कुम्भमेलाः २०२७ : द्वात्रिंशत्सु सेक्टरेषु त्रयोदशसहस्रं शौचालयानि, स्वच्छतायै एकीकृता कार्ययोजना सज्जीकृता।
हरिद्वारम्, 05 अक्टूबरमासः (हि.स.)। कुम्भमेलापके २०२७ स्वच्छतायाः सेनिटेशनव्यवस्थायाश्च व्यापकव्यवस्थापनाय शासनस्तरे सज्जताः तीव्रतया प्रचलन्ति। नगरीयविकासविभागस्य सचिवः नितेशकुमारझा सोमवासरे मेलानियन्त्रणभवने कुम्भक्षेत्रस्य नगरनिकायानां, जिलाप
बैठक में मौजूद सचिव शहरी विकास, मेलाधिकारी व जिलाधिकारी


हरिद्वारम्, 05 अक्टूबरमासः (हि.स.)।

कुम्भमेलापके २०२७ स्वच्छतायाः सेनिटेशनव्यवस्थायाश्च व्यापकव्यवस्थापनाय शासनस्तरे सज्जताः तीव्रतया प्रचलन्ति। नगरीयविकासविभागस्य सचिवः नितेशकुमारझा सोमवासरे मेलानियन्त्रणभवने कुम्भक्षेत्रस्य नगरनिकायानां, जिलापञ्चायतीनां, पञ्चायतीराजविभागस्य च अधिकारिभिः सह उपवेशनं कृतवान्। तेन एकीकृतां सेनिटेशनकार्ययोजनां सप्ताहाभ्यन्तरे अन्तिमरूपं दत्त्वा प्रस्तुतुं निर्देशाः प्रदत्ताः।

सचिवः अवदत् यत् स्वच्छताव्यवस्थायाः ऑनलाइनमाध्यमेन निरीक्षणं भविष्यति। अस्य कृते नगरीयविकासविभागस्य डैशबोर्डमध्ये सर्वे नगरनिकायाः मानचित्रे संयोजयिष्यन्ते। कार्ययोजनायां मेलायाः पूर्वं पश्चात् च क्रियमाणाः व्यवस्थाः स्पष्टतया समावेश्याः। मानवसंसाधनस्य उपकरणानां सामग्रीनां च सज्जता अधुनैव सुनिश्चितव्या।

सेनिटेशनयोजनायाः क्रियान्वयनाय नगरायुक्तः नन्दनकुमारः समन्वयाधिकारी नियुक्तः अस्ति। सर्वे विभागाः स्वकीयां प्रगतिवृत्तान्तं तस्मै प्रदास्यन्ति।

नगरायुक्तेन प्रस्तुतिकरणे कथितं यत् कुम्भक्षेत्रस्य द्वात्रिंशत्सु सेक्टरेषु त्रयोदशसहस्राधिकाष्टशतषट्षष्टिः शौचालयासनानि, अष्टसहस्राधिकपञ्चषष्ट्यधिकानि एफआरपीमूत्रालयानि, चतुर्सहस्राधिकाष्टशतचत्वारिंशत् कूड़ापात्राणि च स्थापितानि भविष्यन्ति। स्वच्छतायै ४९३ वाहनानि प्रयुज्यन्ते। मलजलनिस्तारणाय षट् एफएसटीपी-संयन्त्राणि प्रयुज्यन्ते। दिसम्बरमासात् स्वच्छताकर्मचारिणां नियुक्तिः प्रारप्स्यते।

उपवेशने मेलाधिकारी सोनिका, कुम्भस्य पुलिसमहानिरीक्षकः योगेन्द्ररावतः, जिलाधिकारी मयूरदीक्षितः इत्यादयः चतुराणां जनपदानां अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani