भूटानस्य प्रधानमन्त्रिणा नरेन्द्रमोदीं ‘विष्णोरवतारः’ इति कथितः
नवदिल्ली, ७ अक्टोबरमासः (हि.स.)। भूटानस्य प्रधानमन्त्री शेरिङ्गतोब्गे प्रधानमन्त्रिणं नरेन्द्रमोदीं वर्तमानसमयस्य अवतारः इति कथितवान्। सः अवदत् यत् तस्मिन् योग्यनेतुः त्रयः गुणाः—ज्ञानं, करुणा, साहसं च—विद्यन्ते तथा एते सर्वे निःस्वार्थसेवाभावेन सम
भूटान के प्रधानमंत्री शेयरिंग तोबगे


नवदिल्ली, ७ अक्टोबरमासः (हि.स.)। भूटानस्य प्रधानमन्त्री शेरिङ्गतोब्गे प्रधानमन्त्रिणं नरेन्द्रमोदीं वर्तमानसमयस्य अवतारः इति कथितवान्। सः अवदत् यत् तस्मिन् योग्यनेतुः त्रयः गुणाः—ज्ञानं, करुणा, साहसं च—विद्यन्ते तथा एते सर्वे निःस्वार्थसेवाभावेन सम्बद्धाः सन्ति।

तोब्गे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सर्वकारप्रमुखरूपेण २५ वर्षाणां पूर्त्युपलक्ष्ये सामाजिकमाध्यमे ‘एक्स’ इत्यत्र एकं निबन्धं लिखितवान्। नरेन्द्रमोदिना सह स्वस्य एकं साक्षात्कारं तथा तस्मिन् साक्षात्कारे अनायासमेव तं ‘विष्णोरवतारः’ इति कथितवान् इत्यस्य उल्लेखं सः कृतवान्।

सः अवदत्, “मम दृष्ट्या प्रबुद्धनेतृत्वं ज्ञानस्य, करुणायाः, साहसस्य च निःस्वार्थसेवया प्रदर्शनम् अस्ति। अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘विकसित-भारत’ इति दृष्टिकोणस्य माध्यमेन एतान् गुणान् सर्वाधिकं स्पष्टतया एकत्र पश्यामि। ज्ञानस्य आरम्भः श्रेष्ठभविष्यस्य स्पष्टदृष्ट्या भवति। सः भारताय तां दृष्टिं प्रदत्तवान्—स्वातन्त्र्यस्य शतवर्षपूर्तेः अनन्तरं २०४७ तमवर्षे विकसितराष्ट्ररूपेण भारतस्य निर्माणम्।”

सः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्र-मोदिना भारतीयेषु प्रबलः आत्म-विश्वासः उत्पन्नः। सः न केवलं भारताय लक्ष्यं प्रदत्तवान्, अपि तु भारतीयान् तस्मिन् दृष्टिकोणे विश्वासं कर्तुं तस्य दिशि च कार्यं कर्तुं प्रेरितवान्।

प्रतिवेशीदेशै: सह नीत्वा गन्तुं प्रधान-मन्त्रिणः स्वभावस्य प्रशंसां कुर्वन् सः अवदत् यत् अन्ताराष्ट्रियसम्बन्धेषु भारतस्य प्रतिवेशीदेशानां सः सर्वोपरि महत्त्वं प्रदत्तवान्। सः वैश्विकदक्षिणस्य हितानाम् समर्थनं कृतवान्, वैश्विक-दक्षिणस्य शिखरसम्मेलनम् आयोजितवान् तथा च जी-२० मध्ये आफ्रिकासङ्घस्य स्थायिसदस्यत्वं सुनिश्चितं कर्तुं सफलप्रयासस्य नेतृत्वं कृतवान्।

‘विकसितभारत’ इत्यस्य ‘विकसितभूटान’ इत्यनेन सह सम्बन्धं स्थापयन् तोब्गे अवदत्, “बी४बी—भूटानाय भारतः, भारताय भूटानम्। इदं वाक्यं सरलम् अस्ति, तथापि अस्य गहनः अर्थः अस्ति।” अद्य ‘बी४बी’ इति भावः सम्पूर्णे भूटाने दृश्यते—विद्यालयेषु चिकित्सालयेषु च, मार्गेषु सेतुषु च, जलविद्युत्क्षेत्रे प्रौद्योगिक्यां च, कृषौ उद्यमेषु च।

स्वस्य निबन्धे तोब्गे प्रधानमन्त्रीं नरेन्द्रमोदीं ‘ज्येष्ठभ्राता’ इत्यपि सम्बोधितवान्। सः अवदत् यत् पञ्चवर्षपूर्वं सः ‘स्वस्य ज्येष्ठभ्रातरं’ नरेन्द्रमोदीं विष्णोरवतारः इति उक्तवान्। गहनविचार-विमर्शानन्तरं अन्ते सः अस्मिन् निष्कर्षे प्राप्तवान् यत् तेन तदा यत् उक्तं तत् सम्यगेव आसीत्। सः अवदत्, “न केवलम् एतदेव, अपि तु अधुना मया ज्ञातं यत् सः कस्य अवतारः आसीत्। विष्णोः अन्तिमावतारः—यः अवतारः अव्यवस्थायाः विजयं, धर्मस्य स्थापनां, नवजीवनस्य च प्रारम्भं सम्बध्नाति—सः कल्किः।”

Hindusthan Samachar / Divya Ranjan