Enter your Email Address to subscribe to our newsletters

— श्रेणी-द्वितीयनगराणां विकासस्य डिजिटल-शासनस्य च विषये भविष्यति विचारविमर्शः
भोपालम्, ६ अक्टोबरमासः (हि.स.)। मध्यप्रदेशे नगराणां विकासाय नूतनां दिशां प्रदातुं तथा च नगरीयाधोसंरचनायां निवेशं वर्धयितुं २८ अक्टोबरदिने इन्दौरस्य ब्रिलियण्ट-कन्वेन्शन-सेण्टर इत्यत्र अर्बन-कॉन्क्लेव इति सम्मेलनम् आयोजयिष्यते।
अस्मिन् अर्बन-कॉन्क्लेव-सम्मेलने श्रेणी-द्वितीयनगराणां विकासः, डिजिटल-शासनम्, जलसुरक्षा, हरितवित्तपोषणं तथा आधुनिकप्रौद्योगिक्याः साहाय्येन सिंहस्थ-२०२८ कृते उज्जयिनीनगरं विश्वस्तरीयतीर्थनगरीरूपेण विकसितुं कार्ययोजनायाश्च विषये विचारविमर्शः भविष्यति। मध्यप्रदेशस्य नगरीयविकास-आवासविभागेन आयोज्यमाने अस्मिन् सम्मेलने राज्यसर्वकारस्य विकासदृष्टिः प्रस्तूयते।
जनसम्पर्काधिकारिणी अवन्तिका-जायसवाले मङ्गलवासरे अवदत् यत् सम्मेलने महानगराणाम् अपेक्षया श्रेणी-द्वितीयनगराणां विकासे केन्द्रितानि विशेषसत्राणि आयोजयिष्यन्ते। तेषु पुनर्घनीकरणम्, परिवहनाधारित-विकासः (टीओडी), टीडीआर, आवासः, पुनर्विकासः, मास्टर-प्लान, विकास-मार्गिकाः, रेरा-अनुमोदनानि, व्यापार-सुगमता, अनापत्तिप्रमाणपत्राणां न्यूनी-करणं तथा एफएआर इत्यादिनां महत्त्वपूर्णविषयाणां विषये विचारविमर्शः भविष्यति।
नगरीयप्रशासने सुधारस्य डिजिटल-सशक्तीकरणस्य च विषये केन्द्रिते सत्रे स्वचालितभवनानुज्ञा-अनुमोदनप्र-णाली, अन्तर्जाल-एनओसी तथा विकासा-नुज्ञाप्रणाली, कोलोनी-अधिनियमः, डिजिटल-शासनम्, जीआईएस-आधारित-नियोजनम्, व्यापारसुगमता तथा परियोजनाप्रबन्धन-सूचनाप्रणाली इत्यादिनां विषयाणां चर्चा भविष्यति।
जलवाय्वनुकूलनगराणि, जलसुरक्षा तथा हरितवित्तपोषणम्
जनसम्पर्काधिकारिणी जायसवाले अवदत् यत् जलवाय्वनुकूलनगराणां, जल-सुरक्षायाः तथा चक्राकार-अर्थव्यवस्थायाः विषये आयोज्यमानेषु सत्रेषु विशेषज्ञाः स्वविचारान् प्रस्तुतयिष्यन्ति। चर्चायाः प्रमुखविषयेषु नगरीयजलस्य पुनरुपयोगः तथा जलप्रबन्धनम्, अमृत् २.०, बीआरएसआर-रूपरेखा, नमो हरितनगरयोजना, नगरवनानि तथा केन्द्रीयोद्यानानि, वायु-गुणवत्तासुधारस्य प्रयासाः, जीवनसुगमता तथा जीवनयोग्यता-सूचकाङ्कः, विद्युत्वा-हनानि, दृढ-अपशिष्टप्रबन्धनम्, एमआर-एफ, अपशिष्टात् ऊर्जोत्पादनम्, सौर-ऊर्जापरियोजनाः तथा सीबीजी-परिसंस्था च सम्मिलिताः भविष्यन्ति।
सम्मेलने नगरीयनिवेशस्य, वित्तीय-संसाधनानां, सहभागितायाः तथा वैश्विकविशेषज्ञतायाः अवसरानामपि विषये विचारविमर्शः भविष्यति। अत्र अर्बन्-चैलेञ्ज-फण्ड इत्यस्य परियोजनाः, सार्वजनिक-निजीसहभागिता, वित्तीय-प्रतिरूपनिर्माणम्, टेम्पलबॉण्ड्, हरितबॉण्ड्, नगरपालिकाबॉण्ड्, संयुक्तोपक्रमाः, बहुपक्षीयबैङ्केभ्यः वित्तपोषणम्, अनुदानं तथा व्यवहार्यताऽन्तरवित्तपोषणम् इत्यादिनां विविधवित्तीयविकल्पानां विषये विस्तरेण चर्चा भविष्यति।
सिंहस्थ-२०२८ : विश्वस्तरीयतीर्थनगर-निर्माणे विशेषसत्रम्
जनसम्पर्काधिकारिणी अवदत् यत् सम्मेलने सिंहस्थ-२०२८ कृते उज्जयिनी-नगरं विश्वस्तरीयतीर्थ-नगरीरूपेण विकसितुं विशेषसत्रम् आयोजयिष्यते। अस्मिन् नियोजनम्, प्राथमिकताप्राप्ताधो-संरचनायां निवेशः, टेम्पलबॉण्ड्, सीएसआर, डिजिटल-ट्विन-मॉडलिङ्ग तथा परियोजनानां कार्यान्वयनस्य कार्ययोजनायाः विषये चर्चा भविष्यति। तदतिरिक्तं प्रौद्योगिक्या-धारितं जनसमूह-नियन्त्रणम्, यातायात-व्यवस्थापनम् तथा आयोजनप्रबन्धनमपि सत्रे प्रमुखतया सम्मिलितं भविष्यति।
अर्बन-कॉन्क्लेव इदं प्रदेशे नगरीयाधो-संरचनायाः, नवाचारस्य, स्थायिशहरी-विकासस्य तथा रोजगारसृजनस्य क्षेत्रेषु नूतनां दिशां गतिं च प्रदातुं महत्त्वपूर्णं सोपानं सिद्धं भविष्यति।
Hindusthan Samachar / Divya Ranjan