Enter your Email Address to subscribe to our newsletters

नवटिहरी, 05 अक्टूबरमासः (हि.स.)। :
इण्डीसन्धिबन्धनस्य घटकदलैः केन्द्रसर्वकारस्य मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य च विरुद्धं पदयात्रा निष्कासिता। तैः केन्द्रसर्वकारस्य मुख्यनिर्वाचनायुक्तस्य च विरुद्धं प्रदर्शनं कुर्वद्भिः लोकतन्त्रस्य विनाशस्य आरोपः कृतः। तैः प्रतीकात्मकं पुतलदहनं कृत्वा देशस्य सर्वेभ्यः जनभ्यः भारतीयजनतापक्षस्य विरुद्धम् एकीभूय आन्दोलनं कर्तुम् आह्वानं कृतम्। तैः उक्तं यत् प्रतिपक्षनेता राहुलगान्धिना प्रारब्धं “मतचोर गद्दी छोड़” अभियानम् अधुना जनान्दोलनस्य रूपं गृहीतवान् अस्ति।
सोमवासरे कांग्रेसपक्षस्य कार्यकर्तारः इण्डीसन्धिबन्धनस्य अन्ये घटकदलानां कार्यकर्तारश्च कांग्रेसस्य जिलाध्यक्षस्य मुरारीलालखण्डवालस्य प्रतापनगरस्य विधायकस्य विक्रमनेगिस्य च नेतृत्वे हनुमानचतुष्पथः कलेक्ट्रेटपर्यन्तं पदयात्रां निष्कासितवन्तः। केन्द्रसर्वकारस्य मुख्यनिर्वाचनायुक्तस्य ज्ञानेशकुमारस्य च विरुद्धं घोषान् उद्घोषयन्तः तैः लोकतन्त्रस्य दुर्बलीकरणस्य आरोपः कृतः।
ते उक्तवन्तः यत् भारतीयजनतापक्षेन येषु येषु राज्येषु निर्वाचनानि तथा लोकसभानिर्वाचनं च विजितम्, तस्य पृष्ठे मुख्यनिर्वाचनायुक्तस्य भूमिका अस्ति। यावत् द्वौ निर्वाचनायुक्तौ सर्वोच्चन्यायालयस्य एकः न्यायाधीशश्च अधुना निर्वाचनायोगस्य व्यवस्थायाम् अपि प्रश्नान् उत्थापितवन्तः इति तैः उक्तम्।
राष्ट्रपतये ज्ञापनपत्रं प्रेषयित्वा मुख्यनिर्वाचनायुक्तस्य पदात् निष्कासनस्य मागः कृतः। कांग्रेसकार्यकर्तारः एकीभूय लोकतन्त्रस्य संरक्षणार्थं सर्वेभ्यः जनभ्यः सहकारितायाः आह्वानं कृतवन्तः। तैः सूचितं यत् अष्टमीतः अक्टोबरमासस्य पर्यन्तम् अस्मिन् विषये अखिलभारतीयकांग्रेससमित्याः निर्देशनानुसारं देशस्य सर्वेषु भागेषु कार्यक्रमाः आयोजयिष्यन्ते।
अस्मिन् अवसरे नरेन्द्रनगरस्य पूर्वविधायकः ओमगोपालः, घनसालीक्षेत्रस्य पूर्वविधायकः भीमलालआर्यः, जिलापञ्चायतस्य उपाध्यक्षः मानसिंहरौतेलः, देवप्रयागस्य जिलाध्यक्षः उत्तमअसवालः, विजयगुनसोला, देवेन्द्रनौडियालः, भगवानसिंहराणा, चिन्तामणितपलियालः, पूर्वराज्यमन्त्री प्रवीणभण्डारी, कुलदीपपंवारः, आशारावतः, राकेशराणा, शगुफ्तापरवीन, ममताउनियालः, लखवीरचौहानः, नरेन्द्ररमोला, नवीनसेमवालः, विजयपालः, सफरनेगी, वीरेन्द्रः, गब्बररावतः, बचनलालः, चन्दनसिंहश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani