वाराणस्यां सेवासङ्कल्पयात्रायाः समापनसमारोहे भाजपाध्यक्षः नितिननवीनः मुख्यातिथिः
वाराणसी, ६ अक्टोबरमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य क्षेत्रीयाध्यक्षः अशोकचौरसिया मङ्गलवासरे पत्रकारैः सह वार्तालापे अवदत् यत् वाराणस्यां रोहनियास्थिते जगत्पुर-अन्तर्महाविद्यालये बुधवासरे सेवासङ्कल्पयात्रायाः समापन-समारोहे भाजपायाः राष्ट्रिया
पत्रकारों से बातचीत करते अशोक चौरसिया


वाराणसी, ६ अक्टोबरमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्य क्षेत्रीयाध्यक्षः अशोकचौरसिया मङ्गलवासरे पत्रकारैः सह वार्तालापे अवदत् यत् वाराणस्यां रोहनियास्थिते जगत्पुर-अन्तर्महाविद्यालये बुधवासरे सेवासङ्कल्पयात्रायाः समापन-समारोहे भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः मुख्यातिथिरूपेण जनसभां सम्बोधयिष्यति।

सः अवदत् यत् वडनगरतः वाराणसीं प्रति आगच्छन्त्याः ‘सेवासङ्कल्पयात्रायाः’ समापनस्य अवसरे एषा जनसभा आयोज्यते। अस्यां जनसभायां मुख्यमन्त्री योगी आदित्यनाथः सहितं राज्यसर्वकारस्य अनेके मन्त्रिणः, प्रदेशाध्यक्षः पङ्कजचौधरी तथा दलस्य पदाधिकारिणश्च उपस्थिताः भविष्यन्ति।

अशोकचौरसिया पत्रकाराणां प्रश्नानाम् उत्तरं ददन् अवदत् यत् भाजपायाः राष्ट्रियाध्यक्षस्य नितिननवीनस्य सेवा-यात्रिणां च स्वागताय वाराणस्याः जनप्रतिनिधिभिः महानगरस्य जनपदस्य च पदाधिकारिभिः विभिन्नस्थानेषु स्वागतदलानि सज्जीकृतानि सन्ति। तदतिरिक्तं कार्यक्रमस्थले भाजपायाः वरिष्ठनेतारः राष्ट्रियाध्यक्षं नितिननवीनं पुष्पगुच्छं समर्प्य स्वागतं करिष्यन्ति। राष्ट्रियाध्यक्षस्य स्वागतार्थं वाराणसीक्षेत्रे शताधिकाः होर्डिङ्गपट्टिकाः स्थापिताः सन्ति।

सः अवदत् यत् सेवासङ्कल्पयात्रायां सम्मिलितानां यात्रिणां स्वागताय महिलानामपि स्वागतदलम् निर्मितम् अस्ति। तत् दलं यात्रिणां स्वागतं करिष्यति तथा विश्वनाथधामदर्शनस्य समये महिलाः शिरसि कलशान् धारयित्वा अग्रे अग्रे गमिष्यन्ति।

Hindusthan Samachar / Divya Ranjan