Enter your Email Address to subscribe to our newsletters

स्टॉकहोमम्, ५ अक्टोबरमासः (हि.स.)। कार्लडाइसेरोथ:, पीटरहेगेमन् तथा जॉर्जनागेल: इत्येतेभ्यः प्रकाश-सक्रिय-आयन-मार्गिकाणां तथा प्रकाशानु-वांशिकीसम्बद्धानां अन्वेषणानां कृते २०२६ तमस्य वर्षस्य चिकित्साशास्त्रस्य नोबेल-पुरस्कारः प्रदास्यते इति सोमवासरे घोषितम्। स्वीडनदेशस्य राजधानी स्टॉकहोम-नगरे स्थितेन कैरोलिन्स्का-संस्थानेन सम्बद्धेन नोबेलसभया एतद्घोषणा कृता। पुरस्कारः त्रिभ्यः वैज्ञानिकेभ्यः संयुक्तरूपेण प्रदास्यते।
नोबेल-सभायाः अनुसारम् एतेषां वैज्ञानिकानां अन्वेषणैः तन्त्रिकाविज्ञानस्य नूतनयुगस्य आधारः स्थापितः। अस्मिन् वर्षे नोबेल्-पुरस्कारस्य धनराशिः १.२ कोटि स्वीडिश-क्रोनर अर्थात् प्रायः ११.५१ कोटिरूप्यकाणि अस्ति। एषा धनराशिः त्रयाणां विजेतॄणां मध्ये समानरूपेण विभज्यते। नोबेल्-पुरस्कारविजेतृभ्यः प्रशस्तिपत्रं पदकं च अपि प्रदास्यते।
त्रिभ्यः वैज्ञानिकेभ्यः “प्रकाश-सक्रिय-आयन-मार्गिकाणां तथा प्रकाशानु-वंशिकीसम्बद्धानां अन्वेषणानाम्” कृते संयुक्तरूपेण अयं पुरस्कारः प्रदास्यते। प्रकाशानुवंशिकी नाम एषा प्रौद्योगिकी अस्ति, यस्यां प्रकाशस्य साहाय्येन तन्त्रिकाकोशिकानां क्रियाकलापं नियन्त्रयितुं शक्यते। अस्याः माध्यमेन तन्त्रिकाकोशिकाः सक्रियाः अथवा निष्क्रियाः कर्तुं शक्यन्ते। पीटरहेगेमन् तथा जॉर्जनागेल: इत्येताभ्यां चैनलरोडोप्सिन-प्रोटीन इत्यस्य अन्वेषणं कृतम्। ततः कार्ल डाइसेरोथेन् एतत् प्रोटीन तन्त्रिकाकोशिकानां कृते प्रकाशनियन्त्रिते स्विच-रूपे परिणतम्।
कैरोलिन्स्का-संस्थानस्थया नोबेल-सभया प्रकाशिते निवेदने उक्तं यत् एते पुरस्कारविजेतारः तन्त्रिकाविज्ञानस्य नूतनयुगस्य आधारं स्थापितवन्तः। चिकित्साशास्त्रस्य नोबेल्-समित्याः अध्यक्षः पेर स्वेन्सन्सन् अवदत्, “प्रकाशा-नुवंशिकी मस्तिष्कस्य मानचित्रणस्य तादृशान् अवसरान् प्रददाति, येषां विषये वयं पूर्वं केवलं कल्पनां कर्तुं शक्नुमः स्म।”
कार्ल् डाइसेरोथ् स्टैनफोर्ड्-विश्वविद्यालये जैव-अभियांत्रिक्याः तथा मनोचिकित्सायाः व्यवहारविज्ञानस्य च डी.एच्. चेन-प्राध्यापकः अस्ति। सः हॉवर्डह्यूज-चिकित्सा-संस्थाने अन्वेषकः अपि अस्ति। डाइसेरोथेन् हार्वर्ड्-विश्वविद्यालयात् स्नातक-उपाधिः तथा स्टैनफोर्ड्-विश्वविद्यालयात् विद्यावारिधि-उपाधिः चिकित्साविज्ञानस्य उपाधिः च प्राप्ताः। तेन स्टैनफोर्ड्-विश्वविद्यालये एव विद्यावारिध्योत्तर-प्रशिक्षणं, चिकित्सकीय-अन्तर्वासित्वं तथा प्रौढ-मनोचिकित्सायां विशेषज्ञ-प्रशिक्षणं पूर्णम्। सः अमेरिकीय-मनोचिकित्सा-तन्त्रिकाविज्ञान-मण्डलेन प्रमाणितः विशेषज्ञः अस्ति।
