानि श्रोतव्यानि अभवन्। तथापि सा कदापि निराशां न स्वीकृतवती।

कीर्तिः भारतीयक्रीडाप्राधिकरणस्य माध्यमविभागेन सह वार्तालापे अवदत् यत् बाल्यकालादेव तस्याः स्वास्थ्यं सम्यक् न आसीत्। तीरन्दाजीक्रीडायां सफलतां प्राप्तुं तस्याः क्षमतायां संशयं कुर्वतां बहूनां जनानां नकारात्मकानि वचनानि तया श्रोतव्यानि अभवन्। शारीरिकरूपेण स्वस्थतायाः अभावात् प्रारम्भे तस्यै अधिकभारयुक्तं धनुः उत्थापयितुमपि कठिनं भवति स्म, किन्तु आलोचकानां कथनं मिथ्या सिद्धं कर्तुं यत्किमपि करणीयं भवेत् तत् करिष्यामीति सा दृढनिश्चयं कृतवती।

सा स्वलक्ष्यं तदा प्राप्तवती यदा भारतीयत्रिकेन एशियाईक्रीडा २०२६ तमे वर्षे इतिहासः रचितः। अन्तिमचरणे दशवारं विजेतारं दक्षिणकोरियादलं ५ ३ इत्यङ्कैः पराजित्य महिलारिकर्वदलक्रीडायां स्वर्णपदकं प्राप्तम्।

एकोनविंशतिवर्षीया क्रीडिका कठिनसमये साथं दत्त्वा तस्याः सफलतायाः आधारं निर्मितवतः स्वपरिवारस्य विशेषतः पिता विजयशर्मणः च योगदानस्य श्रेयम् अदात्।

कीर्तिः अवदत् यत् मम पिता कृषकः अस्ति, किन्तु सः सदैव मम समर्थनं कृतवान्। आर्थिककठिनतायामपि सः मम क्रीडाजीवनसम्बद्धान् सर्वान् व्ययान् वहति स्म। सा अवदत् यत् बहवः जनाः मम पितरं कथितवन्तः यत् अहं क्रीडाक्षेत्रे न गच्छेयम्, यतः अहं कन्या अस्मि। मम दुर्बलस्वास्थ्यस्य कारणेन मम सफलतायाः क्षमतायामपि ते संशयं प्रकटितवन्तः, किन्तु मम पिता सदैव मयि विश्वासं कृतवान्।

हजारीबागस्थिते भारतीयक्रीडाप्राधिकरणस्य प्रशिक्षणकेन्द्रे अभ्यासं कुर्वती तीरन्दाजः अवदत् यत् एशियाईक्रीडासु सफलतायाः मार्गं निर्मातुं सम्पूर्णं श्रेयः भारतीयक्रीडाप्राधिकरणस्य तस्याः प्रशिक्षकस्य उद्धवसिंहस्य च अस्ति।

कीर्तिः अवदत् यत् मम परिवारः प्रशिक्षकश्च सदैव मम समर्थनं कृतवन्तौ तथा मां विश्वसितवन्तौ यत् अहं उत्कृष्टं कर्तुं शक्नोमि। मया साई हजारीबागे परीक्षणं तस्मात् कारणात् दत्तम् यतः मम प्रशिक्षकस्य उद्धवसिंहस्य तत्र स्थानान्तरणम् अभवत्। प्रारम्भिकेषु वर्षेषु अहं उद्धवसरैः प्रारब्धायाम् एकस्याम् अकादम्यां अभ्यासं करोमि स्म।

सा अवदत् यत् चत्वारि वर्षाणि पूर्वं अहं साई हजारीबागं गता। तदारभ्य मम क्रीडाजीवने अद्भुतः सुधारः अभवत्। मया यत्किमपि प्राप्तं तस्य सम्पूर्णं श्रेयः भारतीयक्रीडाप्राधिकरणाय प्रशिक्षकाय च ददामि।---------------

Hindusthan Samachar / Dheeraj Maithani