Enter your Email Address to subscribe to our newsletters

औरैया, ५ अक्टोबरमासः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे अट्सू-नगरे षड्-अक्टोबरमासे प्रस्तावितस्य पीडीए-जनचौपालस्य सफलतायै समाजवादी-पक्षस्य पदाधिकारिणः कार्यकर्तारश्च ग्रामेषु जनसम्पर्के संलग्ना: सन्ति। सोमवासरे अजीतमलक्षेत्रस्य अनेकग्रामेषु भ्रमणं कृत्वा ग्रामीणैः सह संवादः कृतः तथा च जनचौपाले अधिकाधिकसंख्यया उपस्थितुं तेषाम् आह्वानं कृतम्।
कार्यक्रमे पूर्वमन्त्री अवधेशकुमारवर्मा तथा आलोककुमारशाक्यः मुख्यातिथिरूपेण सम्मिलितौ भविष्यतः। पीडीए-जन-चौपालस्य सज्जतां दृष्ट्वा कार्यकर्तृभिः कुल्हुरुआ, चावरपुर, राउपुर, आलमगीरपुर, जानिशनगर, तेज का पुरवा, चकसत्तापुर, पुरवा हरसहाय, लालपुर, कल्ले का पुरवा, मोद्दीनपुर तथा अट्सू इत्येतेषु ग्रामेष्वपि जनसम्पर्कः कृतः।
Hindusthan Samachar / Divya Ranjan