तेजस्वीयादवस्य नेतृत्वे मार्गेषु अवतरिष्यति इण्डिया-महागठबन्धनम् : डॉ. चक्रपाणिः
भागलपुरम्, ६ अक्टोबरमासः (हि.स.)। बिहारराज्यस्य बालश्रमिक-आयोगस्य पूर्वाध्यक्षः डॉ. चक्रपाणि हिमांशुः मङ्गलवासरे पत्रकारविज्ञप्तिं निर्गत्य केन्द्रसर्वकारस्य निर्वाचनायोगस्य च विरुद्धं बृहद्-आन्दोलनस्य घोषणां कृतवान्। तेन उक्तं यत् बिहार-विधानसभाया
डॉ चक्रपाणि हिमांशु


भागलपुरम्, ६ अक्टोबरमासः (हि.स.)। बिहारराज्यस्य बालश्रमिक-आयोगस्य पूर्वाध्यक्षः डॉ. चक्रपाणि हिमांशुः मङ्गलवासरे पत्रकारविज्ञप्तिं निर्गत्य केन्द्रसर्वकारस्य निर्वाचनायोगस्य च विरुद्धं बृहद्-आन्दोलनस्य घोषणां कृतवान्। तेन उक्तं यत् बिहार-विधानसभायाः विपक्षनेतुः पूर्वोप-मुख्यमन्त्रिणः तेजस्वीप्रसादयादवस्य नेतृत्वे २०२६ तमस्य वर्षस्य अक्टोबरमासस्य ७, ८ दिनाङ्कयोः सम्पूर्णे राज्ये इण्डिया-महागठबन्धनेन व्यापकम् आन्दोलनं क्रियते।

डॉ. हिमांशुः अवदत् यत् देशे लोकतन्त्रस्य रक्षणाय निरङ्कुशशक्तिनां सत्ताच्युतये च एष: निर्णायकः सङ्घर्षः प्रारभ्यते। आन्दोलनस्य अन्तर्गतं प्रधानमन्त्रिणः नरेन्द्रमोदिनः, केन्द्रीयगृहमन्त्रिणः अमित-शाहस्य, मुख्यनिर्वाचनायुक्तस्य ज्ञानेश-कुमारस्य च प्रतिमूर्तिनां दहनं करिष्यते।

अक्टोबरमासस्य ७ दिनाङ्के बिहारस्य सर्वेषु प्रखण्डमुख्यालयेषु तीव्रप्रदर्शनानि प्रतिमूर्तिदहनं च आयोजयिष्यन्ते। ८ दिनाङ्के राज्यस्य सर्वेषु जनपद-मुख्यालयेषु विरोधप्रदर्शनानि भविष्यन्ति। राजधानीपटने च ‘लोकतन्त्ररक्षा-पदयात्रा’ आयोजयिष्यते। एषा यात्रा ऐतिहासिकात् शहीदस्मारकात् प्रारभ्य महामहिम-राज्यपालस्य निवास-स्थानं राजभवनं यावत् गमिष्यति।

अस्मिन् महाऽऽन्दोलने ‘लोकतन्त्ररक्षा-पदयात्रायां’ च इण्डिया-महागठबन्धनस्य सर्वे विधायकाः, पूर्वविधायकाः, प्रदेश-पदाधिकारिणः, जनपदाध्यक्षाः, गठ-बन्धनस्य सर्वे प्रमुखाः वरिष्ठनेतारश्च एकतया भागं ग्रहीष्यन्ति। डॉ. चक्रपाणिः उक्तवान् यत् देशे लोकतन्त्रं दमनं कुर्वतीनां शक्तिनां विरुद्धम् एतद् आन्दोलनम् ऐतिहासिकं मीलस्तम्भं सिद्धं भविष्यति।

Hindusthan Samachar / Divya Ranjan