Enter your Email Address to subscribe to our newsletters

शिमला, 04 अक्टूबरमासः (हि.स.)। वन्यजीवसप्ताह २०२६ अन्तर्गतं हिमाचलप्रदेशवनविभागस्य वन्यजीवप्रभागस्य पक्षतः रविवासरे शिमलानगरस्य ऐतिहासिके रिजमैदाने मिनीमैराथनस्य आयोजनं कृतम्। अस्मिन् कार्यक्रमे बहुसंख्याकैः बालकैः युवभिश्च उत्साहपूर्वकं भागः गृहीतः। मिनीमैराथनं रिजमैदानात् प्रारभ्य समरहिलपर्यन्तं गत्वा प्रतिभागिनः पुनः रिजमैदानं प्रत्यागतवन्तः।
शिमलानगरविधानसभाक्षेत्रस्य विधायकः हरीशजनारथः रिजमैदानात् मिनीमैराथनं हरितध्वजं प्रदर्श्य प्रारम्भितवान्। तेन प्रतिभागिभ्यः बालकेभ्यः युवभ्यः उपस्थितेभ्यश्च वन्यजीवानां महत्त्वं ज्ञातुं तेषां संरक्षणाय च अग्रे गत्वा योगदानं दातुम् आह्वानं कृतम्।
मिनीमैराथने महिलावर्गे पुरुषवर्गे च प्रतिभागिनः भागं गृहीतवन्तः। महिलावर्गे अनामिकया प्रथमं विपाशया द्वितीयं सुमनया तृतीयं स्थानं प्राप्तम्। पुरुषवर्गे जतिने प्रथमं ध्रुवेण द्वितीयं रामकृष्णेन तृतीयं स्थानं प्राप्तम्। उत्कृष्टप्रदर्शनं कृतवद्भ्यः प्रतिभागिभ्यः प्रथमद्वितीयतृतीयस्थानानां पुरस्कारैः सम्माननं कृतम्। आयोजकैः सर्वेभ्यः प्रतिभागिभ्यः तेषां उत्साहस्य अनुशासनस्य सहभागितायाश्च कृते शुभकामनाः प्रदत्ताः।
अस्मिन् अवसरे वन्यप्राणीप्रभागस्य वनविभागस्य च वरिष्ठाधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्। मिनीमैराथनस्य आयोजनस्य उद्देश्यम् आरोग्यपूर्णजीवनस्य क्रीडाभावनायाः वन्यजीवसंरक्षणस्य च सन्देशं जनसामान्येभ्यः प्रेषितुम् आसीत्। बालकानां युवानां च उत्साहपूर्णसहभागितया कार्यक्रमे जनसहभागितायाः सन्देशोऽपि स्पष्टतया समुपस्थितः।
---------------
Hindusthan Samachar / Dheeraj Maithani