Enter your Email Address to subscribe to our newsletters

ऋषिकेश:, ६ अक्टोबरमासः (हि.स.)। भारतस्य सनातनज्ञानपरम्परायाः, संस्कृतेः अध्यात्मस्य च सम्बन्धिनः महत्त्वपूर्ण-ग्रन्थस्य ‘हिन्दूधर्मविश्वकोशस्य’ सर्वे ११ खण्डाः भारतस्य पूर्वोपपराष्ट्रपतये जगदीपधनखडाय अद्य मङ्गलवासरे अत्र परमार्थनिकेतने समर्पिताः।
परमार्थनिकेतनस्य अध्यक्षः तथा इण्डियाहेरिटेजरिसर्चफाउण्डेशन इत्यस्य संस्थापकाध्यक्षः स्वामी चिदानन्दसरस्वती साध्वी भगवतीसरस्वती च धनखड़ाय एतान् खण्डान् समर्पितवन्तौ। अस्मिन् अवसरे धनखड़ः सपत्नीकः सपरिवारं च परमार्थनिकेतने आयोजिते विश्वशान्ति-यज्ञेऽपि भागं गृहीतवान्।
परमार्थनिकेतनस्य अनुसारं ‘हिन्दूधर्म-विश्वकोशे’ भारतीयसभ्यता, दर्शनम्, अध्यात्म, इतिहासः, विज्ञानम्, कला, स्थापत्यं, संस्कृतिः परम्पराश्च इत्येतैः सम्बद्धाः प्रायः ७,००० प्रविष्टयः समाविष्टाः सन्ति। अस्य निर्माणे विश्वस्य विभिन्न-भागेभ्यः आगतानां १,००० अधिकानां विदुषां योगदानम् अस्ति।
अस्मिन् अवसरे स्वामी चिदानन्दसरस्वती अवदत् यत् १९८७ तमे वर्षे हिन्दुधर्मस्य भारतीयज्ञानपरम्परायाश्च प्रामाणिक-विश्वकोशस्य आवश्यकतायाः सङ्कल्पः कृतः आसीत्। द्विदशकाधिक-कालं यावत् प्रवृत्तस्य अनुसन्धानस्य, सम्पादनस्य, सङ्कलनस्य विदुषां सहयोगस्य च अनन्तरम् एतत् कार्यं ११ खण्डरूपेण समुपस्थितम् अभवत्। साध्वी भगवतीसरस्वत्याः अपि अस्य अनुसन्धान-सम्पादनयोः, समन्वये सङ्कलने च योगदानम् अस्ति।
सः अवदत् यत् अस्य विश्वकोशस्य उद्देश्यं हिन्दुधर्मं केवलं धार्मिकपरम्परारूपेण प्रस्तोतुं न, अपितु भारतस्य व्यापकां ज्ञानसंस्कृतिं सभ्यतां च शैक्षणिक-अनुसन्धानपरकदृष्ट्या प्रस्तुतुम् अस्ति। सः अस्य विश्वकोशस्य भारतीयसांस्कृतिक-स्मृतेः वैश्विकज्ञानसंवादस्य च मध्ये सेतुरूपेण वर्णनम् अकरोत्।
परमार्थनिकेतनस्य अनुसारं विश्वकोशस्य अन्तर्राष्ट्रीयसंस्करणं पूर्वराष्ट्रपतये प्रणबमुखर्जी इत्यस्मै राष्ट्रपतिभवने समर्पितम् आसीत्। ततः नवदिल्ली इत्यत्र विज्ञानभवने तस्य लोकार्पणम् अभवत्। लण्डनदेशे तत्कालीनः ब्रिटेनप्रधानमन्त्री डेविडकैमरन् अपि तस्य अन्ताराष्ट्रिय-संस्करणस्य शुभारम्भम् अकरोत्।
स्वामी चिदानन्दसरस्वती अवदत् यत् भारतस्य ज्ञानपरम्परा तस्याः महत्त्वपूर्णासु शक्तिषु अन्यतमा अस्ति। स्वसंस्कृतेः, इतिहासस्य, शास्त्राणां जीवनदृष्टेश्च अवबोधनम् अग्रिमवंशानां कृते आवश्यकम् अस्ति। सः अवदत् यत् अयं विश्वकोशः सहस्रवर्षेभ्यः प्रवहमानां भारतीयचेतनां, चिन्तनं संस्कृतिं च व्यापकज्ञानसङ्कलनरूपेण प्रस्तोतुं कृतः प्रयासः अस्ति।
Hindusthan Samachar / Divya Ranjan