गेल (इंडिया) लिमिटेड ने 'वाह क्या एनर्जी है' अभियान का सीजन 2 लॉन्च किया
गेल्-संस्थायाः उपभोक्तृजागरूकताभियानम् ‘वाह क्या एनर्जी इत्येतद्विद्यते स्वच्छऊर्जाविकल्पानां प्रोत्साहनाय नवदिल्ली, ७ अक्तूबरमासः (हि.स.)। देशस्य बृहत्तमा प्राकृतिकगैससम्बद्धा संस्था गेल् इण्डिया लिमिटेड इति संस्थया बुधवासरे उपभोक्तृजागरूकताभिया
गेल के वाह एनर्जी सीजन-2 का लॉचिंग फोटो


गेल्-संस्थायाः उपभोक्तृजागरूकताभियानम् ‘वाह क्या एनर्जी इत्येतद्विद्यते स्वच्छऊर्जाविकल्पानां प्रोत्साहनाय

नवदिल्ली, ७ अक्तूबरमासः (हि.स.)। देशस्य बृहत्तमा प्राकृतिकगैससम्बद्धा संस्था गेल् इण्डिया लिमिटेड इति संस्थया बुधवासरे उपभोक्तृजागरूकताभियानस्य ‘वाह क्या एनर्जी है’ इत्यस्य द्वितीयं सत्रं प्रारब्धम्। अस्य अभियानस्य अन्तर्गतं संस्थायाः आधिकारिके यूट्यूब् माध्यमे चतस्रः लघुचलच्चित्रकथाः प्रसारिताः। तदनन्तरं अभियानस्य ‘नए भारत की नई एनर्जी’ इति गीतमपि विमोचितम्।

संस्थया प्रकाशिते निवेदने उक्तं यत् एतदभियानं उपभोक्तृभ्यः प्रत्यक्षरूपेण सम्पर्कं दृढीकर्तुं तथा स्वच्छतराणां अधिकस्थायिनां च ऊर्जाविकल्पानां विषये जागरूकतां वर्धयितुं गेल्-संस्थायाः निरन्तरप्रयासस्य भागः अस्ति। गेल्-संस्थया उक्तं यत् सीएनजी, पीएनजी, एलएनजी इत्यादीनां स्वच्छानां ईन्धनविकल्पानां स्वीकरणाय स्पष्टेन आह्वानेन सह एतदभियानं देशस्य विविधवर्गीयान् उपभोक्तॄन् लक्ष्यीकृत्य प्रवर्तते।

गेल्-संस्थायाः अनुसारं अभियानस्य अन्तर्गतं जेन जी इति नवयुववर्गे विशेषं ध्यानं प्रदत्तम् अस्ति, यतः उपभोगसम्बद्धेषु निर्णयेषु अस्य वर्गस्य प्रभावः निरन्तरं वर्धमानः अस्ति। अतः स्वच्छऊर्जायाः भविष्यं प्रति संक्रमणस्य गतिं वर्धयितुं अस्य वर्गस्य महत्त्वपूर्णा भूमिका भवितुं शक्नोति।

गेल्-संस्थायाः उपभोक्तृकेन्द्रितं संवादं सुदृढीकुर्वन् एतदभियानं घरेलुपीएनजी अर्थात् डीपीएनजी, वाणिज्यिकपीएनजी अर्थात् सीपीएनजी, सीएनजी, औद्योगिकपीएनजी अर्थात् आईपीएनजी तथा एलएनजी इत्यादीनां सम्बन्धितोपयोगानां माध्यमेन दर्शकैः सह सम्पर्कं स्थापयितुं प्रयतते। स्वच्छऊर्जासमाधानानि कथं दैनन्दिनजीवनस्य, व्यावसायिकप्रयोगानां तथा औद्योगिकप्रयोगानामपि सहजं भागं भवितुं शक्नुवन्ति इति एतेषु माध्यमेषु प्रदर्श्यते।

संस्थया उक्तं यत् ‘वाह क्या एनर्जी है’ इति अभियानं सीएनजी, पीएनजी, आईपीएनजी, एलएनजी, सीबीजी इत्यादीनां स्वच्छतराणाम् अधिकपर्यावरणानुकूलानां च ऊर्जाविकल्पानां उपलब्धतायाः लाभानां च विषये जागरूकतां प्रसारयितुं निर्मितम् अस्ति। अस्य द्वितीये सत्रे कथा एकं सोपानम् अग्रे नीयते तथा मिश्रा-परिवारस्य जीवनस्य विविधाः परिस्थितयः सविस्तरं प्रस्तुत्यन्ते। वाराणस्यां लघुयात्रातः परिचितनौकाविहारात् च आरभ्य पारिवारिकसमारोहेषु, बान्धवैः सह मिलने तथा वरिष्ठमिश्रस्य कारखाने आयोजितकार्यक्रमपर्यन्तं विविधाः घटनाः कथासु समाविष्टाः सन्ति।

गेल्-संस्थया उक्तं यत् प्रत्येकं प्रकरणं सहजसरलायाः परिस्थितेः आधारेण निर्मितम् अस्ति तथा स्वच्छेन्धनस्य चयनस्य पक्षे सुदृढं तर्कं प्रस्तुतं करोति। विनोदपूर्णशैल्या, हास्येन तथा दैनन्दिनजीवनस्य कथाभिः एतानि लघुचलच्चित्राणि दर्शकान् स्वकीयानाम् ऊर्जाविषयकविकल्पानां विषये चिन्तयितुं तथा स्वच्छविकल्पानां दिशि अग्रसरितुं प्रेरयन्ति। द्वितीयसत्रे उत्कृष्टतरं निर्माणस्तरं, दृश्यकल्पना तथा कथाकथनशैली च दृश्यते। प्रत्येकस्य प्रकरणस्य अवधि प्रायः अष्टतः दशमिनिटपर्यन्तम् अस्ति तथा तत् गेल्-संस्थायाः आधिकारिके यूट्यूब् माध्यमे उपलब्धम् अस्ति।

प्रकरणात्मककथानां पूरकरूपेण गेल्-संस्थया ‘वाह क्या एनर्जी है’ अभियानस्य ‘नए भारत की नई एनर्जी’ इति गीतमपि विमोचितम्। अस्य गीतस्य अवधि चतुर्भ्यः अधिका मिनिट् अस्ति। अस्मिन् गीतदृश्ये गेल्-संस्थायाः विस्तृतं ऊर्जावितरणतन्त्रं तथा अभिनवसमाधानानि एकत्र प्रस्तुतानि सन्ति। तेषु वाराणस्यां स्थितं भारतस्य प्रथमं तैरत्सीएनजीस्थानकं तथा संपीडितजैवगैस अर्थात् सीबीजी इत्यादीनि नूतनानि समाधानानि प्रमुखानि सन्ति।

गीतस्य दृश्यरूपे विविधेषु वयस्समूहेषु, भौगोलिकप्रदेशेषु तथा जीवनस्य विभिन्नेषु क्षेत्रेषु सम्बद्धाः उपभोक्तारः समुदायाश्च प्रदर्शिताः सन्ति। बालकेभ्यः युवकेभ्यश्च आरभ्य वरिष्ठनागरिकेभ्यः देशस्य रक्षाबलानां सदस्येभ्यश्च पर्यन्तं विभिन्नाः जनाः अस्मिन् दृश्ये सम्मिलिताः सन्ति। विचारपूर्वकं कृताः दैनन्दिनजीवनस्य विकल्पाः तथा उत्तमेषु ईन्धनविकल्पेषु स्वीकरणं कथं व्यक्तिगतं कार्बनपदचिह्नं न्यूनीकर्तुं शक्नोति तथा अधिकस्थायिभविष्यस्य निर्माणे योगदानं दातुं शक्नोति इति अस्य कथायाः प्रमुखः सन्देशः अस्ति।

अभियानस्य व्यापकप्रचारः गेल्-संस्थायाः सामाजिकमाध्यमानां, प्रभावकजनसम्पर्ककार्यक्रमाणाम्, उपभोक्तृसहभागिताकार्यक्रमाणाम्, अङ्कीयविज्ञापनफलकानां, रेडियोप्रसारणस्य, चलचित्रगृहशृङ्खलानां तथा क्रीडाकरणाधारितकार्यक्रमाणां माध्यमेन क्रियते। लघुरूपसामग्री सामाजिकमाध्यमेषु लघुवीडियोरूपेण तथा अन्येषु अङ्कीयस्वरूपेषु प्रसार्यते। अभियानस्य गीतं स्पॉटिफाय, अमेजन म्यूजिक, गाना तथा जियोसावन इत्यादिषु प्रमुखेषु संगीतप्रवाहमञ्चेषु अपि वितरितम् अस्ति।

अभियानस्य विषये गेल्-संस्थायाः मानवसंसाधननिदेशकः आयुषगुप्तः उक्तवान्, “‘वाह क्या एनर्जी है’ इत्यस्य द्वितीयसत्रं तथा अस्माकं ‘नए भारत की नई एनर्जी’ इति गीतं उपभोक्तृषु स्वच्छऊर्जाविकल्पानां तथा पर्यावरणीयदायित्वस्य विषये अधिकजागरूकतां जनयितुं कृतः प्रयासः अस्ति।”

सः उक्तवान् यत् तर्कसङ्गताभिः, भूमिसम्बद्धाभिः तथा सहजाभिः कथाभिः वयं भारतीयान् अधिकविवेकपूर्णान् भविष्याभिमुखान् च ईन्धनविकल्पान् स्वीकर्तुं प्रेरयितुम् इच्छामः। स्वच्छऊर्जा पर्यावरणे तथा दैनन्दिनजीवने कथं सकारात्मकं प्रभावं जनयितुं शक्नोति इति अपि बोधयितुम् इच्छामः। जेन जी वर्गमपि अस्य संवादस्य भागरूपेण सचेतनतया सम्मिलितं कृतम् अस्ति, यतः युवजनाः न केवलम् आगामिदिनानां उपभोक्तारः, अपितु ऊर्जापरिवर्तनस्य महत्त्वपूर्णाः प्रेरकाः अपि सन्ति।

