Enter your Email Address to subscribe to our newsletters

— निर्मला भूरिया
एशियाईक्रीडा-२०२६ मध्ये भारतीय-क्रीडकैः उत्कृष्टं प्रदर्शनं कुर्वद्भिः देशाय ८५ पदकानि प्राप्तानि तथा पदकतलिकायां भारतं चतुर्थं स्थानं प्राप्तवान्। भारतस्य पक्षे २१ सुवर्णपदकानि, २७ रजतपदकानि, ३७ कांस्यपदकानि च प्राप्तानि। अस्याः उपलब्धेः सर्वाधिक: गौरवपूर्ण: पक्ष: अस्ति यत् महिला-क्रीडिकाभि: ३८ पदकानि प्राप्तानि, यानि पुरुषक्रीडकाणां पदकसंख्यायाः सममेव सन्ति। एतेषु ११ सुवर्णपदकानि महिला-क्रीडकाभिः महिला-दलैश्च विजितानि।
भारतस्य पुत्रीणाम् एतत् प्रदर्शनं केवलं क्रीडाक्षेत्रस्य उपलब्धिः नास्ति, अपि तु परिवर्तमानस्य भारतस्य सशक्तायाः नारीशक्तेश्च चित्रम् अस्ति। क्रिकेटक्रीडायां भारतीयमहिलादलेन सुवर्णपदकं जित्वा देशस्य गौरवं वर्धितम्, तथैव महिलाकबड्डीदलेन महिलाहॉकीदलेन च सुवर्णिमं साफल्यम् अर्जितम्। महिलाहॉकीदलस्य सुवर्णिमं पुनरागमनं विशेषरूपेण ऐतिहासिकम् अभवत्, यतः तेन ४४ वर्षाणाम् अनन्तरम् एशियाई-क्रीडायां सुवर्णपदकं प्राप्तम्।
एशियाईक्रीडासु भारतीयपुत्रीणां सफलता महिलासशक्तीकरणस्य प्रभावशालिनी प्रतिमा अस्ति। अद्य अस्माकं पुत्र्यः केवलं क्रीडाङ्गणे पदकानि न विजित्य, देशस्य कोटिशः पुत्रीणां स्वप्नानाम् अपि नूतनां दिशां प्रदर्शयन्ति। तासां सफलता एतं विश्वासं दृढतरं करोति यत् पुत्र्यै अवसरः, प्रोत्साहनं विश्वासश्च दीयते चेत् सा कस्मिन् अपि क्षेत्रे सर्वोच्चं शिखरं प्राप्तुं शक्नोति।
व्यक्तिगतस्पर्धास्वपि भारतीयपुत्रीभिः नूतनानि इतिहासपृष्ठानि रचितानि। कुमकुम-महोड़े महिला-व्यक्तिगत-रिकर्व-स्पर्धायां भारताय प्रथमं एशियाईक्रीडासुवर्णपदकं विजितवती। महिला-रिकर्व-दलेनापि सुवर्णपदकं प्राप्तम्। लक्ष्यभेदे नीरुधांडा सुवर्णपदकं जित्वा उल्लेखनीयं साफल्यम् अर्जितवती। मुक्केबाजीस्पर्धायां लवली-नाबोरगोहेणः परवीनहुड्डा च सुवर्णपदकानि विजितवत्यौ, गोल्फ-क्रीडायां प्रणवीउर्सः भारताय ऐतिहासिकं सुवर्णपदकं प्राप्तवती। मीराबाईचानू भारोत्तोलने रजतपदकं जित्वा भारताय अस्मिन् क्रीडाक्षेत्रे दीर्घकालानन्तरं पदकं प्राप्तवती।
अस्य गौरवपूर्णस्य साफल्यस्य मध्ये मध्यप्रदेशस्य पुत्रीभिरपि स्वप्रतिभया परिश्रमेण च गौरवध्वजः उत्तोलितः। प्रदेशस्य क्रिकेटक्रीडिका क्रान्तिगौडः भारतीयमहिला-क्रिकेट-दलस्य सुवर्ण-पदकविजेतृदले सदस्यत्वेन सम्मिलिता अभवत्। लघुग्रामात् निर्गत्य एशियाई-क्रीडासदृशं विशालं अन्ताराष्ट्रियं मञ्चं प्राप्य सुवर्णपदकस्य विजयः तस्याः परिश्रमस्य संघर्षस्य च प्रेरणादायिनी कथा अस्ति।
