Enter your Email Address to subscribe to our newsletters



आदिरङ्गोत्सवे जनजातीयसंस्कृतेः विविधता प्रदर्शिता, धामिना कलाकारैः सह मृदंगवादनं कृतम्
खटीमा, ४ अक्टोबरमासः (हि.स.)। उत्तराखण्डस्य खटीमानगरे आयोजितः त्रिदिवसीयः ‘उत्तराखण्ड-आदिरङ्गोत्सवः’ रविवासरे जनजातीयसंस्कृतेः, परम्पराणां कलानां च विविधवर्णैः परिपूर्णः अभवत्। अस्मिन् अवसरे केन्द्रीयजनजातीयकार्य-मन्त्री जुएल-ओरामः खटीमास्थितस्य एकलव्य-आदर्श-आवासीयविद्यालयस्य विस्ताराय सुविधानां विकासाय च प्रायः १० कोटिरूप्यकाणि व्ययीकरिष्यन्ते इति घोषणां कृतवान्। अपरत्र केन्द्रीय-संसदीयकार्य-अल्पसंख्यककार्य-मन्त्री किरेन-रिजिजुः उत्तराखण्डस्य जनजातीय-विविधतायाः समृद्धस्य सांस्कृतिकवैभवस्य च प्रशंसां कृतवान्।
मुख्यमन्त्री पुष्करसिंह-धामी, केन्द्रीय-मन्त्रिणौ जुएल-ओरामः किरेन-रिजिजुश्च उपस्थितेषु दीपप्रज्वलनेन रङ्गोत्सवस्य शुभारम्भः कृतः। देशस्य विभिन्नेभ्यः राज्येभ्यः आगतैः जनजातीय-कलाकारैः पारम्परिकवेषभूषया, लोक-नृत्यैः लोक-सङ्गीतैश्च स्वकीयस्य सांस्कृतिक-वैभवस्य दृश्यं प्रदर्शितम्।
अस्मिन् अवसरे किरेन-रिजिजुना मुख्यमन्त्रिणः पुष्करसिंह-धामिनः नेतृत्वस्य कार्यशैल्याश्च प्रशंसापि कृता। सः अवदत् यत् प्राकृतिकविपदां, सुरुङ्ग-दुर्घटनानां, भू-स्खलनानां अन्यासां च समस्यापूर्णपरिस्थितीनां समये मुख्य-मन्त्रिणा विविधाः समस्याः सम्मुखीकृताः। सः अवदत् यत् एतादृशः जनसेवकः शताब्देषु एकवारं प्राप्यते।
केन्द्रीयमन्त्री अवदत् यत् २०१४ तमवर्षात् परं देशे जनजातीयसमाजस्य कल्याणाय तस्य च परिचयाय नूतनं प्राधान्यं प्राप्तम्। स्वतन्त्रतासङ्ग्रामे जनजातीयसमाजस्य योगदानस्य सम्मानं कुर्वन् भगवत: बिरसामुण्डायाः जयन्ती ‘जनजातीय-गौरवदिवसः’ इति रूपेण आयोजयितुं प्रारम्भः कृतः। सः अवदत् यत् पीएम-जनमन-सदृशाभिः योजनाभिः दूरस्थेभ्यः जनजातीयक्षेत्रेभ्यः विकासस्य लाभं प्रापयितुं प्रयत्नाः क्रियमाणाः सन्ति।
रिजिजुना उत्तराखण्डेन सह अरुणाचल-प्रदेशात्, छत्तीसगढात्, बिहारात्, उत्तरप्रदेशात्, राजस्थानात्, मध्यप्रदेशात्, हरियाणात्, महाराष्ट्रात्, ओडिशात्, पश्चिमबङ्गालात्, झारखण्डात् मिजोरमात् च आगतानां जनजातीयप्रतिनिधीनां कलाकाराणां च अभिनन्दनं कृतम्।
सः जनजातीयसमुदायान् स्वकीयां सांस्कृतिकपरम्परां, परिचयं परम्पराश्च संरक्षितुं आहूतवान्। २०४७ तमवर्षपर्यन्तं विकसितभारतस्य सङ्कल्पं साकारं कर्तुं जनजातीयसमाजस्य सक्रियसहभागिता अपि आवश्यकेति सः बलं दत्तवान्।
केन्द्रीयजनजातीयकार्यमन्त्री जुएल-ओरामः रविवासरे खटीमास्थितस्य एकलव्य-आदर्श-आवासीयविद्यालयस्य विस्ताराय सुविधानां च विकासाय प्रायः १० कोटिरूप्यकाणि व्ययीकरिष्यन्ते इति घोषणां कृतवान्। सः अवदत् यत् प्रायः ४ कोटिरूप्यकाणां व्ययेन निर्मीयमाणस्य छात्रावासस्य निविदाप्रक्रिया पूर्णा अस्ति तथा च निर्माणकार्यं शीघ्रमेव प्रारप्स्यते।
ओरामः अवदत् यत् खटीमायाः एकलव्यविद्यालये २४० बालकै: २४० बालिकाभि: च सह ४८० विद्यार्थिनां अध्ययनक्षमता भविष्यति। सः विद्यालयस्य शतप्रतिशतपरीक्षापरिणामस्य प्रशंसां कृत्वा अवदत् यत् बाजपुरे, चकरातायां देहरादूनस्य कालसीक्षेत्रे च एकलव्यविद्यालयाः गुणवत्तापूर्णां शिक्षां प्रददति।
