Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ५ अक्टोबरमासः (हि.स.)। भारतस्य यूरोपीयसङ्घस्य च (ईयू) मध्ये प्रस्तावितस्य मुक्तव्यापारसन्धे: विषये वार्ता सकारात्मकदिशि अग्रे वर्धते तथा अवशिष्टेषु तकनीकी-विनियामकविषयेषु शीघ्रं सहमतिः भविष्यतीति अपेक्षा अस्ति। भारतस्थः फिनलैण्डदेशस्य नवनियुक्तः राजदूतः मिक्को किविकोस्की उक्तवान् यत् आवश्यकायाः विधिसमीक्षायाः तथा उभयोः पक्षयोः संसद्भ्यः अनुमोदनस्य अनन्तरं सन्धि: प्रभावी भविष्यति। आशास्यते यत् अस्मिन् वर्षे अन्ते पर्यन्तं सन्धि: सम्पन्नः भविष्यति। एफटीए-सन्धिना भारतस्य यूरोपस्य च प्रायः द्वि-अर्बुदजनानां कृते बृहद् सहभाग-विपण्यं निर्मास्यते तथा वैश्विकानिश्चिततायाः मध्ये उभयोः पक्षयोः आर्थिक-सामरिकसम्बन्धाः सुदृढाः भविष्यन्ति।
भारतस्थः फिनलैण्डदेशस्य नवनियुक्तः राजदूतः मिक्को किविकोस्की सोमवासरे चाणक्यपुरीस्थिते फिनलैण्ड-दूतावासे स्वकीयायां प्रथमायां औपचारिकवार्ताहर-वार्तायाम् उक्तवान् यत् एफटीए-सह भारतस्य ईयू-सङ्घस्य च मध्ये निवेशसंरक्षणसन्धे: तथा भौगोलिक-संकेतकसम्बद्धेषु विषयेष्वपि समानान्तर-रूपेण वार्ता प्रचलति। एतैः सन्धिभि: व्यापार-निवेशयोः कृते अधिकं सुरक्षितं पारदर्शकं च वातावरणं निर्मास्यते इति अपेक्षा अस्ति। वैश्विकापूर्तिशृङ्खलायां निरन्तरं जायमानानां परिवर्तनानां मध्ये भारतम् ईयू-सङ्घश्च परस्परं विश्वसनीयौ आर्थिकसहभागिनौ मन्येते। एफटीए-सम्झौतेस्य कार्यान्वयनेन भारतस्य प्रायः १.५ अर्बुदस्य तथा यूरोपस्य २७ देशानां ५० कोट्यधिकजनानां कृते नूतनाः आर्थिकावसराः उत्पत्स्यन्ते।
किविकोस्की भारत-फिनलैण्डदेशयोः आर्थिकसम्बन्धानां विषये उक्तवान् यत् उभयोः देशयोः मध्ये वस्तूनां सेवाना च वर्तमानः व्यापारः प्रायः त्रयः अर्बुदाः अमेरिकी-डॉलरपरिमितः अस्ति। उभौ देशौ २०३० तमवर्षपर्यन्तं तं द्विगुणितं कर्तुं लक्ष्यं निर्धारितवन्तौ। तथापि तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदी फिनलैण्डदेशस्य नेतृत्वेन सह उच्चस्तरीयवार्तासु व्यापारं द्विगुणितं कर्तुम् एव न स्थात्वा अधिकमहत्त्वाकाङ्क्षिणः लक्ष्यस्य निर्धारणस्य आवश्यकतायां बलं दत्तवान्। एफटीए-विषये सकारात्मकवातावरणस्य मध्ये फिनलैण्डदेशस्य नवोद्यमिन्यः मध्यमाकाराः च निर्माण्य: भारतीयविपण्ये निवेशस्य, विनिर्माणस्य तथा सहभागितायाः सम्भावनाः अन्विष्यन्ति। भारतीयनिर्माण्य: अपि फिनलैण्डदेशे नॉर्डिकक्षेत्रे च स्वीयां उपस्थितिं वर्धयितुं रुचिं प्रदर्शयन्ति।
भारत-फिनलैण्डसम्बन्धेषु हालिया-उच्चस्तरीयसम्पर्कानां उल्लेखं कुर्वन् राजदूतः उक्तवान् यत् सः २५ सेप्टेम्बरमासे राष्ट्रपतये द्रौपदीमुर्मू इत्यस्यै स्वपरिचयपत्रं समर्पितवान् तथा प्रायः त्रिभ्यः मासेभ्यः भारतदेशे राजनयिकदायित्वं निर्वहति। तेन भारतीयविदेशमन्त्रिणः वाणिज्यमन्त्रिणश्च फिनलैण्डयात्रयोः तथा गान्धीनगरे आयोजितस्य विश्व-चक्रीय-अर्थव्यवस्था-मञ्चस्य उल्लेखः कृतः। तेन उक्तं यत् एतैः सम्पर्कैः उभयोः देशयोः मध्ये स्थायित्वे, हरितऊर्जायां, चक्रीय-अर्थव्यवस्थायां तथा अङ्कीकरणे इत्यादिषु क्षेत्रेषु सहयोगाय गतिः प्राप्ता अस्ति।
रक्षासुरक्षासहयोगस्य विषये किविकोस्की उक्तवान् यत् २०२० तमे वर्षे सम्पन्नस्य द्विपक्षीयरक्षासहयोगसन्धे: आधारेण उभौ देशौ सहयोगं अग्रे वर्धयतः। वर्तमानभू-राजनैतिकपरिस्थितौ फिनलैण्डस्य तकनीकीक्षमताः भारताय उपयोगिन्यः भवितुम् अर्हन्ति। तेन नोकिया तथा अन्तरिक्षप्रौद्योगिकी-निर्माणी ‘आइसआई’ इत्येतयोः प्रौद्योगिक्याः उल्लेखं कृत्वा उक्तं यत् उपग्रहाधारिताः सञ्चार-निरीक्षण-व्यवस्थाः रक्षाक्षेत्रे, सीमासुरक्षायां, आपत्कालीनसञ्चारे तथा आपदाप्रबन्धने उपयोगिन्यः सन्ति। फिनलैण्डदेश: भारतेन सह प्रौद्योगिक्याधारितं सहविकासं सुरक्षा-सहयोगं च अधिकं वर्धयितुम् इच्छति।
रूस-यूक्रेनसङ्घर्षस्य तथा फिनलैण्ड-देशस्य नाटो-सङ्घे सम्मिलितुं निर्णयस्य विषये तेन उक्तं यत् युद्धस्य प्रारम्भात् पूर्वं फिनलैण्डदेशे प्रायः ७० प्रतिशतं जनाः नाटो-सदस्यतायाः पक्षे न आसन्। फेब्रूअरी २०२२ तमे वर्षे रूसदेशेन यूक्रेनदेशस्य उपरि आक्रमणानन्तरं केवलं त्रिदिनेषु जनमतस्य महत् परिवर्तनम् अभवत् तथा नाटो-सदस्यतायाः समर्थनं कुर्वतां जनानां संख्या ७५ तः ८० प्रतिशतादपि अधिका अभवत्। युद्धानन्तरं रूसस्य विषये फिनलैण्डदेशस्य विश्वासः पूर्णतया समाप्तः तथा देशेन ऊर्जायां, गैसे, व्यापारे च रूसस्य उपरि स्वनिर्भरता समाप्ता कृता। तेन उक्तं यत् प्रत्येकस्य सार्वभौमदेशस्य स्वस्य सुरक्षायै नागरिकानां हिताय च स्वतन्त्रनिर्णयं कर्तुं अधिकारः अस्ति।
वैश्विकसङ्घर्षाणां समाधाने भारतस्य भूमिकायाः प्रशंसां कुर्वन् फिनलैण्डदेशस्य राजदूतः उक्तवान् यत् भारतं विश्वस्य बृहत्तमं लोकतन्त्रम्, सर्वाधिकजन-सङ्ख्यायुक्तं राष्ट्रं तथा ग्लोबल-साउथ इत्यस्य महत्त्वपूर्णा वाणी अस्ति। यूक्रेनदेशे, पश्चिम-एशियायां तथा सूडानदेशे प्रचलितानां सङ्घर्षाणां समाप्तये शान्तेः स्थैर्यस्य च स्थापनायै भारतस्य भूमिका महत्त्वपूर्णा अस्ति। तेन संयुक्तराष्ट्र-सुरक्षापरिषदि सुधारस्य समर्थनं कुर्वता भारतं स्थायी-सदस्यरूपेण सम्मिलितं कर्तुं समर्थनं कृतम्।
प्रौद्योगिकीसहयोगस्य विषये राजदूतः उक्तवान् यत् भारत-फिनलैण्डदेशयोः मध्ये ५जी, ६जी, क्वाण्टम-सङ्गणनम्, कृत्रिमबुद्धिमत्ता तथा साइबर-सुरक्षा इत्यादिषु क्षेत्रेषु सहयोगः प्रचलति। भारतीयदूरसञ्चार-अवसंरचनायां फिनलैण्डस्य प्रौद्योगिक्याः महत्त्वपूर्णा भूमिका अस्ति तथा उभौ देशौ सुरक्षित-अङ्कीय-अवसंरचनायाः विकासे अपि कार्यं कुर्वतः। तेन उक्तं यत् भविष्ये प्रौद्योगिकीसहयोगं अधिकं विस्तृतं कर्तुं शक्यते।
किविकोस्की फिनलैण्डदेशे भारतीय-समुदायस्य योगदानस्य अपि उल्लेखं कृतवान्। तेन उक्तं यत् सम्प्रति ३० सहस्राधिकाः भारतीयनागरिकाः फिनलैण्डदेशे निवसन्ति। तेषु प्रायः २,००० तः ३,००० पर्यन्तं छात्राः सन्ति, यदा तु बहुसंख्यकाः भारतीयाः कुशल-व्यावसायिकाः सूचना-प्रौद्योगिकी, सॉफ्ट-वेयर तथा अभियान्त्रिकीक्षेत्रेषु कार्यं कुर्वन्ति। तेन उक्तं यत् फिनलैण्डदेश: भारतात् अधिकानां कुशल-अभियन्तॄणां, शोधकर्तॄणां तथा तकनीकी-व्यावसायि-कानां स्वागताय सज्जः अस्ति।
Hindusthan Samachar / Divya Ranjan