लक्ष्यभेदे मध्यप्रदेशस्य नीरुधांडा असाधारणं प्रदर्शनं कुर्वती महिला-ट्रैप-व्यक्तिगतस्पर्धायां सुवर्णपदकं विजितवती। तया ट्रैप-मिश्रित-दलस्पर्धायामपि सुवर्ण-पदकं तथा महिला-ट्रैप-दलस्पर्धायां रजतपदकं प्राप्तम्। एवं नीरुधांडया एशियाईक्रीडासु त्रयः पदकानि जित्वा प्रदेशस्य देशस्य च गौरवं वर्धितम्। निशानेबाज्यां एव मध्यप्रदेशस्य आशीचौकसे महिला-५० मीटर-राइफल-त्रिपोजिशन-दलस्पर्धायां रजतपदकं विजितवती, मनीषाकीरः च महिला-ट्रैप-दलस्पर्धायां रजतपदकं प्राप्तवती। तथैव मध्यप्रदेशस्य अन्ताराष्ट्रिय-नौकायान-क्रीडिका हर्षितातोमरः ४९ईआर एफएक्स महिला-स्किफ-स्पर्धायां कांस्यपदकं प्राप्तवती।
भारतीयमहिला-हॉकीदलस्य सुवर्णिम-सफलतायामपि मध्यप्रदेशस्य पुत्रीणां महत्त्वपूर्णा सहभागिता अभवत्। ईशिकाचौधरी, बिच्छूदेवी, सुशीलाचानू च भारतीयमहिला-हॉकीदलस्य सदस्याः आसन्, येन एशियाईक्रीडासु सुवर्णपदकं जित्वा देशं गौरवान्वितम्।
एका पुत्र्याः सफलता केवलं तस्याः व्यक्तिगत उपलब्धिः न भवति, अपि तु सा सम्पूर्णस्य परिवारस्य समाजस्य देशस्य च चिन्तनं परिवर्तयितुं सामर्थ्यं धारयति। एशियाईक्रीडासु पुत्रीणां सफलता तेषां सर्वेषां परिवाराणां कृते प्रेरणादायिनी अस्ति, ये स्वपुत्रीः क्रीडायां, शिक्षायां, विज्ञाने, प्रौद्योगिक्यां, प्रशासनक्षेत्रे, उद्यमितायां अन्येषु च क्षेत्रेषु अग्रे वर्धमानाः द्रष्टुम् इच्छन्ति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे पुत्रीणाम् उन्नत्यै अनुकूलं वातावरणं निर्मितम् अस्ति। ‘बेटी बचाओ, बेटी पढ़ाओ’ इत्यादिभ्यः अभियानेभ्यः आरभ्य पुत्रीणां स्वावलम्बिनीकरणपर्यन्तं चिन्तनम् अधुना धरातले दृश्यते। मध्यप्रदेशेऽपि मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे महिला-बालविकासविभागः महिलानां पुत्रीणां च स्वास्थ्यस्य, पोषणस्य, शिक्षायाः, सुरक्षायाः, सम्मानस्य स्वावलम्बनस्य च कृते निरन्तरं कार्यं करोति।
एशियाईक्रीडायाः पुत्रीणां सफलता अस्मभ्यं सन्देशं ददाति यत् महिलासशक्तीकरणं केवलं योजनासु घोषवाक्येषु च सीमितं नास्ति। वास्तविकं सशक्तीकरणं तदा भवति, यदा पुत्री स्वप्नानां मार्गं स्वयमेव चेतुं शक्नुयात्, स्वप्रतिभां ज्ञातुं शक्नुयात् तथा स्वपरिश्रमेण विश्वस्य पुरतः स्वकीयं परिचयं निर्मातुं शक्नुयात्। अद्य कुमकुममहोडः, नीरुधांडा, लवलीना-बोरगोहेणः, परवीनहुड्डा, प्रणवीउर्सः, मीराबाईचानू भारतीयमहिला-दलानि च स्वकीयैः उपलब्धिभिः देशस्य प्रत्येकां पुत्रीं सन्देशं ददति—आकाशस्य कापि सीमा नास्ति।
एशियाईक्रीडासु भारतीयपुत्रीभिः पदकानि जित्वा न केवलं त्रिरङ्गं गौरवान्वितं कृतम्, अपि तु महिलासशक्तीकरणस्य नूतनम् अध्यायमपि लिखितम्। एताः उपलब्धयः अग्रिमवंशानां पुत्रीणां कृते प्रेरणास्रोतांसि भविष्यन्ति तथा ताभ्यः एतं विश्वासं दास्यन्ति यत् स्वप्नानां पूर्तये देशः ताभिः सह दृढतया स्थितः अस्ति।
(लेखिका मध्यप्रदेशस्य महिला-बालविकासमन्त्री अस्ति।)
Hindusthan Samachar / Divya Ranjan