केन्द्रीयमन्त्री पूर्वप्रधानमन्त्रिणः अटल-बिहारीवाजपेयी इत्यस्य कार्यकालं स्मरन् अवदत् यत् १९९९ तमे वर्षे जनजातीय-कार्याणां कृते पृथक् मन्त्रालयस्य गठनं कृतम् आसीत्। अस्य उद्देश्यं देशस्य विभिन्नानां जनजातीय-समुदायानां विकासाय योजनाबद्धरूपेण कार्यं कर्तुम् आसीत्।
सः मुख्यमन्त्री धामिनः आभारं प्रकटयन् अवदत् यत् केन्द्रस्य राज्यस्य च संयुक्तप्रयासैः खटीमायां एकलव्य-आदर्श-आवासीयविद्यालयस्य निर्माणं सम्भवं जातम्। क्षेत्रस्य जनजातीयसमस्याः प्राथमिकतायाः आधारेण समाधास्यन्ते।
मुख्यमन्त्रिणा केन्द्रीयमन्त्रिणौ किरेन-रिजिजुं जुएल-ओरामं च पौधं महाराणा-प्रतापस्य प्रतिमां च प्रदाय स्वागतं कृतम्। सः खटीमास्थितस्य एकलव्य-आवासीय-विद्यालयस्य आधुनिकीकरणाय विस्ताराय च १० कोटिरूप्यकाणां घोषणां कृतवते जुएल-ओरामाय आभारं प्रकटितवान्। सहैव पिथौरागढे अपि एकस्य आवासीय-एकलव्यविद्यालयस्य स्थापनायै अनुरोधं कृतवान्।
धामी अवदत् यत् खटीमा विविध-संस्कृतिनां परम्पराणां च सङ्गमस्थलम् अस्ति। राज्यसर्वकारः जनजातीयसमाजं शिक्षया, स्वास्थ्यसेवया, रोजगारावसरेण आधारभूतसुविधाभिश्च संयोज्य सशक्तं कर्तुं कार्यं करोति। कार्यक्रमे मुख्यमन्त्रिणा कलाकारैः सह नृत्यं कृत्वा मृदंगवादनमपि कृतं तथा च तेषाम् उत्साहं वर्धितम्।
कार्यक्रमस्य समये मुख्यमन्त्री धामी पारम्परिकसांस्कृतिकरूपे दृश्यते स्म। सः कलाकारैः सह नृत्यं कृतवान् तथा ढोलवादनमपि कृतवान्। सः खटीमायाः अञ्जनियाग्रामनिवासिनं बीएसएफ-सैनिकं मोहनसिंहराणां चारूबेटानिवासिनं च टीलासेनं माउण्ट्-एवरेस्ट्-शिखरस्य विजयं प्राप्तवतोः कृते शुभकामनाः अयच्छत्। मुख्यमन्त्री अवदत् यत् उभयोः उपलब्धिः थारूसमाजस्य उत्तराखण्डस्य च कृते गौरवस्य विषयः अस्ति।
मुख्यमन्त्री अवदत् यत् अटल-आवासीयोजनायाः अन्तर्गतं ऊधमसिंह-नगरजनपदे त्रिकोटिरूप्यकेभ्यः अधिका आर्थिकसहायता प्रदत्ता अस्ति। प्रधानमन्त्री-आवासयोजना-ग्रामीणस्य अन्तर्गतं अस्मिन् वर्षे प्राप्तेषु आवेदनेषु प्रायः २८ प्रतिशतं आवेदनानि जनजातीयपरिवाराणां सन्ति। प्रधानमन्त्री-जनमन-योजनायाः अन्तर्गतं प्रथमचरणे ८२४ द्वितीयचरणे च १०१ आवासानां निर्माणं कृतम् अस्ति।
रङ्गोत्सवे राजस्थानात्, मध्यप्रदेशात्, हरियाणात्, उत्तराखण्डात्, अरुणाचल-प्रदेशात्, छत्तीसगढात्, महाराष्ट्रात्, ओडिशात्, पश्चिमबङ्गालात्, झारखण्डात्, मिजोरमात् उत्तरप्रदेशात् च सहितं विभिन्नेभ्यः राज्येभ्यः आगतैः कलाकारैः लोकनृत्यस्य, सङ्गीतस्य पारम्परिक-कलानां च प्रस्तुतयः प्रदत्ताः। कलाकाराणां विविधवर्णाः वेशभूषाः सांस्कृतिक-प्रस्तुतयश्च दर्शकाणाम् आकर्षणस्य केन्द्रम् अभवन्।
कार्यक्रमे केन्द्रीयराज्यमन्त्री अजय-टम्टा, सांसदः अजय-भट्टः, मन्त्रिमण्डलस्य मन्त्री धनसिंहरावतः, सुबोध-उनियालः खजान-दासैश्च सह अनेके जनप्रतिनिधयः, अधिकारिणः, कलाकाराः बहुसङ्ख्यकाः स्थानीयजनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan