Enter your Email Address to subscribe to our newsletters

कोलकाता, ०६ अक्टोबरमासः (हि.स.)। डिसेम्बर-मासे २०२० तमे वर्षे डायमण्ड हार्बरस्य शिराकोले भारतीयजनतापक्षस्य तत्कालीन-राष्ट्रियाध्यक्षस्य जेपीनड्डा-महोदयस्य शोभायात्रायां यत् आक्रमणम् अभवत्, तस्मिन् प्रकरणे प्रायः षड्वर्षानन्तरं नवीनः घटनाक्रमः सम्मुखीभूतः अस्ति। उस्ती-थाना इत्यस्य आरक्षिणः प्रकरणस्य पुनः अन्वेषणं कुर्वन्तः स्थानीयं तृणमूल-काङ्ग्रेसनेतारं ‘पुष्पा’ इत्युपनाम्ना प्रसिद्धं जहाँगीरखानं गृहीतवन्तः। जहाँगीरः पूर्वमेव अन्यस्मिन् प्रकरणे कारागारे निरुद्धः आसीत्। आरक्षिभिः अस्मिन् प्रकरणे तस्य औपचारिकरूपेण पुनर्ग्रहणं कृतम्।
डायमण्डहार्बरस्य अपरारक्ष्यधीक्षकः (क्षेत्रीयः) अभिषेकमजूमदारः बुधवासरे तस्य ग्रहणस्य पुष्टिं कुर्वन् अवदत् यत् प्रकरणस्य नव्येन अन्वेषणस्य अन्तर्गतं यावत् चत्वारः अभियुक्ताः गृहीताः सन्ति।आरक्षीसूचनानुसारं पुनरन्वेषणस्य समये तौसीफ-अहमदः, आरिफहुसैनः, अनीसुर्र-हमानः च गृहीताः, तेभ्यः च पृच्छा कृता। पृच्छायां प्राप्तानां कथनानाम् आधारेण आरक्षिभिः जहाँगीरखानस्य भूमिकायाः विषये सूचना प्राप्ता इति कथ्यते। ततः तमपि अस्मिन् प्रकरणे अभियुक्तं कृत्वा गृहीतम्।
आरक्षिभिः कथितं यत् गृहीतेभ्यः अभियुक्तेभ्यः पृच्छां कृत्वा सञ्चालिते अन्वेषण-अभियाने द्वे अवैधे अग्न्यस्त्रे चत्वारि च जीवितानि कारतूस इत्यादिनि प्राप्तानि। सम्प्रति चत्वारोऽपि अभियुक्ताः आरक्षिणां निरोधे सन्ति। आरक्षिणः आक्रमणस्य सम्पूर्णां घटनां तथा तस्य पृष्ठतः कथितषड्यन्त्रस्य सूत्राणि च अन्वेषयन्ति।
आरक्षिसूचनानुसारं जहाँगीरखानस्य विरुद्धं २०१९ तमे वर्षेऽपि एकं प्रकरणं पञ्जीकृतमासीत्, यस्मिन् सः न्यायालयात् सहायतां प्राप्तवान् आसीत्। तदतिरिक्तं फलता-विधानसभाक्षेत्रे निर्वाचनात् पूर्वमपि कलकत्ता-उच्चन्यायालयात् तेन सहायता प्राप्ता आसीत्। पश्चात् न्यायालयेन ताः विधिकसहायताः प्रत्याहृताः, ततः आरक्षिणां कृते तस्य ग्रहणस्य मार्गः प्रशस्तः अभवत्।
उल्लेखनीयं यत् डिसेम्बर-मासे २०२० तमे वर्षे जेपी नड्डा-महोदयस्य डायमण्डहार्बर-यात्रायाः समये तस्य शोभायात्रायाः उपरि पाषाणप्रक्षेपणेन आक्रमणेन च घटना अभवत्। तस्मिन् समये अस्याः घटनायाः कारणेन भारतीयजनतापक्षस्य तत्का-लीनराज्यसर्वकारस्य च मध्ये तीव्रः राजनैतिकः विवादः अभवत्।
आरक्षिणः अधुना नड्डा-महोदयस्य शोभायात्रायाः उपरि आक्रमणप्रकरणे गृहीतेभ्यः चतुर्भ्यः अभियुक्तेभ्यः पृच्छां कृत्वा घटनायां तेषां कथितां भूमिकां तथा अन्यान् सम्बद्धान् विषयान् च अन्वेषयन्ति।
Hindusthan Samachar / Divya Ranjan