डिब्रूगढ़तः बाङ्ग्लादेशं प्रति प्रस्थितं प्रथमं मालवाहकपोतम्, अन्तर्देशीयजलमार्गेण पुनः निर्यातस्य प्रारम्भः
डिब्रूगढ़म् (असमः), ५ अक्टोबरमासः (हि.स.)। स्वातन्त्र्यप्राप्तेः अनन्तरं प्रथमवारं डिब्रूगढ़तः विदेशं प्रति मालवाहकपोतः प्रस्थितः। अनेन अस्मात् जनपदात् अन्तर्देशीयजलमार्गेण मालवहनस्य पुनः प्रारम्भः अभवत्। मेथनॉलं वहन् प्रथमः पोतः ५ अक्टोबरमासे प्र
असमः डिब्रूगढ़-बांग्लादेश इनलैंड वॉटरवे व्यापार दशकों बाद फिर से शुरू; पहले कार्गो जहाज़ के रवाना होने के अवसर पर आयोजित कार्यक्रम का दृश्य।


डिब्रूगढ़म् (असमः), ५ अक्टोबरमासः (हि.स.)। स्वातन्त्र्यप्राप्तेः अनन्तरं प्रथमवारं डिब्रूगढ़तः विदेशं प्रति मालवाहकपोतः प्रस्थितः। अनेन अस्मात् जनपदात् अन्तर्देशीयजलमार्गेण मालवहनस्य पुनः प्रारम्भः अभवत्।

मेथनॉलं वहन् प्रथमः पोतः ५ अक्टोबरमासे प्रातः ११ वादने डिब्रूगढ़स्य नवनिर्मितात् बोगीबील-नदीपत्तनात्, यत् भारतीय-अन्तर्देशीय-जलमार्ग-प्राधिकरणस्य बोगीबील-स्थानकम् इत्यपि कथ्यते, बाङ्ग्लादेशस्य ढाका-नगरस्थितं पङ्गाओन-पत्तनं प्रति प्रस्थितः। अयं पोतः ७८३ किलोमीटर-परिमितं नदीमार्गं गत्वा प्रायः सप्तदिनेभ्यः अनन्तरं बाङ्ग्लादेशं प्राप्स्यतीति अपेक्षा अस्ति।

आगामिषु दिनेषु द्वितीयो मालवाहकपोतः अपि प्रस्थास्यतीति अपेक्षा अस्ति। उभौ पोतौ मिलित्वा असम-पेट्रोकेमिकल्स-लिमिटेड्-संस्थया निर्मितं १,०८० टनपरिमितं मेथनॉलं बाङ्ग्लादेशं प्रापयिष्यतः।

केन्द्रीयमन्त्री सर्वानन्दसोनोवालः अद्य बोगीबील-पत्तने औपचारिकरूपेण पोताय हरितध्वजं प्रदर्श्य तं प्रस्थापितवान्, येन मालवहनस्य प्रारम्भः अभवत्। असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा आभासीयमाध्यमेन कार्यक्रमे सम्मिलि-तवान्। ५ अक्टोबर्-दिने प्रस्थितस्य पोतस्य नाम ‘पटकाई’ इति अस्ति। अयं पोतः बाङ्ग्लादेशं प्रति यात्रायां २७ पात्रेषु ५४० टनपरिमितं मेथनॉलं वहति।

डिब्रूगढ़े अन्तर्देशीयजलमार्ग-परिवहनस्य इतिहासः ब्रिटिशशासनकालादेव अस्ति। तस्मिन् काले व्यावसायिकप्रयोजनार्थं नगरात् पोताः प्रचलन्ति स्म तथा मोहनघाटस्य समीपे ऐतिहासिकं नदीपत्तनमपि स्थितम् आसीत्। कालान्तरे अस्मिन् क्षेत्रे पोतानां सञ्चालनं निरुद्धम् अभवत्।

बोगीबीलतः मालवहनस्य पुनः प्रारम्भः असमस्य अन्ताराष्ट्रियगन्तव्यस्थानैः सह अन्तर्देशीयजलमार्ग-परिवहनस्य पुनरुज्जीवनस्य दिशि नूतनं चरणम् अस्ति।

Hindusthan Samachar / Divya Ranjan