मोदिनः शासनप्रमुखरूपेण पञ्चविंशतिवर्षपूर्त्यवसरे जयपुरे ‘सेवाज्योतियात्रा’ निष्कासिता।
जयपुरम्, ०७ अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः शासनप्रमुखरूपेण पञ्चविंशतिवर्षपूर्त्यवसरे भाजपया बुधवासरे देशव्यापिरूपेण ‘सेवाज्योतियात्रा’ माध्यमेन कार्यक्रमाः आयोजिताः। राजस्थानराज्येऽपि सर्वेषु जनपदेषु विभिन्नाः कार्यक्रमाः आयोजिता
सेवा ज्योति यात्रा


जयपुरम्, ०७ अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः शासनप्रमुखरूपेण पञ्चविंशतिवर्षपूर्त्यवसरे भाजपया बुधवासरे देशव्यापिरूपेण ‘सेवाज्योतियात्रा’ माध्यमेन कार्यक्रमाः आयोजिताः। राजस्थानराज्येऽपि सर्वेषु जनपदेषु विभिन्नाः कार्यक्रमाः आयोजिताः। जयपुरस्य सांगानेरविधानसभाक्षेत्रस्य मानसरोवरस्थे वीटी रोडमैदाने आयोजिते मुख्यकार्यक्रमे मुख्यमन्त्री भजनलालशर्मा, भाजपायाः प्रदेशाध्यक्षः मदनराठौडः इत्यादयः बहुसङ्ख्याकाः भाजपाकार्यकर्तारः सामान्यजनाश्च सम्मिलिताः।

कार्यक्रमस्य अवधौ प्रधानमन्त्री नरेन्द्रमोदी दिल्लीस्थात् इन्दिरागान्धी-क्रीडाङ्गणात् आभासीयमाध्यमेन सम्बोधितवान्। तेन जनानां भाजपाकार्यकर्तॄणां च प्रति कृतज्ञता प्रकटयता उक्तं यत् सः आकाङ्क्षायै न, अपितु लक्ष्याय जीवनं यापयन् व्यक्तिः अस्ति। स्वस्य राजनैतिकयात्रां शिक्षणेन सङ्घर्षेण च सम्बद्धां वर्णयन् सः उक्तवान् यत् जीवने सः कदापि एतत् न चिन्तितवान् यत् भविष्ये किं भविष्यति। विरोधैः आव्हानैश्च तस्मै लोकतन्त्रस्य शक्तिं ज्ञातुम् अवसरः प्राप्तः। तेन ईश्वरात् सदैव शिक्षितुं सामर्थ्यं याचितम्।

प्रधानमन्त्रिणः सम्बोधनानन्तरं जयपुरे सेवाभावनायाः सामाजिकदायित्वस्य च प्रतीकरूपेण मशालः प्रज्वालिता। ततः वीटी रोडमैदानतः सिटीपार्कचतुष्पथपर्यन्तं सेवाज्योतियात्रा निष्कासिता। भाजपायाः प्रदेशाध्यक्षः मदनराठौडः मशालं धृत्वा यात्रायाः नेतृत्वं कृतवान्, मुख्यमन्त्री भजनलालशर्मा सहिताः भाजपानेतारः बहुसङ्ख्याकाः कार्यकर्तारश्च यात्रायां सम्मिलिताः। सिटीपार्कचतुष्पथे मशालः स्थापितः।

अस्मिन् अवसरे मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः गौरवपूर्णयात्रायाः पञ्चविंशतिवर्षपूर्तिः देशस्य कृते महत्त्वपूर्णः अवसरः अस्ति। तस्य अनुसारं २०१४ तमवर्षात् परं देशे व्यापकं परिवर्तनं दृष्टम् तथा सत्तां सेवायाः माध्यमरूपेण परिवर्तितम्। तेन उक्तं यत् प्रधानमन्त्री मोदी अधुना जनविश्वासस्य गारण्टी इत्यस्य च पर्यायः अभवत् तथा तस्य नेतृत्वे राजस्थानमपि अग्रणीराज्यस्य दिशि अग्रे प्रवर्तते।

भाजपायाः प्रदेशाध्यक्षः मदनराठौडः उक्तवान् यत् ७ अक्टोबर् २००१ तमे वर्षे नरेन्द्रमोदी गुजरातस्य मुख्यमन्त्रिरूपेण शपथं गृहीतवान्। ततः तेन गुजरातस्य विकासाय नूतना दिशा प्रदत्ता तथा २०१४ तमे वर्षे प्रधानमन्त्रीरूपेण पदग्रहणानन्तरं देशस्य विकासाय राष्ट्रनिर्माणाय च निरन्तरं कार्यं कृतम्। राठौडेन उक्तं यत् प्रधानमन्त्रिणः लक्ष्यं २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुम् अस्ति।

तेन सूचितं यत् प्रधानमन्त्रिणः जन्मदिवसस्य अवसरे १७ सितम्बर् दिने राजस्थानराज्ये चत्वारिंशल्लक्षदीपाः प्रज्वाल्य तस्मै जनानाम् आशीर्वादः प्रकटितः आसीत्। अधुना सार्वजनिकसेवायात्रायाः पञ्चविंशतिवर्षपूर्त्यवसरे ‘सेवाज्योतियात्रायाः’ माध्यमेन सेवायाः, समर्पणस्य, सामाजिकदायित्वस्य च सन्देशः जनजनपर्यन्तं प्राप्यते।

कार्यक्रमे भाजपाकार्यकर्तृभिः सह बहुसङ्ख्याकाः सामान्यजनाः अपि सहभागितां कृतवन्तः। प्रदेशव्यापिरूपेण आयोजितैः कार्यक्रमैः पक्षेन प्रधानमन्त्री मोदिनः पञ्चविंशतिवर्षीयसार्वजनिकजीवनस्य सेवायात्रायाश्च सन्देशः जनानां पर्यन्तं प्रापयितुं प्रयत्नः कृतः।

---------------

Hindusthan Samachar / Dheeraj Maithani