सेवाज्योतिः-कलशयात्रायाः जनपदस्तरीयम् आयोजनं श्वः रामलीलाप्रांगणे
जोधपुरम्, ६ अक्टोबरमासः (हि.स.)। राज्यसर्वकारस्य निर्देशानुसारं विकसित-भारत-जनसेवा-अभियानस्य अन्तर्गतं जनसेवायाः, सामाजिक-दायित्वस्य सुशासनभावनायाश्च सुदृढी-करणस्य उद्देश्येन जनपदस्तरीया सेवाज्योतिः-कलशयात्रा ७ अक्टोबर-दिनाङ्के द्वादशमार्गस्थिते रा
jodhpur


जोधपुरम्, ६ अक्टोबरमासः (हि.स.)। राज्यसर्वकारस्य निर्देशानुसारं विकसित-भारत-जनसेवा-अभियानस्य अन्तर्गतं जनसेवायाः, सामाजिक-दायित्वस्य सुशासनभावनायाश्च सुदृढी-करणस्य उद्देश्येन जनपदस्तरीया सेवाज्योतिः-कलशयात्रा ७ अक्टोबर-दिनाङ्के द्वादशमार्गस्थिते रामलीलाप्रांगणे आयोजयिष्यते। कार्यक्रमः प्रातः ९ वादने भविष्यति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी आभासीय-माध्यमेन कार्यक्रमं सम्बोधयिष्यति।

अभियानस्य उद्देशः जनकल्याणकारी-योजनानां विकासगतिविधीनां च सूचनां व्यापकस्तरे जनसामान्यं प्रति प्रापयितुं तथा विकसितभारत-विकसितराज-स्थानस्य संकल्पस्य दिशि जनसहभागितां सुदृढां कर्तुम् अस्ति। अभियाने कृषकै:, महिलाभि:, युवभि: सह विभिन्नवर्गाणां सक्रिय-सहभागिता भविष्यति। कार्यक्रमस्य अवधौ पर्यटनविभागस्य राजस्थान-सङ्गीत-नाटक-अकादम्याः च सहयोगेन सांस्कृतिकप्रस्तुतयः आयोजयिष्यन्ते। सूचनाप्रौद्योगिकीविभागेन प्रधानमन्त्रिणः सम्बोधनस्य सजीवप्रसारणाय एलईडी-भित्तिसहिताः आवश्यकाः तकनीकी-व्यवस्थाः सुनिश्चिताः क्रियन्ते।

जनपदाधिकारिणः आलोक रञ्जनस्य निर्देशनुसारं कार्यक्रमस्य सुचारुरूपेण सफलतया च आयोजनाय सम्बन्धित-विभागेभ्यः आवश्यकदायित्वानि समर्पितानि सन्ति। जोधपुरविकास-प्राधिकरणं, नगरनिगमः, पुलिस-आयुक्तालयः, चिकित्सास्वास्थ्यविभागः, शिक्षाविभागः तथा परिवहनविभागः सहितेभ्यः सम्बन्धितविभागेभ्यः सुरक्षायाः, विधिव्यवस्थायाः, यातायातव्यवस्थायाः, पेयजलस्य, अल्पाहारस्य, स्वच्छतायाः, रुग्णवाहिकायाः च आवश्यकव्यवस्थाः सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः सन्ति।

Hindusthan Samachar / Divya Ranjan