निजीक्षेत्रस्य बङ्काः शासकीयवित्तीयसमावेशनयोजनासु स्वसहभागितां वर्धयेयुः — वित्तमन्त्रालयः।
नव दिल्ली, 06 अक्टूबरमासः (हि.स.)। वित्तमन्त्रालयेन मङ्गलवासरे निजीक्षेत्रस्य बङ्केभ्यः प्रधानमन्त्रिमुद्रायोजनायाः तथा स्टैण्डअप-इण्डिया इत्यादीनां वित्तीयसमावेशनयोजनानां प्रति स्वसहभागितां वर्धयितुं कथितम्। सभायां बङ्केभ्यः अङ्कीयपहुंचं वर्धयित
डीएफएस सचिव संजय लोहिया की अध्यक्षता में निजी एवं सरकारी बैंक प्रमख की बैठक का जारी तस्वीर


डीएफएस सचिव संजय लोहिया की अध्यक्षता में निजी एवं सरकारी बैंक प्रमख की बैठक का जारी तस्वीर


नव दिल्ली, 06 अक्टूबरमासः (हि.स.)।

वित्तमन्त्रालयेन मङ्गलवासरे निजीक्षेत्रस्य बङ्केभ्यः प्रधानमन्त्रिमुद्रायोजनायाः तथा स्टैण्डअप-इण्डिया इत्यादीनां वित्तीयसमावेशनयोजनानां प्रति स्वसहभागितां वर्धयितुं कथितम्। सभायां बङ्केभ्यः अङ्कीयपहुंचं वर्धयितुं ऋणप्रदानस्य आदितः अन्तपर्यन्तं अङ्कीयप्रक्रियायां च विशेषं ध्यानं दातुम् आग्रहः कृतः।

वित्तमन्त्रालयेन प्रकाशिते निवेदने उक्तं यत् वित्तीयसेवाविभागस्य सचिवस्य सञ्जयलोहियस्य अध्यक्षतायां अत्र उच्चस्तरीया समीक्षासभा अभवत्। सभायां निजीक्षेत्रस्य बङ्केभ्यः शासकीयवित्तीयसमावेशनयोजनासु स्वसहभागितां अङ्कीयपहुंचं च शीघ्रतया वर्धयितुं निर्देशः प्रदत्तः।

वित्तीयसेवाविभागस्य सचिवः सञ्जयलोहियः सार्वजनिकक्षेत्रस्य सर्वेषां बङ्कानां प्रमुखैः निजीक्षेत्रस्य प्रमुखबङ्कानां अधिकारिभिश्च सह समीक्षासभां कृतवान्। सः बङ्केभ्यः अक्टोबरमासस्य एकविंशतितः दिसम्बरमासस्य एकत्रिंशद्दिनाङ्कपर्यन्तं प्रचलिष्यमाणे आगामी वित्तीयसमावेशनपरिपूर्त्यभियाने पूर्णोत्साहेन सहभागितां कर्तुम् आग्रहं कृतवान्।

सञ्जयलोहियः निजीक्षेत्रस्य बङ्केभ्यः समाजस्य वञ्चितवर्गाणां सेवायै तेषां बैंकिङ्गसम्बद्धानां आवश्यकतानां पूर्तये च अधिकं ध्यानं दातुम् उक्तवान्। सभायां प्रधानमन्त्रिजनधनयोजना, प्रधानमन्त्रिजीवनज्योतिबीमायोजना, प्रधानमन्त्रिसुरक्षाबीमायोजना, अटलपेन्शनयोजना, प्रधानमन्त्रिमुद्रायोजना इत्यादीनां विभिन्नानां वित्तीयसमावेशनयोजनानाम् अन्तर्गतं प्राप्तस्य प्रगतेः समीक्षा कृता।

मन्त्रालयस्य अनुसारं सभायां स्टैण्डअप-इण्डिया, प्रधानमन्त्रिस्वनिधियोजना, प्रधानमन्त्रिविश्वकर्मायोजना, प्रधानमन्त्रिसूर्यघरीयोजना, किसानक्रेडिटकार्ड इत्यादीनां योजनानां प्रगतेः अपि समीक्षा कृता। तदतिरिक्तं ग्रामेषु बङ्कमित्राणां नियुक्तेः पारम्परिकबङ्कशाखानां स्थापनायाश्च समीक्षा कृता।

तदनन्तरं लोहियः निजीक्षेत्रस्य बङ्केभ्यः वित्तीयसमावेशनयोजनासु स्वसहभागितां अधिकाधिकं वर्धयितुम् आग्रहं कृतवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani