क्रीडासुविधानां कृते पूर्वाञ्चलविश्वविद्यालयस्य कुलपतिना क्रीडामन्त्रिणे प्रस्तावः समर्पितः।
जौनपुरम्, 06 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालये अन्तरराष्ट्रीयस्तरस्य क्रीडासुविधानां विकासस्य उद्देश्येन मङ्गलवासरे कुलपतिना प्राध्यापकेन राकेशकुमारसिंहेन प्रदेशस्य क्रीडायुवकल्याणराज्यमन्त्रिणा स्वतन
पूर्वांचल विश्वविद्यालय के कुलपति प्रो राकेश सिंह राज्य मंत्री गिरीश चंद्र यादव से मुलाकात करते हुए ज्ञापन सौंपते हुए


जौनपुरम्, 06 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरे वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालये अन्तरराष्ट्रीयस्तरस्य क्रीडासुविधानां विकासस्य उद्देश्येन मङ्गलवासरे कुलपतिना प्राध्यापकेन राकेशकुमारसिंहेन प्रदेशस्य क्रीडायुवकल्याणराज्यमन्त्रिणा स्वतन्त्रप्रभारिणा गिरीशचन्द्रयादवेन सह मिलित्वा मागपत्रं समर्पितम्। क्रीडामन्त्रिणा प्रस्तावस्य विषये सकारात्मकं रुखं प्रदर्शयता क्रीडासुविधानां सुदृढीकरणे सहयोगस्य आश्वासनं प्रदत्तम्।

कुलपतिना प्राध्यापकेन राकेशकुमारसिंहेन विश्वविद्यालयपरिसरे आधुनिकस्य कृत्रिमधावनमार्गस्य स्थापनायै तथा एकलव्यक्रीडाङ्गणस्य क्रिकेटक्रीडाङ्गणस्य उन्नयनाय नवीनीकरणाय च वित्तीयविभागीयस्वीकृतिप्रदानस्य अनुरोधः कृतः। तेन सूचितं यत् विश्वविद्यालये तेन सम्बद्धेषु महाविद्यालयेषु च त्रिलक्षाधिकाः विद्यार्थिनः अध्ययनरताः सन्ति। विश्वविद्यालयेन राष्ट्राय अनेकाः अन्तरराष्ट्रीयक्रीडकाः प्रदत्ताः सन्ति, येषु हॉकीक्रीडकः कोथाजीतसिंहः, ललितकुमारोपाध्यायः, अर्जुनपुरस्कारेण सम्मानितः राजकुमारपालः अन्तरराष्ट्रीयस्तरस्य स्टीपलचेजधाविका पारुलचौधरी च प्रमुखाः सन्ति।

कुलपतिना उक्तं यत् मानकस्तरीयस्य कृत्रिमधावनमार्गस्य अभावात् क्रीडकानां आधुनिकाभ्यासे कठिनता भवति। धावनमार्गस्य निर्माणेन नवीनक्रीडाप्रतिभानां श्रेष्ठप्रशिक्षणं प्रदातुं तथा अखिलभारतीयान्तरविश्वविद्यालयीयक्रीडास्पर्धानाम् आयोजनाय अपि सुविधा भविष्यति।

एकलव्यक्रीडाङ्गणस्य क्रिकेटक्रीडाङ्गणस्य नवीनीकरणे समतलीकरणं, जलनिकासीव्यवस्था, उच्चगुणवत्तायुक्ता क्रीडाभूमिः, अभ्यासजालानि क्रीडकानां कृते आधुनिकसुविधाश्च विकसितुं प्रस्तावः अस्ति। अनेन विश्वविद्यालयस्य तेन सम्बद्धानां महाविद्यालयानां च मध्ये उच्चस्तरीयक्रिकेटक्रीडास्पर्धानाम् आयोजनं प्रोत्साहितं भविष्यति।

कुलपतिना उक्तं यत् प्रधानमन्त्रीनः ‘ये क्रीडन्ति, ते एव विकसन्ति’ तथा ‘फिट इण्डिया’ इति अभियानस्य सन्देशं धरातले कार्यान्वयितुं आधुनिकक्रीडासुविधानां विकासः आवश्यकः अस्ति।-----------

Hindusthan Samachar / Dheeraj Maithani