Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०५ अक्टोबरमासः (हि.स.)। भारतीयजनतापक्षस्य पूर्वराष्ट्रियाध्यक्षः केन्द्रीयगृहमन्त्री च अमितशाहः अद्य सायंकाले पक्षस्य मुख्यालये सेवा-सङ्कल्पाभियानस्य प्रगतिं सिद्धतां च समीक्षिष्यति। अस्मिन् अवसरे भाजपा-ध्यक्षः नितिननवीनः अपि उपस्थितः भविष्यति।
भाजपासूत्रैः एषा सूचना प्रदत्ता। तैः उक्तं यत् अमितशाहस्य कृते सेवासङ्कल्पा-भियानस्य समीक्षार्थं भाजपाकार्यालयस्य एतत् तृतीयं भ्रमणं भविष्यति। पूर्वमपि सः अभियानसम्बद्धानां गतिविधीनां सिद्ध-तानां च अवलोकनं कृतवान् अस्ति। सोमवासरीये सभायां अभियानस्य वर्तमानस्थितेः, अधुना-पर्यन्तस्य प्रगतेः तथा अग्रिमकार्यक्रमाणां च विषये चर्चा भवितुं सम्भावना अस्ति।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः सार्वजनिक-जीवने जनसेवायां च पञ्चविंशतिवर्षाणां पूर्तेः उपलक्ष्ये तस्य जन्मदिवसात् १७ सितम्बरतः सम्पूर्णदेशे सञ्चाल्यमानम् ‘सेवासङ्कल्पाभियानम्’ १७ अक्टोबर-पर्यन्तं प्रचलिष्यति।
अभियानस्य माध्यमेन मोदिनः पञ्च-विंशतिवर्षीयां सार्वजनिकसेवायात्रां जन-समक्षं प्रस्तोतुं, सेवाकार्याणि, जन-कल्याणकार्याणि राष्ट्रनिर्माण-सम्बद्धानि च तस्य कार्याणि प्रकाशयितुं च उद्देश्यम् अस्ति। अभियानं प्रभाविपूर्णं व्यापकं च कर्तुं भाजपासङ्गठनस्य पक्षतः विभिन्नेषु स्तरेषु विविधाः कार्यक्रमाः आयोज्यन्ते।
Hindusthan Samachar / Divya Ranjan