मोदीन: सर्वकारप्रमुखरूपेण २५ वर्षाणि पूर्णानि, मन्त्रिमण्डलेन अभिनन्दनप्रस्तावः पारितः
नवदिल्ली, ६ अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य मुख्यमन्त्रिरूपेण ततः प्रधानमन्त्रिरूपेण च सरकारप्रमुखस्य दायित्वे २५ वर्षाणि पूर्णं कृतवान्। अस्मिन् अवसरे केन्द्रीय-मन्त्रिमण्डलेन तस्य अभिनन्दनार्थम् एकः प्रस्तावः पारितः। मोद
केंद्रीय सूचना एवं प्रसारण मंत्री अश्विनी वैष्णव मंगलवार को राष्ट्रीय मीडिया केंद्र में पत्रकार वार्ता कों संबोधित करते हुए


नवदिल्ली, ६ अक्टोबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुजरातस्य मुख्यमन्त्रिरूपेण ततः प्रधानमन्त्रिरूपेण च सरकारप्रमुखस्य दायित्वे २५ वर्षाणि पूर्णं कृतवान्। अस्मिन् अवसरे केन्द्रीय-मन्त्रिमण्डलेन तस्य अभिनन्दनार्थम् एकः प्रस्तावः पारितः। मोदी २००१ तमस्य वर्षस्य ७ अक्टोबरदिनाङ्कात् २०२६ तमस्य वर्षस्य ७ अक्टोबरदिनाङ्कं यावत् निरन्तरं २५ वर्षाणि सरकारप्रमुखरूपेण स्वसेवां पूर्णं करिष्यति।

केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनीवैष्णवः मङ्गलवासरे राष्ट्रिय-माध्यमकेन्द्रे आयोजितायां पत्रकारवार्तायाम् एतत् विवरणम् अददात्। सः अवदत् यत् प्रधानमन्त्री मोदी २५ वर्षाणां सेवा भारतीयलोकतन्त्रस्य शक्तेः सजीवतायाश्च प्रमाणम् अस्ति।

मन्त्री अवदत् यत् सामान्यपरिवारात् आगतः कश्चित् जनः देशसेवायै समर्पितः भवेत् तथा च जनाः तस्मै निरन्तरं समर्थनं ददति, इति भारतीयलोकतन्त्रस्य सुदृढतायाः महत्त्वपूर्णम् उदाहरणम् अस्ति। मोदीं प्रति जनानां समर्थनं तस्य कार्यपद्धतेः, नीतिनां, निष्ठायाश्च कारणेन प्राप्तम् अस्ति।

वैष्णवः अवदत् यत् गुजरातराज्ये त्रिवारं प्राप्तानि प्रचण्डानि जनादेशानि तथा प्रधानमन्त्रिरूपेण त्रिषु लोकसभा-निर्वाचनेषु निरन्तरं प्राप्तम् ऐतिहासिकं समर्थनम् एतस्य विश्वासस्य प्रतीकम् अस्ति। सः अवदत् यत् मोदी २५ वर्षाणां अवधौ गुजराततः केन्द्र-सर्वकारपर्यन्तं विकासस्य दृष्टिकोणं विस्तारितवान्।

मन्त्रिमण्डलस्य प्रस्तावस्य प्रमुखांशान् निर्दिशन् वैष्णवः अवदत् यत् प्रस्तावे संवेदनशीलतायाः सशक्तीकरणस्य च, सुधाराणाम् अग्रे प्रवर्धनस्य, आत्मनिर्भर-भारतस्य निर्माणस्य, प्रौद्योगिक्याः नागरिकसुविधायाः साधनरूपेण उपयोगस्य तथा निर्णायकनीतिनिर्णयानां च विशेषतया उल्लेखः कृतः अस्ति।

वैष्णवः अवदत् यत् मोदीसर्वकारस्य कार्यकाले २५ कोट्यधिकाः जनाः दारिद्र्यात् बहिः नीताः, वस्तूनां सेवायाश्च करः (जीएसटी) प्रवर्तितः तथा अनुच्छेदस्य ३७० इत्यस्य प्रावधानानि निरस्तानि। आधारभूतसंरचनायाः विकासमपि सः सर्वकारस्य प्रमुखासु उपलब्धिषु अन्तर्भुक्तवान्।

प्रस्तावे देशस्य आत्मविश्वासवर्धनस्य, आन्तरिक-बाह्यसुरक्षायाः सुदृढीकरणस्य तथा विश्वे भारतस्य स्वरस्य सुदृढीकरणस्य दिशि कृतानां कार्याणामपि उल्लेखः अस्ति। सः अवदत् यत् अधुना भारतं विश्वसनीयदेशरूपेण दृश्यते।

मन्त्री अवदत् यत् विकासेन सह देशस्य परम्परां दायित्वबोधं च अग्रे वर्धयितुम् अपि प्रधानमन्त्री मोदीन: २५ वर्षाणां सार्वजनिकजीवनस्य प्रमुखेषु वैशिष्ट्येषु अन्यतमम् अस्ति।

Hindusthan Samachar / Divya Ranjan