Enter your Email Address to subscribe to our newsletters

भोपालम्, ०७ अक्टोबरमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे स्थिते राष्ट्रीयोद्यान-विहारवने वन्यजीव-संरक्षणस्य, पर्यावरणजागरूकतायाः तथा प्राकृतिकसंसाधनेषु संवेदनशीलतायाः विकासस्य उद्देश्येन आयोजितः राज्य-स्तरीयः वन्यजीवसप्ताहः २०२६ अद्य बुधवासरे समाप्यते।
जनसम्पर्काधिकारी के.के. जोशी इत्यनेन उक्तं यत् समापनदिवसे बालकानां विद्यार्थिनां च कृते विशेषाः सृजनात्मकाः जागरूकतामूलकाः च गतिविधयः आयोजिताः भविष्यन्ति। प्रातः ९.०० वादनतः १०.३० वादनपर्यन्तं शिशुवर्गात् द्वितीयकक्षापर्यन्तं बालकेभ्यः ‘मध्य-प्रदेशस्य वन्यजीवाः’ इति विषयमधिकृत्य बालपदसञ्चलनस्य आयोजनं भविष्यति।
बालपदसञ्चलनस्य उद्देश्यम् अस्ति यत् क्रीडायाः सृजनात्मकगतिविधीनां च माध्यमेन लघुबालकान् मध्यप्रदेशस्य वन्यजीवैः परिचितान् कारयितुम्। अल्पवयसि एव बालकेषु वन्यजीवेषु प्रकृतौ च रुचिं संवेदनशीलतां च विकसितुं दिशि एषा गतिविधिः महत्त्वपूर्णा भविष्यति। अस्यैव कालावधौ विद्यालयीयानां महाविद्यालयीयानां च छात्राणां कृते ‘मध्यप्रदेशस्य वन्यजीवाः’ इति विषयमधिकृत्य मुखचित्राङ्कनप्रति-योगितायाः आयोजनमपि भविष्यति।
मुखचित्राङ्कनप्रतियोगितायाः माध्यमेन विद्यार्थिभ्यः स्वकीयकलायाः सृजनात्मक-तायाश्च प्रदर्शनस्य अवसरः प्राप्स्यते। ते वन्यजीवसंरक्षणस्य सन्देशमपि प्रस्तोष्यन्ति। प्रतिभागिनः स्वकीय-कल्पनाशक्त्या मध्यप्रदेशे विद्यमानानां वन्यजीवानां तेषां संरक्षण-सम्बद्धानां विषयाणां च कलात्मकं प्रदर्शनं करिष्यन्ति।
समापनसमारोहे वन्यजीवसप्ताहस्य अन्तर्गतं आयोजितासु विभिन्नासु गतिविधिषु प्रतियोगितासु च उत्कृष्टं प्रदर्शनं कृतवन्तः प्रतिभागिनः सम्मानिताः भविष्यन्ति। विभिन्नप्रतियोगितानां विजेतृभ्यः पुरस्काराः प्रमाणपत्राणि च प्रदास्यन्ते।
Hindusthan Samachar / Divya Ranjan