पीटरहेगेमन् जर्मनीदेशस्य बर्लिन्-नगरे स्थितस्य हम्बोल्ट-बर्लिन-विश्व-विद्यालयस्य जीवनविज्ञान-संकायस्य जीवविज्ञान-विभागे तन्त्रिकाविज्ञानस्य हर्टी-वरिष्ठ-अनुसन्धान-अध्यक्षः तथा प्रायोगिक-जैवभौतिकीशास्त्रस्य प्राध्यापकः अस्ति। तेन जैवरसायन-शास्त्रस्य मैक्स प्लांक-संस्थानात् विद्यावारिधि-उपाधिः प्राप्ता तथा सिराक्यूज-विश्वविद्यालये विद्यावारि-ध्योत्तर-अनुसन्धानं पूर्णम्।
जॉर्ज् नागेल् जर्मनीदेशस्य वुर्जबर्ग्-विश्वविद्यालयस्य वनस्पतिविज्ञान-विभागे आणविक-वनस्पति-शरीरक्रियाविज्ञानस्य तथा जैवभौतिकीशास्त्रस्य प्राध्यापकः अस्ति। तेन १९८८ तमे वर्षे फ्राङ्कफर्ट-विश्वविद्यालयात् विद्यावारिधि-उपाधिः प्राप्ता। सः मैक्स् प्लांक्-जैवभौतिकी-संस्थाने अपि कार्यं कृतवान्। तदतिरिक्तं येल-विश्वविद्यालये तथा रॉकफेलर-विश्वविद्यालये विद्यावारिध्योत्तर-अनु-सन्धानवृत्तिधारकरूपेण कार्यं कृतवान्।
स्वीडनदेशस्य बहुमुखप्रतिभासम्पन्नेन वैज्ञानिकेन, उद्योगपतिना तथा डायनामाइट्-विस्फोटकस्य आविष्कर्त्रा अल्फ्रेड् नोबेल् इत्यनेन १८९५ तमे वर्षे स्वकीयायां वसीयतपत्रे स्वस्य अधिकांश-सम्पत्त्या पञ्च पुरस्काराणां स्थापनायाः व्यवस्था कृता। एते पुरस्काराः भौतिकशास्त्रे, रसायनशास्त्रे, शरीरक्रिया-विज्ञाने अथवा चिकित्साशास्त्रे, साहित्ये तथा शान्तेः क्षेत्रे प्रदीयन्ते।
नोबेल् स्वस्य वसीयतपत्रे एते पुरस्काराः तेभ्यः व्यक्तिभ्यः प्रदातुं इच्छा व्यक्तवान्, ये मानवतायै सर्वाधिकं लाभं प्रदत्तवन्तः। अनन्तरं १९६८ तमे वर्षे षष्ठः पुरस्कारः स्थापितः। यद्यपि तान्त्रिकरूपेण सः नोबेल-पुरस्कारः न मन्यते। तस्य आधिकारिकं नाम “अल्फ्रेड् नोबेलस्य स्मृतौ आर्थिकशास्त्राय स्वेरिगेस: रिक्सबाङ्क-पुरस्कारः” इति अस्ति।
नोबेल-सभायाः अनुसारं शरीरक्रिया-विज्ञानस्य अथवा चिकित्साशास्त्रस्य क्षेत्रे नोबेल-पुरस्कारः १९०१ तमात् २०२६ तमं वर्षं यावत् ११७ वारं प्रदत्तः अस्ति तथा च २३५ विजेतारः पुरस्कृताः सन्ति।
Hindusthan Samachar / Divya Ranjan