Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 06 अक्टूबरमासः (हि.स.)।
व्यापारिकसङ्गठनस्य कन्फेडरेशन ऑफ ऑल इण्डिया ट्रेडर्स इत्यस्य राष्ट्रियमहासचिवः चान्दनीचौक्-क्षेत्रस्य सांसदश्च प्रवीणखण्डेलवालः केन्द्रीयमन्त्रिमण्डलेन एकीकृतपरिवहनं रसदव्यवस्थां च सम्बद्धस्य प्राधिकरणस्य अर्थात् इंटीग्रेटेड ट्रांसपोर्ट एण्ड लॉजिस्टिक्स अथॉरिटी इत्यस्य विशेषप्रयोजनसंस्थायाः गठनाय अनुमोदनं प्रदत्तमित्यस्य स्वागतं कृतवान्। तेन एतत् विकसितभारतस्य, गतिशक्तेः, व्यापारसौकर्यस्य च दृष्टिकोणं सुदृढं कुर्वन् ऐतिहासिकः निर्णयः इति वर्णितम्।
सः अवदत् यत् अनेन देशस्य व्यापाराय उद्योगाय च महत् लाभं भविष्यति। भारतस्य आर्थिकप्रतिस्पर्धाक्षमतां वर्धयितुं, आपूर्तिशृङ्खलां अधिकं कार्यक्षमां कर्तुं तथा परिवहनस्य रसदव्यवस्थायाश्च क्षेत्रे उत्तमं समन्वयं स्थापयितुं एतत् पदं अत्यन्तं महत्त्वपूर्णम् अस्ति।
कैट् इत्यस्य महासचिवः अवदत् यत् वर्तमानकाले देशे मार्गपरिवहनस्य, रेलपरिवहनस्य, बन्दरगाहानां, विमानपरिवहनस्य, भाण्डागारव्यवस्थायाश्च सम्बद्धानां विभिन्नविभागानां संस्थानां च मध्ये समन्वयस्य आवश्यकता दीर्घकालात् अनुभूयमाना आसीत्। अतः एकीकृतपरिवहनं रसदप्राधिकरणस्य च गठनम् अस्मिन् दिशि प्रभावशालिनीं आधारभूतसंरचनाव्यवस्थां प्रदास्यति।
सः अवदत् यत् भारतस्य रसदव्ययः वैश्विकमानकानुरूपं न्यूनः करणीयः इति वर्तमानसमये महती आवश्यकता अस्ति। रसदव्यये न्यूनीकृते भारतीयोत्पादाः स्वदेशीयेषु अन्तर्राष्ट्रीयेषु च विपणिषु अधिकप्रतिस्पर्धाक्षमाः भविष्यन्ति, निर्यातः वर्धिष्यते, व्यापारस्य उद्योगानां च कार्यक्षमतायां उल्लेखनीयः सुधारः भविष्यति। अनेन विशेषतः सूक्ष्मलघुमध्यमोद्यमेभ्यः, लघुउद्योगेभ्यः, नवोन्मेषोद्यमेभ्यः, कृषकेभ्यः, व्यापारिभ्यश्च महत् लाभं भविष्यति।
सः विश्वासं प्रकटितवान् यत् एकीकृतपरिवहनं रसदप्राधिकरणं देशे मालपरिवहनं अधिकं शीघ्रं, सुलभं, कार्यक्षमं च करिष्यति। अनेन व्यापारस्य व्ययः न्यूनीभविष्यति, निवेशः आकर्षितः भविष्यति, रोजगारस्य नूतनाः अवसराः सृजिष्यन्ते तथा भारतं वैश्विकविनिर्माणस्य व्यापारस्य च केन्द्रं कर्तुं निर्धारितस्य लक्ष्यस्य सुदृढीकरणं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani