भारत-स्विट्जरलैण्डदेशयोः परिवहन-गतिशीलता-अनुसन्धानसम्बन्धिनः सन्धि:
नवदिल्ली, ५ अक्टोबरमासः (हि.स.)। भारत-स्विट्जरलैण्डदेशयोः मध्ये सोम-वासरे परिवहनं, गतिशीलता-अवसंरचना, प्रवासनं-गतिशीलता तथा युव-व्यावसायिकानां सम्बन्धिनः नूतनाः सन्धय: अभवन्। एतेषु स्वास्थ्यं, स्वच्छऊर्जा तथा अन्तरिक्षक्षेत्रेषु नूतनानि संयुक्तानु-
संयुक्त प्रेस वक्तव्य के दौरान समझौतों के आदान-प्रदान के साक्षी बनते भारत के प्रधानमंत्री और स्विट्जरलैंड के राष्ट्रपति


नवदिल्ली, ५ अक्टोबरमासः (हि.स.)। भारत-स्विट्जरलैण्डदेशयोः मध्ये सोम-वासरे परिवहनं, गतिशीलता-अवसंरचना, प्रवासनं-गतिशीलता तथा युव-व्यावसायिकानां सम्बन्धिनः नूतनाः सन्धय: अभवन्। एतेषु स्वास्थ्यं, स्वच्छऊर्जा तथा अन्तरिक्षक्षेत्रेषु नूतनानि संयुक्तानु-सन्धानकार्याणि अपि सम्मिलितानि सन्ति। उभौ पक्षौ शान्तेः, कूटनीतेः तथा वैश्विकसंस्थानां सुधारं प्रति स्वप्रतिबद्धतां पुनः पुष्टवन्तौ।

उभयोः देशयोः मध्ये अद्य पञ्च सन्धि: सम्पन्नाः। तेन सह विज्ञान-प्रौद्योगिक्या मन्त्रालयस्य सहयोगेन आयोजितस्य भारत-स्विट्जरलैण्ड-अनुसन्धान-प्रमुखकार्यक्रमस्य उद्घाटनसत्रस्य घोषणापि कृता।

प्रधानमन्त्री नरेन्द्रमोदी अद्य हैदराबाद-भवने स्विट्जरलैण्डदेशस्य राष्ट्रपतिना गाइ पार्मेलिनेन सह व्यापकं विचारविमर्शं कृतवान्। विदेशमन्त्रालयस्य प्रवक्त्रा अद्य सामाजिकमाध्यमे ‘एक्स’ इत्यत्र उक्तं यत् भारतस्य निर्याताय स्विट्जरलैण्डदेशे विपण्याः प्रवेशं वर्धयितुं तथा च उभयोः देशयोः मध्ये निवेशं अधिकं सुगमं कर्तुं अनेकाः महत्त्वपूर्णाः निर्णयाः स्वीकृताः। एतेन भारतस्य कृषिउत्पादानां, औषधिनां, वस्त्राणां तथा अभियान्त्रिकी-उत्पादानां स्विट्जरलैण्डदेशं प्रति निर्यातः वर्धिष्यते। भारतस्य जैवप्रौद्योगिकी, जीवनविज्ञान, धनागार:, बीमा, खाद्यप्रसंस्करण तथा स्थायित्वम् इत्यादिषु महत्त्वपूर्णक्षेत्रेषु नूतनान् स्विस-निवेशान् आकर्षयितुमपि वयं समर्थाः भविष्यामः। एतै: प्रयत्नै: सह वयं समग्रविश्वस्य कृते विश्वसनीयान् आपूर्तिशृङ्खलाः तथा विश्वसनीयाः समाधानानि संयुक्तरूपेण विकसितुं प्रयतिष्यामहे।

उभौ नेतारौ सम्बन्धानां सर्वेषाम् आयामानां समीक्षां कृत्वा व्यापार-निवेशयोः, नवाचार-कृत्रिमबुद्धिमत्तयोः, सैन्यविनिमय-रक्षोत्पादनयोः, आणविक-ऊर्जायाः, विज्ञान-प्रौद्योगिक्योः तथा जनानां परस्परसंबन्धेषु द्विपक्षीय-सहयोगं अधिकं गभीरं कर्तुम् उपायानां विषये विचारविमर्शं कृतवन्तौ। भारत-ईएफटीए-टीईपीए-सम्झौतेन आर्थिकसहयोगे उत्पन्नां सकारात्मकगतिं तौ प्रशंसितवन्तौ तथा नवाचाराधारित-सहभागिताम् अग्रे नेतुं स्वप्रतिबद्धतां पुनः पुष्टवन्तौ।

संयुक्तवक्तव्ये प्रधानमन्त्री मोदी उक्तवान् यत् फरवरीमासे भारतेन विश्वस्य बृहत्तमः कृत्रिमबुद्धिमत्ता-शिखरसम्मेलनः आयोजितः। अग्रिमवर्षे स्विट्जरलैण्डदेशः जिनेवायां कृत्रिमबुद्धिमत्ता-शिखर-सम्मेलनेन एतां यात्राम् अग्रे नेष्यति। अस्माकं विश्वासः अस्ति यत् वयं सर्वे मिलित्वा कृत्रिमबुद्धिमत्तां उत्तरदायिनीं, समावेशिनीं तथा मानवकेन्द्रितां कर्तुं दिशि निरन्तरम् अग्रे गमिष्यामः।

प्रधानमन्त्रिणा उक्तं यत् उभयोः देशयोः वैश्विकशान्तेः स्थैर्यस्य च कृते मिलित्वा कार्यं निरन्तरं कर्तुं निर्णयः कृतः। वयं एतदपि सहमताः स्मः यत् वर्धमानानां वैश्विकसमस्यानां समाधानाय वैश्विक-संस्थासु सुधारस्य आवश्यकता अस्ति।

स्विट्जरलैण्डस्य राष्ट्रपतिः पार्मेलिनः उक्तवान् यत् विज्ञान-प्रौद्योगिकी-सहयोगः अपि अस्माकं सहयोगस्य सुदृढः स्तम्भः अस्ति। स्वास्थ्यं, स्वच्छऊर्जा तथा अन्तरिक्षम् इत्यादिषु प्राथमिकताक्षेत्रेषु शीघ्रमेव संयुक्तानुसन्धानपरियोजनाः प्रारब्धुं गमिष्यामः इति ज्ञात्वा ते प्रसन्नतां व्यक्तवन्तः। भारतीयविज्ञान-स्टार्टअप इत्यादिनां क्षमतानिर्माणाय ज्यूरिख-विश्वविद्यालयेन सह सम्पन्नस्य सन्धे: तैः स्वागतं कृतम्। योगस्य आयुर्वेदस्य च वर्धमानां लोकप्रियतां दृष्ट्वा एतेषु क्षेत्रेषु सहयोगं सुदृढं कर्तुं सकारात्मकः विचारविमर्शः कृतः। सैन्यविनिमयस्य रक्षोत्पादनसहयोगस्य च नूतनान् अवसरान् चिह्नितवन्तः। आणविक-ऊर्जाक्षेत्रे सहयोगं अधिकं गभीरं कर्तुं सहमतिरपि अभवत्। वाराणस्यां रज्जुमार्गः, नोएडानगरे जेवरविमानपत्तनम् तथा पर्वतीयक्षेत्रेषु रेलमार्ग-भूसुरङ्ग-निर्माणपरियोजनाः अस्माकम् अव-संरचनासहयोगस्य उत्कृष्टानि उदाहरणानि सन्ति।

/ अंशु गुप्ता