उत्तरप्रदेशाय वरदानरूपः वर्त्तते रामस्य राष्ट्रस्य च आराधकः योगी आदित्यनाथः — अमरजीतमिश्रः
वाराणसी, ०७ अक्टोबरमासः (हि.स.)। मुम्बई-भाजपायाः प्रदेशोपाध्यक्षः तथा फिल्मसिटी-मुम्बय्याः पूर्वोपाध्यक्षः अमरजीतमिश्रः अवदत् यत् रामं राष्ट्रं च आराधयन् मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशाय वरदानरूपः सिद्धः अभवत्। मुख्यमन्त्रिणा योगिना प्रदे
मुंबई भाजपा के प्रदेश उपाध्यक्ष वाराणसी के पूर्व महापौर कौशलेंद्र सिंह पटेल को बधाई देते हुए


वाराणसी, ०७ अक्टोबरमासः (हि.स.)। मुम्बई-भाजपायाः प्रदेशोपाध्यक्षः तथा फिल्मसिटी-मुम्बय्याः पूर्वोपाध्यक्षः अमरजीतमिश्रः अवदत् यत् रामं राष्ट्रं च आराधयन् मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशाय वरदानरूपः सिद्धः अभवत्। मुख्यमन्त्रिणा योगिना प्रदेशे सुशासनस्य, विकासस्य, जनकल्याणस्य च नूतना दिशा प्रदत्ता, साथमेव उत्तरप्रदेशस्य परिचयः अपि नूतनाम् उच्चतां प्राप्तवान्।

उत्तरप्रदेशस्य भदोही-विधानसभाक्षेत्रस्य मूलनिवासी अमरजीतमिश्रः सम्प्रति भदोही-वाराणसी इत्यनयोः त्रिदिवसीय-यात्रायां वर्तते। बुधवासरे वाराणसी-सर्किट-हाउस इत्यत्र पत्रकारैः सह वार्तालापं कुर्वन् सः अवदत् यत् मुख्यमन्त्री योगी आदित्यनाथः केवलं शासनादेशान् निर्गमयन् मुख्यमन्त्री नास्ति, अपितु संवेदनां सङ्कल्पे, सङ्कल्पं च परिणामे परिणमयन् जननेता अस्ति।

सः अवदत् यत् २०१७ तमे वर्षे योगी-आदित्यनाथेन उत्तरप्रदेशे सुशासनाय विश्वासस्य आधारशिला स्थापिता, अद्य तस्यामेव आधारशिलायां जनविश्वासस्य गगनचुम्बी प्रासादः दृश्यते। योगी-आदित्यनाथस्य सर्वकारेण प्रदेशस्य स्थितौ सुधारं कृत्वा तस्य प्रगतिमार्गस्य दिशायामपि नवीनं स्वरूपं प्रदत्तम्।

अमरजीतमिश्रः अवदत् यत् विधिव्यवस्था, आधारभूतसंरचना, निवेशः, पर्यटनम्, धार्मिकस्थलानां विकासः तथा जनकल्याणम् इत्येतेषु क्षेत्रेषु कृतैः कार्यैः उत्तरप्रदेशस्य स्वरूपं परिवर्तितम्। सः अवदत् यत् रामस्य मर्यादया राष्ट्रसेवायाः भावनया च प्रेरितं योगी-आदित्यनाथस्य नेतृत्वम् उत्तरप्रदेशं विकासस्य गौरवस्य च नूतनानां शिखराणां दिशि नयति।

स्वकीयस्य वाराणसीप्रवासस्य समये अमरजीतमिश्रेण उत्तरप्रदेश-भाजपायाः नवनियुक्तेन प्रवक्त्रा तथा वाराणस्याः पूर्वमहापौरैः कौशलेन्द्रसिंहपटेलेन सहापि मेलनं कृतम्। तस्मै नूतनदायित्वस्य कृते अभिनन्दनानि शुभकामनाश्च प्रदत्तानि। सः विश्वासं व्यक्तवान् यत् कौशलेन्द्र-सिंहपटेलः दलस्य विचारधारां सर्वकारस्य जनकल्याणकारीनीतिश्च प्रभाविरूपेण जनसामान्यं प्रति प्रेषयितुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। मिश्रः अवदत् यत् काशी, भदोही सम्पूर्णं च पूर्वाञ्चलम् अधुना विकासस्य नूतनानां सम्भावनानां केन्द्रं भवति तथा योगिसर्वकारस्य नेतृत्वे उत्तरप्रदेशः निरन्तरं नूतनानि उपलब्धानि प्राप्नोति।

वाराणसीप्रवासस्य समये पत्रकारैः सह वार्तालापे सः अवदत् यत् उत्तरप्रदेशः केवलं भारतस्य सर्वाधिकजनसङ्ख्यायुक्तं राज्यं नास्ति, अपितु भारतस्य सभ्यतायाः संस्कृतेः आध्यात्मिकचेतनायाश्च विराट् भूमिः अस्ति। अयोध्यातः काशीं मथुरातः प्रयागराजपर्यन्तं च अस्य भूमौ भारतीयसंस्कृतेः सहस्रवर्षीयाः स्मृतयः जीवन्त्यः सन्ति। एतादृशस्य प्रदेशस्य नेतृत्वं केवलया प्रशासनिकदक्षतया न, अपितु तस्य सांस्कृतिकात्मनः अवगमनशीलया दृष्ट्या अपि भवितव्यम्। अस्मिन्नेव सन्दर्भे उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वं महत्त्वपूर्णम् अस्ति।

सः अवदत् यत् मुख्यमन्त्रिणः योगी-आदित्यनाथस्य राजनीतेः केन्द्रं केवलं सत्ता नास्ति, अपितु रामः, राष्ट्रं सांस्कृतिकचेतना च इत्येषां अवधारणा अस्ति। अयोध्यायां श्रीराममन्दिरस्य निर्माणात् दीपोत्सवादीनां सांस्कृतिक-कार्यक्रमाणां पर्यन्तं योगिसर्वकारेण उत्तरप्रदेशस्य सांस्कृतिकपरिचयं विकासेन पर्यटनक्षेत्रेण च सम्बद्धुं प्रयत्नः कृतः। न्यायस्य, सुरक्षायाः, सम्मानस्य लोककल्याणस्य च भावना योगि-सर्वकारस्य कार्येषु दृष्टा।

Hindusthan Samachar / Divya Ranjan