संस्कृत-भारतस्य अनेकाःभाषाः एकस्यां भव्यायां मालायां ग्रथ्नन्ती स्वर्णिमसूत्रम् : उपराष्ट्रपतिः
नवदिल्ली, ६ अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मङ्गलवासरे उक्तवान् यत् संस्कृतम् भारतस्य अनेकभाषाः एकस्यां भव्यायां मालायां ग्रथ्नन्ती स्वर्णिमसूत्रम् अस्ति। तेन उक्तं यत् देशस्य प्राचीनज्ञान-परम्परायाः संरक्षणं, अध्ययनं, व्याख्
उपराष्ट्रपति सी. पी. राधाकृष्णन मंगलवार को श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालय के दूसरे दीक्षांत समारोह को संबोधित करते हुए


नवदिल्ली, ६ अक्टोबरमासः (हि.स.)। उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मङ्गलवासरे उक्तवान् यत् संस्कृतम् भारतस्य अनेकभाषाः एकस्यां भव्यायां मालायां ग्रथ्नन्ती स्वर्णिमसूत्रम् अस्ति। तेन उक्तं यत् देशस्य प्राचीनज्ञान-परम्परायाः संरक्षणं, अध्ययनं, व्याख्यां च कृत्वा तां भाविवंशानां कृते सुलभां कर्तुम् आवश्यकम् अस्ति।

उपराष्ट्रपतिः अत्र श्रीलालबहादुरशास्त्री-राष्ट्रिय-संस्कृतविश्वविद्यालयस्य द्वितीय-दीक्षान्तसमारोहे सम्बोधयन् उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे संस्कृतस्य पुनरुत्थानाय भारतीयज्ञान-परम्परायाः संवर्धनाय च अनुकूलं वातावरणं निर्मितम् अस्ति। तेन उक्तं यत् संस्कृतस्य दुर्लभाः पाण्डुलिपयः संरक्षिताः कृत्वा भाविवंशेभ्यः प्रापयितव्याः।

उपराष्ट्रपतिः विश्वविद्यालयस्य यात्रायाः उल्लेखं कुर्वन् उक्तवान् यत् संस्कृतविद्यापीठात् केन्द्रीयविश्व-विद्यालयपर्यन्तं प्रगताम् एतां संस्थां संस्कृताध्ययनस्य प्रमुख-अन्ताराष्ट्रिय-उत्कृष्टताकेन्द्ररूपेण स्थापयितुं दिशि अग्रे गन्तव्यम्। तेन विश्वविद्यालयस्य ए++ नैक-श्रेणीप्राप्तेः तथा भारतीयज्ञान-परम्परायाः विभिन्नेषु क्षेत्रेषु सम्पन्नानां शोधकार्याणां च प्रशंसा कृता।

तेन उक्तं यत् भारतस्य प्रत्येकं भाषया देशः समृद्धः कृतः, किन्तु संस्कृतं सा स्वर्णिमसूत्रिका अस्ति या देशस्य अनेकभाषारूपाणि मौक्तिकानि एकस्यां भव्यायां मालायां संयोजयति। तेन परिसरे सुभाषितानां माध्यमेन संस्कृतस्य जीवन्ततां धारयितुं, ४४ वर्षेभ्यः ‘विद्यापीठपञ्चाङ्गस्य’ प्रकाशनं तथा प्राकृत-वास्तुशास्त्रादीनां शास्त्रीय-विषयाणाम् अध्ययनं च प्रशंसितम्।

राधाकृष्णनेन शिक्षकान् विद्यार्थिनश्च भारतस्य पाण्डुलिपिपरम्परायाः अन्वेषणाय, संरक्षणाय, आलोचनात्मक-सम्पादनाय तथा अप्रकाशितानां संस्कृतपाण्डुलिपिनां प्रकाशनाय कार्यं कर्तुम् आह्वानं कृतम्। तेन उक्तं यत् ‘ज्ञानभारतं मिशन’ इत्यस्य अन्तर्गतं पाण्डुलिपिनां संरक्षणाय कर्गदकरणाय च ५०० कोटिरूप्यकाणां मूलनिधिना भारतस्य विशालां पाण्डुलिपिसम्पदं देशस्य विश्वस्य च जनानां समक्षं प्रापयितुं प्रयासः क्रियते।

दीक्षान्तसमारोहे स्नातकविद्यार्थिनः सम्बोधयन् उपराष्ट्रपतिः तान् आजीवनं शिक्षमाणान् भवितुं तथा आचार्येभ्यः मातापितृभ्यश्च प्राप्तान् संस्कारान् मूल्यानि च अग्रे वर्धयितुं परामर्शं दत्तवान्। कृत्रिमबुद्धिमत्तायाः युगे संस्कृतस्य संरक्षणाय प्रचारप्रसाराय च प्रौद्योगिक्याः उपयोगं कर्तुम् आह्वानं कृतवान्।

तेन युवानः मादकद्रव्याणां सेवनात् दूरं स्थातुं तथा अनुशासनं, क्रीडां, सद्सङ्गतिं सार्थकक्रियाकलापांश्च स्वीकर्तुं आह्वानं कृतम्। तेन विद्यार्थिभ्यः सामाजिक-माध्यमानां विवेकपूर्णं सीमितं च उपयोगं कर्तुं तथा स्वसमयं पठनाय, शिक्षणाय, कौशलविकासाय वास्तविक-सम्बन्धानां सुदृढीकरणाय च विनियोजयितुं परामर्शः दत्तः।

समारोहस्य अवधौ उपराष्ट्रपतिना ‘अम्नायकल्पतरुः’, ‘विद्यामित्रम्’ तथा ‘शोधप्रभा’ (जुलाई-सेप्टेम्बर २०२६) इत्येतानि त्रीणि प्रकाशनानि लोका-र्पितानि। तेन मेधाविभ्यः स्नातकविद्यार्थिभ्यः स्वर्णपदकानि अपि प्रदत्तानि तथा उपस्थितेभ्यः ‘नशेभ्यः निषेधः’ इति शपथः कारिता। समारोहं केन्द्रीयशिक्षा-पूर्वोत्तरक्षेत्रविकासयोः राज्यमन्त्री सुकान्तमजूमदारः, विश्व-विद्यालयस्य कुलपतिः प्रो. मुरलीमनोहरपाठकः इत्येतै: सह विद्वांसः, आचार्याः, शिक्षकाः, विद्यार्थिनः तेषां च अभिभावकाः उपस्थिताः आसन्।

/ Dheeraj Maithani