सरसंघचालकः मोहनभागवतः गुरुवासरे पश्चिमबङ्गालस्य यात्रायां, सङ्घकार्यकर्तृभिः सह करिष्यति सभाम्
कोलकाता, ७ अक्टोबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सरसंघचालकः मोहनभागवतः सरकार्यवाहः दत्तात्रेय-होसबाले च गुरुवासरे, ८ अक्टोबरमासे पश्चिमबङ्गालस्य यात्रां करिष्यतः। उभौ सङ्घपदाधिकारिण: पूर्वबर्धमानस्य ‘उल्लास’ इत्यत्र स्थिते सङ्घकार्यालये रा
मोहन भागवत


कोलकाता, ७ अक्टोबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सरसंघचालकः मोहनभागवतः सरकार्यवाहः दत्तात्रेय-होसबाले च गुरुवासरे, ८ अक्टोबरमासे पश्चिमबङ्गालस्य यात्रां करिष्यतः। उभौ सङ्घपदाधिकारिण: पूर्वबर्धमानस्य ‘उल्लास’ इत्यत्र स्थिते सङ्घकार्यालये राज्यस्य पदाधिकारिभिः कार्यकर्तृभिश्च सह सभां करिष्यतः।

सङ्घस्य दक्षिणबङ्गालप्रान्तस्य प्रचार-प्रमुखः विप्लवरायः बुधवासरे अवदत् यत् एषा यात्रा सङ्घस्य आन्तरिकेषु सङ्गठनात्मकविषयेषु च चर्चां कर्तुं निर्धारितास्ति। बर्धमानस्थिते सङ्घ-कार्यालये आयोज्यमाना सभा प्रातः नववादने प्रारप्स्यते। सभायां राज्यस्य सङ्घपदाधिकारिणः प्रमुखकार्यकर्तारश्च सम्मिलिताः भविष्यन्ति।

सङ्घसूत्रानुसारम् अग्रिमेषु दिवसेषु सङ्गठनात्मकसंरचनायां केचन महत्त्व-पूर्णानि परिवर्तनानि कर्तुं शक्यन्ते। मन्यते यत् मोहनभागवतः दत्तात्रेय-होसबाले च स्वकीययात्रायाः समये एतेषु विषयेषु प्रमुखतया चर्चां करिष्यतः। सभायाः अनन्तरं सरसंघचालकः बर्धमानविभागस्य स्वयंसेवकैः सहापि मिलिष्यति।

निर्धारितकार्यक्रमानुसारं मोहनभागवतः गुरुवासरे अपराह्णानन्तरं प्रत्यागमिष्यति। तथापि सङ्घस्य पक्षतः सभायां चर्च्य-माणानां विषयाणां सम्भावितानां सङ्गठनात्मकपरिवर्तनानां वा विषये विस्तृतसूचना सार्वजनिकरूपेण न प्रदत्ता।

अस्मिन् मध्ये सरसंघचालकस्य मोहन-भागवतः डिसेम्बरमासे अपि पश्चिम-बङ्गालस्य आगमनस्य सम्भावना वर्तते। सूत्रानुसारं सः कोलकातानगरस्य ब्रिगेड-परेड-प्रांगणे प्रस्ताविते ‘लक्ष-कण्ठ-गीता-पाठ’ कार्यक्रमे सम्मिलितः भवितुम् अर्हति। अस्मिन् अवसरे राज्यस्य विभिन्नक्षेत्रेभ्यः प्रबुद्धनागरिकैः सह तस्य मिलनस्यापि सम्भावना वर्तते। तथापि डिसेम्बरमासस्य प्रस्तावितयात्रायाः कार्य-क्रमाणां च विषये अद्यापि अन्तिमनिर्णयः न जातः।

Hindusthan Samachar / Divya Ranjan