प्रधानमन्त्रिणः मोदिनः प्रशासनप्रमुखरूपेण पञ्चविंशतिवर्षपूर्तिः—कोलकातायां मुख्यमन्त्रिणा सेवाज्योतियात्रायाः शुभारम्भः
कोलकाता, ०६ अक्टोबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशासनप्रमुखरूपेण अर्थात् मुख्यमन्त्रीरूपेण प्रधानमन्त्रीरूपेण च निरन्तरं पञ्चविंशतिवर्षाणां पूर्तेः अवसरे देशस्य विभिन्नेषु भागेषु विविधाः कार्यक्रमाः आयोजिताः सन्ति। अस्य दीर्घस्य स
दीप जलाते मुख्यमंत्री शुभंदु अधिकारी


कोलकाता, ०६ अक्टोबरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशासनप्रमुखरूपेण अर्थात् मुख्यमन्त्रीरूपेण प्रधानमन्त्रीरूपेण च निरन्तरं पञ्चविंशतिवर्षाणां पूर्तेः अवसरे देशस्य विभिन्नेषु भागेषु विविधाः कार्यक्रमाः आयोजिताः सन्ति। अस्य दीर्घस्य सफलस्य च कार्यकालस्य उत्सवस्य कृते सम्पूर्णदेशे ‘सेवाज्योतियात्रा’ इति कार्यक्रमस्य शुभारम्भः कृतः। अस्मिनेव क्रमे बुधवासरे प्रातः कोलकातानगरस्य नेताजी-इन्डोर-स्टेडियम् इत्यत्र मुख्यमन्त्री शुभेन्दु-अधिकारी दीपप्रज्वालनं कृत्वा अभियानस्य औपचारिकं शुभारम्भं कृतवान्।

अस्मिन् अवसरे मुख्यमन्त्री शुभेन्दु-अधिकारी प्रधानमन्त्रिणः कार्यप्रणालीं प्रशंसन् अवदत्, “सः स्वयम् आत्मानं प्रधानमन्त्री इति न कथयति, अपितु ‘प्रधानसेवकः’ इति कथयति। सः केवलं वचनेन एव तत् न कथयति, अपितु तस्यामेव भावनया स्वकीयकार्यं करोति। मोदी-महोदयः अस्माकं सर्वेषां कृते महती प्रेरणा अस्ति।”

नेताजी-इन्डोर-स्टेडियम् इत्यत्र आयोजिते अस्मिन् भव्यकार्यक्रमे विशाल-यवनिकायाः माध्यमेन राष्ट्रस्य नाम प्रधानमन्त्रिणः सम्बोधनं प्रत्यक्षं प्रसारितम्। कार्यक्रमे उपस्थितैः जनैः प्रधानमन्त्रिणः सम्बोधनं श्रुतं दृष्टं च। अस्मिन् महत्त्वपूर्णे अवसरे राज्यस्य प्रायः सर्वे मन्त्रिणः प्रदेशभाजपायाः अनेके वरिष्ठनेतारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan