Enter your Email Address to subscribe to our newsletters

नूतनायां सूच्यां पूर्वयोजनायाः तुलनया अनुमतकार्याणां क्षेत्रं ४१ प्रतिशतं यावत् विस्तारितम्
नवदिल्ली, ६ अक्टोबरमासः (हि.स.)। ग्रामीणविकासमन्त्रालयेन ‘विकसितभारत-रोजगार-आजीविका-भियानम् (ग्रामीणम्)’ अर्थात् वीबी–जी राम जी-अधिनियमः, २०२५ इत्यस्य अन्तर्गतं मङ्गलवासरे अनुमतकार्याणां सूची अधिसूचिता। अस्याः सूच्याः अन्तर्गतं नूतनग्रामीणकार्य-रूपरेखायाः अधीनं ३७५ अनुमतकार्याणि निर्धारितानि सन्ति।
नूतना सूची पूर्वरूपरेखायां निर्धारितानां २६६ कार्याणां तुलनया ४१ प्रतिशतस्य विस्तारं दर्शयति। एतानि कार्याणि चतुर्षु विषयगतस्तम्भेषु पुनर्गठितानि सन्ति—जलसुरक्षा, प्रमुखग्रामीणाधोसंरचना, आजीविकासम्बद्धाधोसंरचना तथा अतिवृष्टि-उष्णता-प्रभृतीनां चरम-ऋतु-घटनानां आपत्सज्जतायाश्च कृते विशेषकार्याणि।
मन्त्रालयस्य अनुसारं नूतना रूपरेखा केवलं परम्परागतसम्पत्तीनां प्रकाराणां सूचीपर्यन्तं सीमिता नास्ति, अपि तु श्रमवेतनाधारितरोजगारं स्थायिग्रामीण-सम्पत्तीनां निर्माणेन मापनयोग्यविकास-परिणामैश्च सह सम्बद्धं कर्तुं प्रयतते। प्रत्येकस्य कार्यस्य प्रारम्भः ‘विकसित-ग्रामपञ्चायतयोजनायाः’ अन्तर्गतं भूस्तरात् आरभ्यमाणया विकेन्द्रीकृत-नियोजनप्रक्रियया भविष्यति। एषा योजना ग्रामसभया अनुमोदिता भविष्यति तथा ‘विकसितभारत-राष्ट्रिय-ग्रामीणाधो-संरचनास्तैक्’ इत्यस्य माध्यमेन तस्याः प्रगतेः अनुश्रवणं भविष्यति।
१२८ कार्यैः जलसुरक्षास्तम्भस्य सर्वाधिकं भागः
मन्त्रालयस्य अनुसारं जलसुरक्षास्तम्भे १२८ कार्याणि सम्मिलितानि सन्ति, यानि चतुर्षु वर्गेषु सर्वाधिकानि सन्ति। तेषु लघुबन्धाः, गली-प्लग्, भूमिगतबन्धाः, पुनर्भरणकूपिकाः, अन्तःक्षेपणकूपाः, नदीनां लघुनदीनां नालिकानां च पुनरुद्धारः, जलमग्नभूमेः सुधारः तथा क्षेत्रेषु जलवितरणमार्गाणां जीर्णोद्धारः च सम्मिलिताः सन्ति।
अस्यां सूच्यां बिन्दुसिञ्चनम्, फव्वारा-सिञ्चनप्रणाली, छदिसु वर्षाजलसञ्चयनं तथा जलकुण्डानि इत्येतै: सह जलसंरक्षणस्य सिञ्चनस्य च कृते हिमस्तूपानां कृत्रिमहिमनदीनां च निर्माणमपि नूतनरूपेण सम्मिलितम् अस्ति।
प्रमुखग्रामीणाधोसंरचनास्तम्भे १११ कार्याणि
प्रमुखग्रामीणाधोसंरचनास्तम्भे १११ कार्याणि सम्मिलितानि सन्ति, येषां उद्देश्यं ग्रामीणक्षेत्रेषु आवश्यकानां नागरिक-सुविधानाम् अधोसंरचनायाश्च सुदृढी-करणम् अस्ति। तेषु सौरऊर्जाधारिताः मार्गदीपाः, अपशिष्टात् सम्पदां प्रति पुनर्चक्रणसंयन्त्राणि, मलिनजलशोधन-एककानि, अपशिष्टपृथक्करणशेड्, ग्रामीणपुस्तकालयाः, पशुचिकित्सा-केन्द्राणि तथा ग्रामीणस्वास्थ्यकेन्द्राणि, सामान्यसेवाकेन्द्राणि, बहूद्देशीय-युवाकेन्द्राणि, सामुदायिकसुविधाः तथा सर्वकारीयविद्यालयेषु अतिरिक्तकक्षाणां प्रयोगशालानां च निर्माणम् इत्यादीनि सम्मिलितानि सन्ति।
अस्यां रूपरेखायां जलजीवन-अभियानस्य जलापूर्त्याधोसंरचनायाः निर्माण-रक्षणयोः सह ग्रामीणोद्यानानां, पदमार्गाणां तथा ग्रामस्तरीयसुविधानां च प्रावधानमपि कृतम् अस्ति।
ग्रामीणाजीजिविकायाः मूल्यशृङ्खलानां च सुदृढीकरणाय ९८ कार्याणि
नूतनरूपरेखायां आजीविकासम्बद्धाधो-संरचनायै विशेषरूपेण अधिकं महत्त्वं प्रदत्तम् अस्ति। अस्यां श्रेण्यां ९८ अनुमतकार्याणि सम्मिलितानि सन्ति। अस्यां कृषिप्रसंस्करणं मूल्यवर्धनं च सम्बन्धिनी अधोसंरचना, स्वच्छीकरण-श्रेणीकरण-पुटकीकरण-एककानि, शीतभण्डारण-सुविधाः, लघु-चूर्ण-पेषणिका:, कृषि-विपणनपरिसराः, दुग्ध-व्यवसायाधोसंरचना, कुक्कुटच्छादनानि इव मशरूमोत्पादन-च्छादनानि, रेशमो-त्पादनच्छादनानि, पॉली-हाउस तथा जलजीवपालनसंरचनाः च सम्मिलिताः सन्ति।
स्वसहायतासमूहानां तेषां संघानां च कृते अधोसंरचनायाः प्रावधानमपि कृतम् अस्ति। तत्र स्वसहायतासमूहानां कार्यशालाः, ‘शी मार्ट्’ तथा संघभवनानि, प्रशिक्षण-सह-कौशलविकासकेन्द्राणि च सम्मिलितानि सन्ति। आजीविकासम्बद्धकार्याणां भागः उल्लेखनीयरूपेण वर्धितः अस्ति। नूतनरूपरेखायां सः सर्वेषु अनुमतकार्येषु २६ प्रतिशतं भवति, यदा तु पूर्वरूपरेखायां सः केवलं १.१ प्रतिशतम् आसीत्।
आपत्सज्जतायै जलवाय्वनुकूलनाय च ३८ कार्याणि
प्रथमवारं ग्रामीणकार्यरूपरेखायाम् आप-त्सज्जतायै चरम-ऋतु-घटनाभ्यश्च समर्पिता विशेषश्रेणी सम्मिलिता अस्ति, यस्यां ३८ कार्याणि निर्धारितानि सन्ति। तेषु जलौघ-सहायताश्रयस्थलानि, सुरक्षा-भित्तयः, तटबन्धानां सुदृढीकरणम्, जलौघसुरक्षाकार्याणि, आपदनन्तरं ग्रामीणमार्गाणां सामुदायिकसम्पत्तीनां च पुनर्स्थापनम् तथा वनाग्निनिवारणाय अग्निरेखाः ईन्धन-अवरोधक्षेत्राणि च सम्मिलितानि सन्ति।
Hindusthan Samachar / Divya Ranjan