Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ६ अक्तूबरमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्रमोदिनः शासनाध्यक्षरूपेण कार्यकालस्य पञ्चविंशतिवर्षाणां पूर्त्यवसरे बुधवासरे अत्र इन्दिरागान्धी-अन्तःक्रीडाङ्गणे भव्यः कार्यक्रमः आयोजयिष्यते। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी तथा भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः सम्मिलितौ भविष्यतः।
भारतीयजनतापक्षः राष्ट्रव्यापिनः ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं विविधाः कार्यक्रमाः आयोजयति। अस्य अभियानस्य अन्तर्गतायां राजधानी नवदेहल्यां, प्रधानमन्त्रीमोदिनः लोकसभाक्षेत्रे वाराणस्यां तथा तस्य जन्मस्थाने वडनगरे विशेषकार्यक्रमाः आयोजयिष्यन्ते।
प्रधानमन्त्री नरेन्द्रमोदी ७ अक्तूबर २००१ तमे वर्षे गुजरातराज्यस्य मुख्यमन्त्रिरूपेण शपथं गृहीतवान्। प्रायः त्रयोदशवर्षाणां मुख्यमन्त्रित्वकालानन्तरं सः २०१४ तमे वर्षे भारतस्य प्रधानमन्त्री अभवत्। अनेन प्रकारेण शासनाध्यक्षरूपेण तस्य सार्वजनिकजीवनस्य पञ्चविंशतिवर्षाणि पूर्णानि भवन्ति।
अस्मिन् प्रसङ्गे नवदेहल्यां मुख्यकार्यक्रमः इन्दिरागान्धी-अन्तःक्रीडाङ्गणे आयोजयिष्यते। अस्मिन् कार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी तथा भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः उपस्थितौ भविष्यतः। अपरत्र गुरुग्रामनगरे आयोजिते कार्यक्रमे केन्द्रीयगृहमन्त्री अमितशाहः सेवायात्रायाः नेतृत्वं करिष्यति।
सूत्राणाम् अनुसारं प्रधानमन्त्रिणो मोदिनः लोकसभाक्षेत्रे वाराणस्यामपि ७ अक्तूबर दिनाङ्के भव्यः कार्यक्रमः आयोजयिष्यते। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः नवदिल्ल्यां कार्यक्रमस्य अनन्तरं सायंकाले काशीम् आगमिष्यति तथा पक्षस्य कार्यकर्तृभिः सह आयोजिते कार्यक्रमे भागं ग्रहीष्यति। वाराणस्यां नितिननवीनेन सह उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, असमस्य मुख्यमन्त्री हिमन्तबिस्वसर्मा तथा भारतीयजनतायुवामोर्चायाः राष्ट्रियाध्यक्षः हेमाङ्गजोशी च उपस्थिताः भविष्यन्ति। वाराणस्यां आयोज्यमाने जनसभास्थले बहुसंख्यकाः पक्षकार्यकर्तारः सेवासङ्कल्पयात्रायां सम्मिलिताः प्रतिभागिनश्च समागमिष्यन्ति।
वाराणसीं प्रति गच्छन्त्याः सेवासङ्कल्पयात्रायाः महत्त्वपूर्णः भागः वडनगरतः काशीपर्यन्तं यात्रा अस्ति। प्रायः पञ्चशतं प्रतिभागिनः काशीम् आगत्य बाबा विश्वनाथमन्दिरे जलाभिषेकं करिष्यन्ति। तदनन्तरं जगत्पुरे जनसभा आयोजयिष्यते। वडनगरं वाराणसीं च संयोजयन्ती सेवासङ्कल्पयात्रा प्रधानमन्त्रिणो मोदिनः जन्मस्थानस्य तस्य च लोकसभाक्षेत्रस्य मध्ये प्रतीकात्मकं सम्बन्धं प्रदर्शयतीति मन्यते। उभयदिशाभ्यां प्रचलिते यात्रे ७ अक्तूबर दिनाङ्के स्वस्वगन्तव्यस्थानं प्राप्स्यतः।
सूत्राणामनुसारं प्रधानमन्त्रिणं मोदिनः जन्मभूमौ वडनगरेऽपि ७ अक्तूबर दिनाङ्के सेवासङ्कल्पाभियानस्य अन्तर्गतं कार्यक्रमः आयोजयिष्यते। तत्र केन्द्रीयमन्त्री शिवराजसिंहचौहानः, गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः, पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दुअधिकारी तथा गुजरातस्य उपमुख्यमन्त्री हर्षसङ्घवी च उपस्थिताः भविष्यन्ति।
प्रधानमन्त्री नरेन्द्रमोदी दृक्श्राव्यमाध्यमेन वाराणस्यां वडनगरे च आयोजिताभ्यां कार्यक्रमाभ्यां सम्बद्धो भविष्यति। अस्मिन् प्रसङ्गे तस्य पञ्चविंशतिवर्षीयं सार्वजनिकजीवनं केन्द्रे स्थापयित्वा सेवा, सङ्गठनं जनसहभागिता च सम्बद्धाः विविधाः कार्यक्रमाः विशेषतया रेखाङ्कयिष्यन्ते।
भारतीयजनतापक्षेण प्रधानमन्त्रिणो मोदिनः सार्वजनिकजीवनस्य पञ्चविंशतिवर्षाणां पूर्त्यवसरे १७ सितम्बर दिनाङ्कतः ‘सेवासङ्कल्पाभियानम्’ प्रारब्धम्। अभियानस्य अन्तर्गते सम्पूर्णे देशे सेवाकार्यक्रमाः, जनसम्पर्ककार्यक्रमाः तथा विविधाः यात्राः आयोज्यन्ते।
Hindusthan Samachar / Sachin Budhauliya