Enter your Email Address to subscribe to our newsletters

- चतुर्षु देवालयेषु प्रायः षड्कोटिरूप्यकाणां व्ययेन विकासस्य सौन्दर्यीकरणस्य च कार्याणि क्रियमाणानि।
प्रयागराजः, ०६ अक्टूबरमासः (हि.स.)। तीर्थराजप्रयागराजस्य प्राचीनधार्मिकस्थलानां पर्यटनदृष्ट्या विकासस्य कार्यं तीव्रतया क्रियते। मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे पर्यटनविभागस्य माध्यमेन पथरबन्धीमहादेवालयस्य, अतीवप्राचीनस्य भोलेगिरिमन्दिरस्य, प्राचीनस्य बोलनमहादेवमन्दिरस्य घीनपुरस्थितस्य प्राचीनशिवालमन्दिरस्य च विकासः सौन्दर्यीकरणञ्च क्रियते। चतुर्षु देवालयेषु प्रायः षड्कोटिरूप्यकाणां व्ययेन विविधाः कार्याः क्रियमाणाः सन्ति।
एतेषां परियोजनानां उद्देश्यं देवालयानां प्राचीनपरिचयं धार्मिकमहत्त्वञ्च संरक्ष्य श्रद्धालूनां पर्यटकानां च कृते श्रेष्ठसुविधाः उपलब्धाः कर्तुम् अस्ति। अनेन न्यूनप्रसिद्धेभ्यः एभ्यः प्राचीनधार्मिकस्थलेभ्यः पर्यटनमानचित्रे नवीनपरिचयं प्राप्तुं सम्भावना अस्ति।
सुविधाभिः सह परिसरस्य सौन्दर्यीकरणम्
पर्यटनविभागस्य माध्यमेन देवालयपरिसरेषु बहुउद्देशीयसभागाराः, यात्रिशेडाः, स्वागतद्वाराणि गलियाराः च विकसिताः क्रियन्ते। श्रद्धालूनां उपवेशनार्थं मञ्चाः आरसीसीपीठिकाश्च निर्मीयन्ते। परिसरे आवागमनं सुगमं कर्तुं स्टैम्पफ्लोरिङ्गयुक्ताः पथाः निर्मीयन्ते।
देवालयान् आकर्षकान् कर्तुं सज्जितप्रकाशव्यवस्था उद्यानविकासकार्यञ्च अपि क्रियते। श्रद्धालूनां पर्यटकानां च सुविधार्थं सूचनाफलकानि दिशासूचकफलकानि च स्थापितानि सन्ति। केषुचित् स्थलेषु सभागारस्य नवीनीकरणं, भित्तिचित्राणि शिवलिङ्गार्थं च बलुआपाषाणनिर्मिताः मेहराबाः अपि निर्मीयन्ते। एभिः कार्यैः देवालयानां पारम्परिकं स्वरूपं संरक्ष्य परिसरः अधिकं सुव्यवस्थितः आकर्षकश्च क्रियते।
पर्यटनाधिकारिणी अपराजितासिंहः अवदत् यत् प्रयागराजस्य प्राचीनधार्मिकस्थलानि तेषां ऐतिहासिकायाः आध्यात्मिकायाश्च परिचयस्य अनुरूपं विकसितानि क्रियन्ते। श्रद्धालूनां सुविधाभिः सह देवालयपरिसराणां सौन्दर्यीकरणे हरितक्षेत्राणां विकासे च विशेषं ध्यानं दीयते। एभिः कार्यैः स्थानीयानां जनानां सह बहिरागतानां श्रद्धालूनां पर्यटकानां च उत्तमाः सुविधाः प्राप्स्यन्ति। अनेन प्रयागराजे धार्मिकपर्यटनस्य अधिकः विस्तारः भविष्यतीति अपेक्षा अस्ति।
पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः उक्तवान् यत् सर्वकारः प्रदेशस्य प्राचीनानां महत्त्वपूर्णानां धार्मिकसांस्कृतिकस्थलानां च पर्यटनदृष्ट्या विकासं करोति। प्रयागराजस्य एतेषु देवालयेषु क्रियमाणानि कार्याणि अस्यैव अभियानस्य भागः सन्ति।
Hindusthan Samachar / Dheeraj Maithani