आयुषगुप्तः उक्तवान् यत् अभियानस्य प्रत्येकं कथा गेल्-संस्थायाः स्वच्छऊर्जापरितन्त्रस्य पृथक् पक्षं जीवन्तं करोति तथा विविधेषु उपयोगेषु स्वच्छऊर्जायाः प्रासङ्गिकतां प्रदर्शयति। स्वच्छपरिवहनं तथा घरेलुपयोगं सम्भावयन्त्यौ सीएनजी तथा पीएनजी इत्यादिभ्यः आरभ्य अधिकस्वच्छान् कार्यक्षमांश्च औद्योगिकव्यावसायिकान् उपयोगान् पूरयन्त्यौ परिवहनएलएनजी तथा वाणिज्यिकऔद्योगिकपीएनजी इत्यादीनां समाधानानां व्यापकता अपि अभियानस्य माध्यमेन प्रदर्शिता अस्ति।

सः अवदत् यत् गेल् उत्कर्षम् अपि अस्मिन् अभियाने समाविष्टम् अस्ति। एषा संस्थायाः सामाजिकदायित्वाधारिता योजना अस्ति, या वञ्चितसमुदायानां मेधाविनां छात्राणां साहाय्यं करोति। तथैव वाराणस्यां स्थितानि तैरत्सीएनजीस्थानकानि अपि अस्मिन् सम्मिलितानि सन्ति। एतेषां माध्यमेन गेल्-संस्थायाः उपस्थितिः केवलम् ऊर्जापूर्तिपर्यन्तं सीमिता न भूत्वा व्यापकसामाजिकार्थिकमूल्यस्य सृजनपर्यन्तं विस्तृता अस्ति इति प्रदर्श्यते। एताभिः विविधाभिः कथाभिः ‘वाह क्या एनर्जी है’ इति अभियानं स्वच्छऊर्जापरिवर्तनं देशस्य उपभोक्तृभ्यः अधिकसहजं, प्रासङ्गिकं तथा सार्थकं च कर्तुं प्रयतते।

स्वच्छतराणाम् अधिकस्थायिनां च ऊर्जाविकल्पानां दिशि वैश्विकपरिवर्तनस्य मध्ये गेल् इण्डिया लिमिटेड प्राकृतिकगैसस्य स्वीकरणस्य तस्य च व्यापकप्रयोगस्य समर्थनं निरन्तरं करोति। प्राकृतिकगैसं स्वच्छऊर्जाभविष्यस्य महत्त्वपूर्णं साधकम् अस्ति। स्वस्य विविधेन ऊर्जा-पोर्टफोलियो तथा वर्धमानेन उपभोक्तृसम्पर्केण गेल्-संस्था स्वच्छऊर्जाविकल्पानां पर्यावरणीयान् दैनन्दिनजीवनसम्बद्धान् च लाभान् प्रति जागरूकतां वर्धयन्ती भारतस्य व्यापकानां स्थायिविकासलक्ष्याणां प्राप्तौ अपि योगदानं ददाति।

प्रसिद्धाः अभिनेता श्रीकान्तवर्मा, दिव्या जगदाले, लव विस्पुटे तथा अहमदखानः चतसृषु लघुचलच्चित्रकथासु दृश्यन्ते। ते स्थायित्वस्य, स्वच्छऊर्जाविकल्पानां तथा उत्तमभविष्यस्य अभियानसन्देशं सहजतया आकर्षकरूपेण च प्रस्तुतयन्ति।

गेल् भारतस्य बृहत्तमा प्राकृतिकगैससम्बद्धा संस्था अस्ति। प्राकृतिकगैसस्य मूल्यशृङ्खलायां संस्थायाः विविधाः गतिविधयः सन्ति। तासु प्राकृतिकगैसव्यापारः तथा प्रसारणम्, एलपीजी-उत्पादनं तथा प्रसारणम्, एलएनजी-पुनर्गैसीकरणम्, पेट्रोकेमिकल्स्, नगरगैसवितरणम्, अन्वेषणम्, उत्पादनम् इत्यादयः प्रमुखाः सन्ति।

संस्था देशस्य विभिन्नेषु भागेषु विस्तृतस्य अष्टादशसहस्राधिकद्विशतकिलोमीटरमितस्य प्राकृतिकगैसपाइपलाइनजालस्य स्वामित्वं करोति तथा तस्य सञ्चालनमपि करोति। देशस्य सर्वेषु भागेषु प्राकृतिकगैसस्य पहुँचं वर्धयितुं गेल्-संस्था स्वस्य पाइपलाइनजालस्य विस्ताराय एकस्मिन्नेव काले बह्वीनां पाइपलाइनपरियोजनानां कार्यान्वयनमपि करोति।

Hindusthan Samachar / Dheeraj Maithani